________________ तर्कनिरूपणम् ] न्यायभाष्यम् / वादी प्रत्यवतिष्ठते. व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधर्म्यमात्रस्य वेति // 39 // अत ऊर्ध्वं तर्को लक्षणीयस्तके इतिअविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तकः // 40 // अथेदमुच्यते- अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते- जानीये इममर्थमिति, अथ जिज्ञासितस्य वस्तुनो व्याहतौ धौं विभागेन विमृशति- किंस्विदित्येवम् ? आहोस्विनैवम् ? इति, विमृश्यमानयोर्धमयोरेकं कारणोपपत्त्याऽनुजानाति- संभवत्यस्मिन् कारणम्= प्रमाणम्= हेतुरिति, कारणोपपत्त्या स्यादेवमेतद् नेतरदिति / योर्बहुत्वं न प्रक्रमते=न प्राप्नोतीत्यन्वयः / किं वा साधर्म्यवैधाभ्यां प्रत्यवस्थानविकल्पान्जातिनिग्रहस्थानबहुत्वमुक्तमग्रे सा जातिर्निग्रहस्थानं च हेतूदाहरणयोः परिशुद्धौ सत्यां न प्रक्रमते इत्यन्वयः / साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पात् जातिनिग्रहस्थानबहुत्वमित्यादि सर्वमेतद्ध्यायान्ते द्रष्टव्यं नेह विस्तरभयादुपपाद्यते / उक्त हेतुमाह- अव्यवस्थाप्येति, धर्मयोः= साध्यसाधनत्वेनाभिमतयोः पदार्थयोरुदाहरणे साध्यसाधनभावमव्यवस्थाप्यैव जातिवादी= जात्युत्तरवादी प्रत्यवतिष्ठते= शङ्कते, साध्यसाधनभावे व्यवस्थिते तु जातेरवसरो न भवतीत्याह- व्यवस्थिते इति, धर्मयोः= साध्यसाधनयोदृष्टान्तस्थे साध्यसानभावे व्यवस्थिते= व्यभिचाररहिते गृह्यमाणे तु साधनभूतस्य धर्मस्य धूमादेर्यद् हेतुत्वेनोपादानं तन्न साधर्म्यमात्रस्य= साधर्म्यमात्रेण येन वैधम्र्येण प्रत्यवस्थानात जातिः प्रसरेत् न वा वैधर्म्यमात्रस्य= वैधर्नामात्रेणोपादानं येन साधम्र्येण प्रत्यवस्थानात जातिः प्रसरेत् किं तु अव्यभिचारिणो हेतोः साधर्म्यवैधाभ्याम्= अन्वयव्यतिरेकव्याप्तिवैशिष्टयेनैवोपादानं भवतीति न साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पात् जातिनिग्रहस्थानबहुत्वं प्रक्रमते इत्यन्वयः / यदा हि केन चिदुक्तम् ‘पर्वतो वह्निमान् पाषाणमयत्वात्' इति तत्र वैधर्मेण जातिवादी प्रत्यवतिष्ठते- 'यो न वह्निमान् स न पाषाणभयंः' इति व्यतिरेकव्याप्तिर्नास्तीति वह्नयभाववत्यपि जलहदे पाषाणमयत्वस्य संभवात् पाषाणमयत्वं वह्निसाधकं नेति वैधम्र्येण प्रत्यवस्थानं विज्ञेयम् , यदा हि केन चिदुक्तम्-' पर्वतो वह्निमान् जलाभावात् / इति तत्र साधम्र्येण जातिवादी प्रत्यवतिष्ठते 'यो जलाभाववान् स वह्निमान् ' इत्यन्वयव्याप्ति स्तिघटादौ जलाभाव सत्त्वेपि वह्नयभावादिति जलाभाववत्त्वं वह्निसाधकं नेति साधम्र्येण प्रत्यवस्थानं विशेयम् , तदेतत् प्रत्यवस्थानमऽन्वयव्यतिरेकव्याप्तौ शुद्धायां न संभवतीत्यलम् // 39 // ___ तर्कलक्षणमवतारयति- अत इति, तर्कः= एवम्भूतस्तर्क इत्येवं तर्को लक्षणीय इत्यन्वयः / अविज्ञातेति- अर्थे= पदार्थे अविज्ञाततत्त्वे= अविज्ञातस्वरूपे सति कारणोपपत्तितः= हेतूपपादनद्वारा तादृशपदार्थस्य तत्त्वज्ञानार्थम्= यथार्थस्वरूपज्ञानार्थं य ऊहः= संभावना स तर्कः यथा स्थाणुर्वा पुरुषो वेति संशये जाते एतादृशदेशकालयोः पुरुषसत्त्वं नोपपद्यते इत्यादिकारणप्रतिपादनेन दृश्यमानस्य यत् स्थाणुत्वसंभावनं स तर्कः, यथा च यद्यत्र वह्निर्न स्यात्तदा धूमोपि न स्यादिति धूमोपपादनेन वह्निसंभावनं तर्कः स च संशये सति प्रमाणानां तत्त्वावधारणे सहकारिकारणमिति सूत्रार्थः / व्याचष्टेअदमिति, सामान्यतो ज्ञाते तत्त्वतश्चाज्ञाते तत्त्वज्ञानार्थ जिज्ञासा तावत्= प्रथमं जायते, जिज्ञासास्वरूपमाह- जानीये इममर्थमिति / अथ= जिज्ञासानन्तरं जिज्ञासाविषयीभूतस्य पदार्थस्य व्याहतीपरस्परविरुद्धौ धौ विभागेन= पार्थक्येन विमृशति यथा स्थाणुपुरुषधौं यथा च पर्वते वह्निमत्त्वं वन्ह्यभाववत्त्वं च वक्ष्यमाणोदाहरणस्थले चात्मन उत्पत्तिधर्मकत्वमनुत्पत्तिधर्मकत्वं चेति, विमर्शमुदाहरति- किमिति, इत्येवम्= उत्पत्तिधर्मकः, नैवम्= अनुत्पत्तिधर्मको वाऽऽत्मेति, अत्र " किं स्विदिस्थम् ? आहोस्विन्नेत्थम् ? " इत्यपिपाठः / विमर्शानन्तरं तर्कमाह-विमृश्येति, विमृश्यमानयोधर्मयोः=