________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 179 अथापि खलु 'इदमस्ति इदं नास्ति' इति कुत एतत् प्रतिपत्तव्यमिति ?, प्रमाणत उपलब्धेरनुपलब्धेश्चेति, अविद्यमानस्तर्हि शब्दः प्रायच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च // 18 // प्रागुच्चारणान्नास्ति शब्दः / कस्मात् ? अनुपलब्धेः, सतोऽनुपलब्धिरावरणादिभ्य एतमोपपद्यते / कस्मात् ?. आवरणादीनामनुपलब्धिकारणानामग्रहणात्= अनेनावृतः शब्दो नोपलभ्यते असंनिकृष्टश्चेन्द्रियव्यवधानाद् इत्येवमादि अनुपलब्धिकारणं न गृह्यते इति. सोयमनुचारितो नास्तीति / तेनेदमभिहितमिति " इति तात्पर्यटीका, अत्रापि “बहुष्वधिकरणेषु " इति पाठोऽसंगत एव स्यात् तस्मात् मन्ये " द्वौ पक्षौ " इत्यत्र 'स्वपक्षम्' इति पाठोयुक्तस्तस्यैव " द्वौ पक्षौ” इति विकृतिर्जाता. तथा च 'सूत्रकारो बहुष्वधिकरणेषु स्वपक्षं न व्यवस्थापयति तत्र पक्षे शास्त्रसिद्धान्तात्= अनुमानात् तत्त्वावधारणम्= अनुक्तपक्षावधारणं कर्तुमर्हति जिज्ञासुरिति मन्यते / इत्येवं सम्यगन्वयः संभवति, किं वा द्वौ पक्षौ= पूर्वपक्षसिद्धान्तपक्षौ तयोरव्यवस्थापनं च बहुत्र स्पष्टम् , किं वा क्वचित् पूर्वपक्षस्य कचित् सिद्धान्तपक्षस्य चाव्यवस्थापनं ज्ञेयम् / शास्त्रसिद्धान्तमाह-शास्त्रसिद्धान्त इति, न्यायसमाख्यातम्= न्यायपदवाच्यं यदनुमतम् अनुमानं तदेव शास्त्र सिद्धान्त इति अनुक्तो विषयोऽनुमानेनावधारणीय इति आत्मादीनां निष्प्रदेशत्वमपि नित्यत्वानुमानेन= नित्यत्वहेतुनावधारणीयम्- नित्यानां निरवयवत्वनियमादित्यर्थः / अत्र- " अनुमानतरोश्च पञ्चानां रूपाणां चतुर्णा वा संपदः शाखा बहव इत्यर्थः" इति तात्पर्यटीका, तेनानुमानं बहुशाखमित्युक्तम् // 17 // ___शब्दानित्यत्वसाधनाय जिज्ञासते- अथेति, किं चेत्यर्थः / इदमस्ति इदं नास्ति' इत्येतत्= सत्वं चासत्त्वं च किं वा इदं नित्यमिदं चानित्यमिति कुतः= कथं प्रतिपत्तव्यमिति वक्तव्यम् / उत्तरमाहप्रमाणत इति, प्रमाणतो यदुपलभ्यते तस्य सत्त्वं यन्नोपलभ्यते तस्य चासत्त्वं प्रतिपत्तव्यमित्यन्वयः, अत्र सिद्धान्ती स्वाभिप्रायमाह- अविद्यमान इति, यदि यत् प्रमाणतो नोपलभ्यते तस्यासत्त्वं प्रतिपत्तव्यं तर्हि= तदा शब्दोपि अविद्यमानः= असन्= विनाशीति प्राप्तम्- उच्चारणात् पूर्वोत्तरकालयोरनुपलब्धेरित्यर्थः / शब्दस्याऽविद्यमानत्वे सूत्रेण हेतुमाह-प्रागिति, उच्चारणात् प्राक्= पूर्व शब्दस्यानुपलब्धेरसत्त्वं सिद्धम् / ननु सतोप्यावरणादनुपलब्धिः संभवतीत्याशङ्कयाह- आवरणेति, सतः प्रत्यक्षप्रतिबन्धकं यदावरणादि तदपि शब्दस्य नोपलभ्यते येनानुपलभ्यमानस्यापि शब्दस्य सत्त्वं स्यादिति शब्दो विनाश्येव न नित्य इति सूत्रार्थः / व्याचष्टे- प्रागिति / शब्दासत्त्वस्य ज्ञानकारणं जिज्ञासतेकस्मादिति / उत्तरमाह- अनुपलब्धेरिति / ननु सतोप्यावरणादिनानुपलब्धिः संभवतीत्याशङ्कते- सत इति / एतत् प्रत्याचष्टे- एतदिति, एतत्= आवरणादि / आवरणाद्यनुपपत्तिकारणं जिज्ञासते- कस्मादिति / उत्तरमाह- आवरणादीनामिति, सतोपि शब्दस्यानुपलब्धिकारणानाम् / उक्तं व्याचष्टेअनेनेति, येन शब्दः सन्नपि आवृतः स नोपलभ्यते किं वा 'अनेनावृतः शब्द इति नोपलभ्यते= न जायते, इत्यन्वयः, यदि सन्नपि शब्द इन्द्रियव्यवधानाद् असंनिकृष्टः= इन्द्रियासंबद्ध इति नोपलभ्यते इत्यच्यते तदापीन्द्रियव्यवधानकारणमावरणादिकमेव स्यात् तच्च नोपलभ्यते इत्याह- असंनिकृष्ट इति, पुनरुक्तमिदं वाक्यम् , एवमादि= आवरणादि / उपसंहरति- सोयमिति, सोयम्= उच्चारणेन श्रूयमाणः शब्दः अनुच्चारित:= उच्चारणात् प्राक् पश्चाच्च नास्तीति सिद्धम् / यदि शब्दस्यावरकं किंचित्स्यात् तदाऽनुपलभ्यमानस्यापि सत्त्वं स्यात् न चावरकमस्ति न चोच्चारणात् पूर्वोत्तरकालयोः शब्द उपलभ्यते इति शब्दस्य विनाशित्वं सिद्धमित्यर्थः /