________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेसंहृतः साधको धर्मो नार्थ साधयेत् ?, निगमनाभावे च नाऽनभिव्यक्तसंबन्धानां प्रतिज्ञादीनामेकार्थेन प्रतीयेतार्थप्रतिपादकत्वम् ? इति / ___अथावयवार्थ:- साध्यस्य धर्मस्य धर्मिणा संबन्धोपादानं प्रतिज्ञार्थः, उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः, धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्र उदाहरणार्थः, साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः, उदाहरणस्थयोधर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थ निगमनम् / ___ न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पात् जातिनिग्रहस्थानबहुत्वं प्रक्रमते- अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातितथा चोदाहरणस्यापि संबन्धः सिद्धः / उपनयनसंवन्धमाह- उपनयमिति, अन्तरेण= विना, यद्यपनयो न स्यात् तदा साध्ये= पक्षे साधको धर्मः= हेतुर्नोपसंहृतः स्यात् अनुपसंहृतश्चाऽर्थम्= साध्यं न साधयेदिति हेतूपसंहारायोपनयापेक्षा प्राप्तेत्युपनयसंबन्धः सिद्धः / निगमनसंबन्धमाह-निगमनाभावे इति, निगमने सत्येव प्रतिज्ञादीनां परस्परसंबन्धस्याभिव्यक्तिर्भवति- निगमनेनैव प्रतिज्ञोपसंहारादिति, यदि निगमनं न स्यात्तदाऽनभिव्यक्तसंबन्धानां प्रतिज्ञादीनाम् एकार्थेन= पक्षेण किं वा समुच्चयेन= एकीभावेन अर्थप्रतिपादकत्वम्= साध्यसाधकत्वं न प्रतीयेत निगमने सति च साध्यसाधकत्वं प्रतीयते इति निगमनसंबन्धः सिद्धः / पर्यवसाने निगमनेनैवोपसंहाराद् निगमनेन प्रतिज्ञादीनां परस्परं संबन्धाभिव्यक्तिर्भवतीत्यनुसंधेयम् यथा निगमनेन साध्योपसंहारे कृते साध्यस्य हेतुना संबन्धः सिद्धः. साध्यसाधनभावप्रदर्शनार्थ दृष्टान्तेन संबन्धाभिव्यक्तिर्भवति ततश्च प्रतिज्ञाहेतुभ्यामपि संबन्धाभिव्यक्तिर्भवतीत्यलम् / संप्रत्यवयवानां प्रयोजनं प्रतिपादयति- अथेति, साध्यस्य धर्मस्य वह्नयादेः धर्मिणा= पक्षेण सह संबन्धोपादानम्= संबन्धबोधनमेव प्रतिज्ञार्थः= प्रतिज्ञाप्रयोजनम्- 'पर्वतो वह्निमान् , इतिप्रतिज्ञया वह्नः पर्वते सत्त्वज्ञानस्य जायमानत्वात् / हेतुप्रयोजनमाह- उदाहरणेनेति, अन्वय्युदाहरणेन समानस्य साध्यस्य व्यतिरेक्युदाहरणेन विपरीतस्य वा साध्यस्य साधकभाववचनम्= सत्त्वोपपादनं हेतुप्रयोजनम्साधकभाववचनमात्रस्य हेतुस्वरूपत्वात् किं वात्र 'साध्यत्ववचनम्' इतिवक्तव्यमासीत्, “सामानस्य विपरीतस्य वा साध्यस्य " इति तु पूर्वत्र स्पष्टम् / धर्मयोः= साध्यसाधनयोरेकत्र साध्यसाधनभावप्रदर्शनमेवोदाहरणप्रयोजनम्, किं वा " एकत्र " इत्यस्य ‘सामानाधिकरण्ये सति' इत्यर्थः / साधनभूतस्य धर्मस्य धूमादेः साध्येन धर्मेण वयादिना सह सामानाधिकरण्योपपादनमुपनयप्रयोजनम्- उपनयेन साध्यविशिष्टपक्षे हेतोः सत्त्वोपपादनादित्यर्थः / उदाहरणस्थयोधर्मयोः= साध्यसाधनयोरुदाहरणे सामानाधिकरण्येन अविनाभावेन वा साध्यसाधनभावोपपत्तौ जातायां साध्ये= पक्षे विपरीतप्रसङ्गस्य= साध्याभावापत्तेः प्रतिषेध एव निगमनप्रयोजनम्- निगमनेन साध्याभावे प्रतिषिद्धे साध्यसिद्धेः संभवादित्यन्वयः। .. पञ्चस्ववयवेषु मध्ये प्रतिज्ञा तु साध्यत्वात् साधिकैव न भवति उपनयनिगमने च हेतुसाध्ययोरुपसंहारपरे एवेति न ते अपि साध्यसाधके भवत इति पारिशेष्यात् हेतूदाहरणयोरेव वस्तुतः साध्यसाधकत्वं पर्यवस्यति ते च हेतूदाहरणे यद्यऽव्यभिचारिणी भवतस्तदा साध्यसाधके भवत इति हेतूदाहरणयोः परिशुद्धः= अव्यभिचारित्वस्य फलमाह-न चेति, एतस्याम्= उक्तरूपायाम् अव्यभिचारित्वरूपायां हेतूदाहरणयोः परिशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पात जातिनिग्रहस्थान