________________ प्रसन्नपदापरिभूषितम्- [ 1 अध्याये. १आह्रिकेतत्र निदर्शनम्- योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते तं च भो तत्त्वतो जानीये इति जिज्ञासा, स किमुत्पत्तिधर्मको वाऽनुत्पत्तिधर्मक इतिः? विमर्शः, विमृश्यमानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याऽभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति- यद्ययमनुत्पत्तिधर्मकस्ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसारापवर्गों, उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्- उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः संबध्यते इति नाऽस्येदं स्वकृतस्य कर्मणः फलम्- उत्पन्नश्च भूत्वा न भवतीति तस्याऽविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति तदेवमेकस्याऽनेकशरीरयोगः शरीरवियोगश्चात्यन्तं न स्यादिति / यत्र कारणमनुपपद्यमानं पश्यति तन्नानुजानाति, सोयमेवंलक्षण ऊहस्तके इत्युच्यते / उत्पत्तिधर्मकत्वानुत्पत्तिधर्मकत्वयोर्मध्ये एकम्= एकतरं धर्मम्= अनुत्पत्तिधर्मकत्वं कारणोपपत्त्या आत्मनो नित्यत्वे एव कर्मादिफलं संभवति अन्यथा कृतहानिरकृताभ्यागमः स्यादित्यादिना नित्यत्वकारणोपपादनेनाऽनुजानाति= संभावयति / अभ्यनुज्ञास्वरूपमाह- संभवतीति, अस्मिन्= यथाऽनुत्पत्तिधर्मकत्वे कारणम्= प्रमाणलक्षणं हेतुः संभवतीति नित्यत्वकारणस्य कृतकर्मफलभोक्तत्वस्योपपत्त्या एतत्= आत्मा एवम्= अनुत्पत्तिधर्मक एव, इतरत्= उत्पत्तिधर्मक आत्मा नेत्यन्वयः / __स्वयमुदाहरति तर्कम्- तत्रेति, तत्र तर्के निदर्शनम्= उदाहरणम् / योयं ज्ञातव्यार्थज्ञाता तं जानीये इति आत्मविषया जिज्ञासा प्रथमं जायते, जिज्ञासानन्तरं जायमानं संशयमाह-स इति, सः ज्ञाता- आत्मा / विमर्श: संशयः / एवमर्थे= आत्मपदार्थेऽविज्ञाततत्त्वे अत एव विमृश्यमाने यस्य धर्मस्य उत्पत्तिधर्मकत्वस्य वाऽनुत्पत्तिधर्मकत्वस्य वाऽभ्यनुज्ञाकारणम्= स्वीकारकारणमुपपद्यते तमेव धर्ममनुजानाति, अत्रानुत्पत्तिधर्मकत्वस्य कारणमुपपादयति- यदीति, अयम्= आत्मा, ततः अनुत्पत्तिधर्मकत्वात्= नित्यत्वात् , नित्यस्य हि शरीरवियोगानन्तरं स्वर्गनरकदेहान्तरादिषु गमनं संभवतीति तत्र तत्रायमात्मा स्वकृतकर्मफलमनुभवति= अनुभवितुमर्हति, आत्मज्ञाने जाते च दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये उत्तरमुत्तरं पूर्वपूर्वस्य कारणमिति कारणाभावे कार्याभावन्यायेन उत्तरोत्तरापाये तदनन्तराभावात् पूर्वपूर्वापायादपवर्गोपि संभवतीति आत्मनो नित्यत्वे संसारापवर्गों संभवत इत्यन्वयः / दुःखजन्मेति पूर्व व्याख्यातम् / विपक्षे बाधकमाह- उत्पत्तिधर्मके इति, यद्यनित्यः स्यादात्मा तदा तस्य संसारापवौं न संभवत इत्यर्थः। उक्तमुपपादयति- उत्पन्न इत्यादिना, ज्ञाता= आत्मा यद्यनित्यः स्यात्तदोत्पन्नः सन् देहेन्द्रियबुद्धिवेदनाभिः संबध्यते= संबध्येतेति अस्य= आत्मन इदम् शरीरादिकं स्वकृतकर्मणः फलं न स्यात् यतोऽनित्यत्वेन पूर्वमात्मैव न संभवति न तरां तत्कृतं कर्मेति कथमिदं कर्मफलं स्यादित्यर्थः / आत्मनोऽनित्यत्वे दोषान्तरं किं वा विनाशित्वमाह- उत्पन्नश्चेति, उत्पन्नः= अनित्यश्च पदार्थः भूत्वा उत्पद्य न भवति= विनश्यत्येवेति तस्य% अनित्यस्यात्मनः अविद्यमानस्य= अनुत्पन्नस्य निरुद्धस्य= विनष्टस्य च स्वकृतकर्मणः फलोपभोगो नास्ति न संभवति-विद्यमानस्यैव भोगसंभवात् , अनित्यस्य च प्रागभावप्रध्वंसौ नियतावेवेत्यात्मनोपि स्यातामनित्यत्वादेवेत्यर्थः / उपसंहरति- तदेवमिति, तदेवम् = आत्मन उत्पत्तिधर्मकत्वेनाऽनित्यत्वे आत्मनोऽनेकशरीरैः संयोगो वियोगश्चाऽत्यन्तम्- सर्वथा न संभवति, तत्र फलोपभोगस्य वैषम्यात् कर्मफलस्वमुपपद्यते स्वकृतकर्मफलस्य प्राप्तिश्चात्मनो नित्यत्वे एवोपपद्यते इत्यात्माऽनुत्पत्तिधर्मकःनित्य एवेत्यर्थः / " शरीरवियोगः" इत्यत्र 'अनेकशरीरवियोगः / इति वक्तव्यमासीत् / तर्कव्यतिरेकमाह- यत्रेति, यत्र कारणोपपत्तिर्न भवति तन्नाऽनुजानाति यथात्मन उत्पत्तिधर्मकत्वमिति, आत्मन उत्पत्तिधर्मकरवे कृतहानिरकृताभ्यागमश्च दोष: स्यादिति नोत्पत्तिधर्मकत्वं तर्केण सिध्यतीत्यर्थः / तर्कलक्षणमुपसंहरति- सोयमिति, एवं लक्षणः= सूत्रोक्तस्वरूपविशिष्ट उह एव तर्कः।।