________________ निर्णयलक्षणम्] न्यायभाष्यम्। ___ कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति 1. अनवधारणात्= अनुजानात्ययमेकतरं धर्म कारणोपपत्त्या न त्ववधारयति= न व्यवस्यति= न निश्चिनोति- एवमेवेदमिति / कथं तत्त्वज्ञानार्थ इति ?. तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाद् भावितात् प्रसन्नादनन्तरं प्रमाणसाम ात् तत्त्वज्ञानमुत्पद्यते इत्येवं तत्त्वज्ञानार्थ इति / सोयं तर्कः प्रमाणानि प्रतिसंदधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे प्रदिष्ट इति अविज्ञाततत्त्वमनुजानाति यथा सोऽर्थों भवति तस्य यथाभावः तत्त्वम् अविपयेयः= याथातथ्यम् // 40 // अस्मिंश्च तकेविषये विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः // 41 // स्थापना= साधनं प्रतिषेधः= उपालम्भः तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिपक्तावऽनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावित्युच्येते. तयोरन्यतरस्य निवृत्तिरेकतरस्याऽवस्थान____ ननूक्तलक्षणस्तर्कस्तु तत्त्वज्ञानमेवेति विज्ञायते अनुत्पत्तिधर्मक आत्मा' इत्यादितर्कस्य तत्त्वज्ञानरूपत्वादिति अयम्= तर्कस्तत्त्वज्ञानार्थ इति कथमुक्तमित्याशङ्कते- कथमिति / उत्तरमाह- अनवधारणादिति, उक्तं व्याचष्टे- अनुजानातीति, अयम्= तर्ककरः कारणोपपत्त्या= हेतुप्रतिपत्त्या एकतरं धर्म यथोक्तरीत्यात्मन अनुत्पत्तिधर्मकत्वमऽनुजानाति= संभावयतीतियावत् न त्ववधारयति= न निश्चिनोति- एवमेवेदमिति अत्माऽनुत्पत्तिधर्मक एवेति न निश्चिनोति. तथा च तर्कस्य निश्चयरूपत्वाभावान्न तत्त्वज्ञानं तर्कः किं तु तत्त्वज्ञानार्थः= तत्त्वज्ञानसहकारीत्यर्थः / तर्कस्य तत्त्वज्ञानरूपत्वाभावेपि तत्त्वज्ञानार्थत्वं जिज्ञासते- कथमिति / उत्तरमाह- तत्त्वज्ञानेति, तत्त्वज्ञानविषयस्य आत्मानुत्पत्तिधर्मकत्वस्य याऽभ्यनुज्ञा= उपपत्तिः उपपत्त्यनुसंधानं वा तल्लक्षणादूहात् भावितात= चिन्तितात् प्रसन्नात्= अबाधितात् एतादृशादूहादनन्तरम्= एतादृशोहसहकारेण प्रमाणसामर्थ्यात् तत्त्वज्ञानमुत्पद्यते इत्येवंरीत्या प्रमाणसहकारित्वेन तत्त्वज्ञानार्थस्तर्क इत्युच्यते इत्यन्वयः / “अभ्यनुज्ञालक्षणादूहात्" इत्यत्र !" अभ्यनुज्ञालक्षणानुग्रहात्" इत्यपि पाठः / उपसंहरति- सोयमिति, तर्कोयं प्रमाणानि प्रतिसंदधानः= समादधानः= प्रमाणसमाधानपरः प्रमाणाभ्यनुज्ञानात्= प्रमाणानुकूल्यात्= प्रमाणानुकूलो वादे प्रदिष्टः उपदिष्टो वेदितव्यो न तु प्रमाणप्रतिकूलोपीत्यन्वयः / “अविज्ञातत्त्वमनुजानाति" इत्यत्रत्यं तत्त्वपदार्थमाह- अविज्ञातेति, सोर्थों यथा भवति तस्यार्थस्य यथाभाव एव तत्त्वम्= अविपर्ययः= याथातथ्यम्= यथार्थत्वमेव तत्स्वमित्यन्वयः, यथाऽऽत्मानुत्पत्तिधर्मकोस्तीति तस्य नित्यत्वमेव यथाभावः तदेव तत्त्वं तच्च पूर्व न निश्वितमासीदित्यऽविज्ञाततत्त्वे आत्मनि तर्कसाहाय्येन प्रमाणैस्तत्त्वज्ञानम्= नित्यत्वज्ञानमुत्पाद्यते इत्यर्थः / तदनेन तर्केण तर्ककरोऽविज्ञाततत्त्वं पदार्थमनुजानाति= अवधारयतीत्यन्वयः // 40 // निर्णयलक्षणमवतारयति- अस्मिन्निति, अस्मिन्= उक्ते तर्कविषये विमृश्य पक्षप्रतिपक्षाभ्यां यदविधारणं स निर्णय इत्यन्वयः / विमृश्येति- विमृश्य= इदमेवं वाऽनेवं वेति संशयं कृत्वा पक्षप्रतिपक्षाभ्याम्= संदिग्धविषयकखण्डनमण्डनाभ्यां सिद्धार्थविषयकं यदवधारणम्= निश्चयः स निर्णय इतिसूत्रान्वयः / तदेतल्लक्षणं संदिह्य परीक्षानन्तरं जायमानस्य निर्णयस्येति विज्ञेयम्- भाष्यकारेण वादादिकृत निर्णये विमर्शराहित्यस्य वक्ष्यमाणत्वात्. प्रत्यक्षादिप्रमाणैर्जायमाननिर्णये च पक्षप्रतिपक्षयोरप्यभावात् तस्मात् 'तत्त्वावधारणं निर्णयः' इत्येव व्यापकं लक्षणं मन्तव्यम् / ब्याचष्टे- स्थापनेति, स्वपक्षस्थापना साधनमित्युच्यते. परपक्षस्य प्रतिषेधः= खण्डनम् उपालम्भ इत्युच्यते तो साधनोपालम्भौ यौ यथाक्रम पक्षप्रतिपक्षाश्रयौ= पक्षप्रतियक्षविषयको व्यतिषक्तौ= परस्परसंबद्धौ= उत्तरप्रत्युत्तररूपी अनुबन्धेन= उत्तरोत्तरं क्रमेण प्रवर्तमानौ तौ पक्षप्रतिपक्षावित्युच्येते एतादृशाभ्यां पक्षप्रतिपक्षाभ्याम्= उक्तविशेषणविशिष्टसाधनोपालम्भाभ्याम्= खण्डनमण्डनाभ्यामर्थावधारणं निर्णय इत्यर्थः / पर्यवसितमाह- तयो