________________ निर्णयलक्षणम्] न्यायभाष्यम्। संभवति तत् क्रियावत् यस्य न संभवति तदक्रियमिति / एकधर्मिस्थयोश्च विरुद्धयोधर्मयोरयुगपद्भाविनोः कालविकल्पो यथा- तदेव द्रव्यं क्रियायुक्तं क्रियावत् . अनुत्पन्नोपरतक्रियं पुनरक्रियमिति / न चायं निर्णये नियम:- विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति किं तु इन्द्रियार्थसंनिकर्पोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः, शास्त्रे वादे च विमशेवजेम् // 41 // // इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथममाह्निकम् // हरति- यथेति, ‘क्रियावद् द्रव्यम्' इति द्रव्यलक्षणे कृते यस्य वाय्वादिद्रव्यस्य क्रियायोगः= क्रियावत्त्वं हेतुतः= गमनादिलक्षणहेतुतः संभवति तद् वाय्वादिद्रव्यं क्रियावत् सिध्यति. यस्य चाकाशस्य क्रियावत्त्वं न संभवति- व्यापकत्वात् तद् अक्रियमपि सिध्यति. तथा च क्रियावत्त्वं क्रियारहितत्वं चेति विरुद्धावपि धर्मों सामान्यतो द्रव्ये संभवत इति नैकतरस्य बाधः / धर्मिविशेषेपि विरुद्धयोर्धर्मयोः कचित् कालभेदेनोपसंहारो भवतीत्याह- एकेति, अयुगपद्भाविनोः= एकस्मिन् कालेऽसंभवतोः, कालविकल्प:- कालभेदेनोपपत्तिः / उदाहरति- यथेति, यथा घट: क्रियायोगकाले क्रियावान् भवति अनुपन्नोपरतक्रियम्= अनुत्पन्ना उपरता वा क्रिया यस्य तद् अनुत्पन्नोपरतक्रियं क्रियानुत्पत्तिकाले क्रियाविनाशकाले च स एव घटोऽक्रियम्= क्रियारहितोपि भवतीति एकस्मिन्नपि घटादिद्रव्ये क्रियारहितत्त्वक्रियासहितत्त्वयोर्विरुद्धयोधर्मयोः कालभेदेनोपसंहारो भवति एवमन्यत्रापि सति संभवे उपसंहारो विज्ञेयः, नित्यत्वानित्यत्वयोस्तु कालभेदेनाप्येकत्रोपसंहारो न संभवतीत्येकतरस्य बाध एव भवतीत्यलम् / . "विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः” इतिलक्षणं निर्णयमात्रस्य नास्ति किंतु परीक्षाविषयकनिर्णयमात्रस्येत्याह- न चेति / स्वाभिप्रायमाह- किं विति, इन्द्रियार्थसंनिकर्षेणोत्पन्नप्रत्यक्षस्थले तु तादृशप्रत्यक्षेणैव विषयस्यार्थस्यावधारणं निर्णय इत्येव लक्षणं तत्र विमर्शपक्षप्रतिपक्षाणामभावात् / विमर्शपक्षप्रतिपक्षैनिर्णयसंभवस्थलमाह- परीक्षेति, परीक्षायां प्रवृत्तायां परीक्षणीयविषयं विमृश्य पक्षप्रतिपक्षाभ्यामेवावधारणं भवतीति तत्रैवेदं निर्णयलक्षणं समन्वेति, शास्त्रे च वादे च विमर्शवर्जम्= संशयं विनैव निर्णयो भवति तथा च शास्त्रेण निर्णये विमर्शपक्षप्रतिपक्षाणां त्रयाणामपि प्राप्ति स्ति, वादजल्पवितण्डासु च निर्णये पक्षप्रतिपक्षयोः संभवेपि विमर्शस्य प्राप्ति स्ति-वादिप्रतिवादिनोस्तादृशविषयस्य निश्चयसत्त्वेन संशयाऽसंभवात , संशये सति हि परीक्षणीयस्य विषयस्य विमृश्य पक्षप्रतिपक्षाभ्यां निर्णयो जायते इतिविवेकः / विमर्शवर्जमर्थावधारणं निर्णय इत्यन्वयः / अत्र-"न हि ज्योतिष्टोमादीनां स्वर्गादिसंबन्धनिर्णये आगमेन कर्तव्ये विमर्शोऽस्ति ( भवति ) नापि वादजल्पवितण्डासु विमर्शः- निश्चितयोरेव वादिनोस्तत्र प्रवृत्तेरित्यर्थः” इति तात्पर्यटीका // 41 // // इति न्यायभाष्यप्रसन्नपदायां प्रथमाध्यायस्य प्रथममाह्निकं समाप्तम् //