________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेमवश्यम्भावि यस्यावस्थानं तस्यानधारणं निर्णयः, नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं संभवतीति। एको हि प्रतिज्ञातमर्थ तं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरतीति. द्वितीयस्य द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश्चोद्धियते स निवर्तते. तस्य निवृत्तौ योऽवतिष्ठते तेनार्थावधारणं निर्णयः, उभाभ्यामेवार्थावधारणमित्याह / कया युक्त्या ?. एकस्य संभवो द्वितीयस्याऽसंभवः, तावेतौ संभवासंभवौ विमर्श सह निवर्तयत उभयसंभवे. उभयासंभवे त्वनिवृत्तो विमर्श इति / विमृश्येति= विमर्श कृत्वा, सोयं विमर्शः पक्षप्रतिपक्षावऽवद्योत्य न्यायं प्रवतेयतीत्युपादीयते इति, एतच्च विरुद्धयोरेकधर्मिस्थयोर्बोद्धव्यम् / ___ यत्र तु धर्मिसामान्यगतौ विरुद्धौ धौ हेतुतः संभवतस्तत्र समुच्चयः- हेतुतोऽर्थस्य तथाभावोपपत्तेः यथा- 'क्रियावद् द्रव्यम्' इतिलक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः रिति, तयोः= उक्तलक्षणपक्षप्रतिपक्षयोर्मध्ये अन्यतरस्य निवृत्तिः= निवृत्त्या एकतरस्य= द्वितीयपक्षस्याऽवस्थानम्= सिद्धिरावश्यकीति यस्य पक्षस्याऽवस्थानम्= सिद्धिस्तस्य पक्षस्यावधारणं निर्णय इत्यन्वयः। इदं चार्थावधारणं पक्षप्रतिपक्षमात्राभ्यां न संभवति- पक्षप्रतिपक्षयोः सत्त्वेपि तददर्शनादिति पक्षप्रतिपक्षयोः “व्यतिषक्तौ” इत्यादीनि विशेषणान्युक्तानि. सूत्रे च " विमृश्य" इत्युक्तं तथा च विमर्शानन्तरं पक्षप्रतिपक्षाभ्यां निर्णयो जायते परीक्षास्थले इत्यर्थः / निर्णयस्येतिकर्तव्यतामाह- एक इत्यादिना, एकः= पक्षी ते स्वप्रतिज्ञातमर्थ हेतुना स्थापयति यथा 'आत्माऽनुत्पत्तिधर्मकः कर्मफलभोक्तत्वात् / इति, परेण प्रतिषिद्धं चात्मनित्यत्वमुद्धरति= प्रत्याचष्टे, द्वितीयेन= प्रतिपक्षिणा द्वितीयस्य पक्षिणः स्थापनाहेतुः प्रतिषिध्यते यथोक्तं कर्मफलभोक्तृत्वं तस्य= तेन वादिना पक्षिणा यः प्रतिपक्षिसाध्यस्य प्रतिषेधहेतुरुक्तः स प्रतिपक्षिणा उदूध्रियते= निरस्यते तथा च स निरस्तो हेतुर्निवर्तते तस्य निवृत्तौ जातायां यः प्रतिवादिहेतुरवतिष्ठते= स्थिरो भवति तेन स्थिरेण हेतुना यत् तत्त्वार्थावधारणं स निर्णय इत्युच्यते इति निर्णयसिद्धिप्रकारः, तथा चोभाभ्याम्= पक्षप्रतिपक्षाभ्यामुभाभ्यामेवार्थावधारणं संभवति नान्यतरे. णेति सूत्रकार उभाभ्यामेवार्थावधारणमित्याहेत्याह- उभाभ्यामिति / नन्वर्थावधारणं ह्येकेनैव पक्षेण संभवति न द्वाभ्यां निरस्तस्य द्वितीयपक्षस्य तत्त्वावधारकत्वासंभवादिति कथमुभाभ्यामेवार्थावधारणमित्युक्तमिति जिज्ञासते- कयेति, कया युक्त्या उभाभ्यामेवार्थावधारणमित्यर्थः / उत्तरमाह- एकस्येति, एकस्य पक्षस्य संभवः= सिद्धिभर्वति द्वितीयस्य पक्षस्याऽसंभवः= असिद्धिर्भवतीति यस्य सिद्धिर्भवति तस्यावधारणं भवतीत्येवंरीत्या परीक्षायां पक्षप्रतिपक्षाभ्यामर्थावधारणं सिद्धमित्यन्वयः। तावेतौ= पक्षप्रतिपक्षयोः सि. द्धयसिद्धिलक्षणौ संभवासंभवौ सह=मिलित्वा विमर्शम्= संशयं निवर्तयतः उभयसंभवे= स्वपक्षस्थापनस्य परपक्षप्रतिषेधस्य च संभवे= सत्त्वे सति, उभयासंभवे= स्वपक्षस्थापनमात्रेण वा परपक्षप्रतिषेधमात्रेण वा विमर्शोऽनिवृत्तः= न निवर्तते इत्यन्वयः / अत्र “साधनमात्र निर्देशे प्रतिवाद्युक्तदूषणानुद्धरणे सत्प्रतिपक्षितत्त्वेन दूषणानुभावनेपि दूषणसंभावनामात्रेणापि संशयावस्थितिसंभवात् परीक्षायाः संशयपूर्वकत्वेन संशयकारणतयोपस्थितकोटिद्वयमध्ये एकतरकोटेरबाधने प्रतिज्ञामात्रेण संशयनिवृत्तेरसंभवात् " इति श्रीगुरुचरणाः / विमृश्येतिपदं व्याचष्टे- विमृश्येति / विमर्शापेक्षाकारणमाह- सोयमिति, सोयं संशयो वादिप्रतिवादिनोः पक्षप्रतिपक्षौ अवद्योत्य= प्रकाश्य- संस्थाप्य न्यायम्= प्रतिज्ञाद्यवयवान् प्रवर्तय. तीति हेतोरेव उपादीयते= गृह्यते प्रथम संशय्यते इत्यर्थः / एतच्च= एकपक्षावधारणं तत्र भवति यत्र एकधर्मिस्थयोरेव विरुद्धयोधर्मयोः संशयो भवति यथात्मनि नित्यत्वानित्यत्वयोः परस्परविरुद्धयोः धर्मयोः संशये जाते एकतरधर्मावधारणं भवति- उभयधर्मोपसंहारासंभवादित्यर्थः / समुच्चयपक्षमाह- यत्रेति, धर्मिसामान्ये हेतुतो विरुद्धयोधर्मयोः संभवे हि समुच्चयो भवति न त्वन्यतरयाधः- अर्थस्य= सामान्यधर्मिणो हेतुतस्तथाभावस्य= तादृशविरुद्धधर्मवैविष्टयस्योपपत्तेः / उदा.