________________ अवयनिरूपणम् ] न्यायभाष्यम् / व्यानुपपत्तेरनुमानं हेतुः, उदाहरणे सादृश्यप्रतिपत्तेः तच्चोदाहरणभाष्ये व्याख्यातम्- प्रत्यक्षविषयमुदाहरणम्- दृष्टेनादृष्टसिद्धेः, उपमानमुपनयः- तथेत्युपसंहारात्. न च तथेति चोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहारसिद्धः, सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति / इतरेतराभिसंबन्धोपि- असत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्तेरन, असति हेतौ कस्य साधनभावः प्रदर्येत उदाहरणे ? साध्ये च कस्योपसंहारः स्यात् ? कस्य चापदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनं स्यादिति ?, असत्युदाहरणे केन साधर्म्य वैधयं वा साध्यसाधनमुपादीयेत ? कस्य वा साधर्म्यवशादुपसंहारः प्रवर्तेत ?, उपनयं चान्तरेण साध्येऽनुप यम अनुमानं च हेतुरेवेति ‘अनित्यः शब्दः' इत्याप्तोपदेशरूपायाः प्रतिज्ञायाः परीक्षणं हेतुनैव संभवतीति प्रतिज्ञानन्तरम् 'उत्पत्तिधर्मकत्वात्' इत्यादिहें तुरुच्यते इति हेतुसंभवः सिद्ध इत्यर्थः / उत्पत्तिधर्मकत्वेपि शब्दस्यानित्यत्वं कथं स्यात् किंवद्वा स्यादित्येवं हेत्वनन्तरं सादृश्यजिज्ञासा जायते तच सादृश्यं उदाहरणे ज्ञायते- 'यथोत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिस्तथा शब्दोप्यनित्यः' इत्युदाहरणे एव सादृश्यप्रतिपत्तेहेत्वनन्तरमुदाहरणसंभवः सिद्ध इत्याह- उदाहरणे इति, “सादृश्यप्रतिप्रतिपत्तेः" इत्यत्र ' सादृश्यप्रतिपत्तिः' इतिवक्तव्यमासीत् / तच्च= पक्षसपक्षयोः सादृश्यं चोदाहरणभाष्ये= उदाहरणसूत्रभाष्ये व्याख्यातमित्यन्वयः / उदाहरणस्य विशेषमाह-प्रत्यक्षेति, तच्चोदाहरणं प्रत्यक्षज्ञानविषयम्= प्रत्यक्षभूतमेव ग्राह्यं नाऽप्रत्यक्षम्, उक्ते हेतुमाह- दृष्टेनेति, प्रत्यक्षेणैवोदाहरणेनाऽप्रत्यक्षपदार्थसिद्धिसंभवात् यथा प्रत्यक्षेण वास्यादिकरणवत्त्वेनात्मनः सकरणत्वमनुमीयते= साध्यते, यादाहरणमप्रत्यक्ष स्यात्तदा तत्राभिप्रेतधर्मसिद्धयर्थमनुमानान्तरापेक्षायामनवस्थैव स्यादिति प्रत्यक्षमेवोदाहरणं भवतीत्यर्थः / उपनयसंभवमाह-उपमानमिति, उदाहरणानन्तरं तत्सादृश्येन साध्यव्याप्यहेतोः पक्षे उपसंहार आव श्यक इति तदर्थमुपनयसंभवः सिद्धः उपनयश्वोपमानमेवेत्यर्थः, उपनयस्योपमानत्वे हेतुमाह- तथेति, तथेत्युपसंहार उपमानेनैव भवतीति तथेत्युपसंहारादुपनय उपमानमित्यर्थः / व्यतिरेक्युपनयस्य प्रकृतहेतूपसंहारकत्वमाह-न च तथेति, अयं शब्दश्च तथा अनुत्पत्तिधर्मको नेत्यनेनोपमानधर्मस्य= अनुत्पत्तिधर्मकत्वस्य प्रतिषेधे कृते तद्विपरीतधर्मस्य= उत्पत्तिधर्मकत्वस्य उपसंहारः सिध्यतीति व्यतिरेक्युपनयस्यापि पर्यवसाने प्रकृतसाध्यव्याप्यहेतूपसंहारकत्वं सिद्धमित्यर्थः / उपनयेन हेतूपसंहारे कृते साध्योपसंहारापेक्षा जायते इत्युपनयानन्तरं निगमनसंभवः सिद्ध इत्याह- सर्वेषामिति, सर्वेषाम्= प्रतिज्ञाद्युपनयान्तानाम् एकार्थप्रतिपत्तौ= साध्यप्रतिपत्तौ सामर्थ्यप्रदर्शनमेव निगमनम्- यतोयं साध्यव्याप्यहेतूमान् अतः साध्यवानिति निगमेन प्रतिपादनात् प्रतिज्ञादीनां साध्यसाधकत्वलक्षणं सामर्थ्य स्फुटी. भवतीत्याशयः। ___ प्रतिज्ञाद्यवयवनां परस्परसंबन्धं वा परस्परसापेक्षत्वं वोपपादयति- इतरेतरेति, हेत्वाद्यवयवानां प्रतिज्ञैवाश्रयः- सत्यामेव प्रतिज्ञायां हेत्वाद्यवयवानां प्रवृत्तिसंभवादिति हेत्वाद्यवयवानां प्रतिज्ञया संबन्धः सिद्ध इत्याह- असत्यामिति / हेतोरावश्यकतामाह- असतीति, प्रतिज्ञासिद्धिहेतुनैव संभवतीति हेतुसंबन्धः सिद्धः, साधनभावः= प्रतिज्ञासाधकत्वम् , स च साध्यसाधनभाव उदाहरणे प्रदर्शनीयो भवति यथा- यो धूमवान् स वह्निमान् महानसवदित्याह- उदाहरणे इति / किं चाऽसति हेतावुपनयेन साध्ये= पक्षे कस्योपसंहारः स्यात् ? न कस्यापीति हेतोरावश्यकता- उपनयेन पक्षे हेतोरेवोपसंहारात् , किं च यापनयेन पक्षे हेतूपसंहारो न स्यात् तदा कस्य व्यपदेशात् प्रतिज्ञायाः पुनर्वचनलक्षणं निगमनमपि स्यात् ? इति निगमनेनापि हेतुसंबन्धः सिद्धः / उदाहरणसंबन्धमाह- असत्युदाहरणे इति, यद्युदाहरणं न स्यात्तदा साध्यसाधकं पक्षे साधम्य वा वैधम्य वा केनोपपाद्येत ? कस्य च साधर्म्यवशात् पक्षे उपनयनिगमनाभ्यां हेतुसाध्ययोरुपसंहारः स्यात् ? न स्यादेवेति तदर्थमुदाहरणापेक्षा प्राप्ता