________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १माह्निकेहेत्वपदेशात् मतिज्ञायाः पुनर्वचनं निगमनम् // 39 // साधोक्ते वा वैधोक्ते वा यथोदाहरणमुपसंहियते- तस्मादुत्पत्तिधर्मकत्वादऽनित्यः शब्द इति निगमनम्, निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्. निगम्यन्ते= समर्थ्यन्ते= संबध्यन्ते / तत्र साधोक्ते तावद् हेतौ वाक्यम्- अनित्यः शब्द इति प्रतिज्ञा. उत्पत्तिधर्मकत्वादिति हेतुः. उत्पत्तिधर्मकं स्थाल्यादिद्रव्यमनित्यमित्युदाहरणम्. तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः. तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्, वैधयोक्तेपि- अनित्यः शब्दः 1 उत्पत्तिधर्मकत्वात् 2 अनुत्पत्तिधर्मकमात्मादिद्रव्यं नित्यं दृष्टम् 3 न च तथाऽनुत्पत्तिधर्मकः शब्दः 4 तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः 5 इति / ___ अवयवसमुदाये च वाक्ये संभूयेतरेतराभिसंबन्धात् प्रमाणान्यर्थ साधयन्तीति, संभवः तावत् शब्दविषया प्रतिज्ञा आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसंधानात् अऋषेश्च स्वात निगमनलक्षणमुपपादयति- हेविति, हेत्वपदेशात्= हेतुव्यपदेशात्= उपनयकृतहेतुनिर्देशमाश्रि. त्य प्रतिज्ञाया यत् पुनर्वचनं तद् निगमनं यथा ' तस्मात्तथा= वह्निमान् ' इति, तथाच पर्वतो वह्निमा• न 1 धूमात् 2 यो यो धूमवान् स वह्निमान् यथा महानस: 3 तथा चायम् 4 तस्मात्तथा 5 इत्यत्र 'तस्मात्तथा' इति प्रतिज्ञायाः पुनर्वचनमेव निगमनम् / उपनयेन हेतूपसंहारः कृत इति तदनन्तरं सा. ध्योपसंहारोप्यावश्यक एवेति स एव निगमनेन क्रियते, साध्योपसंहारश्च प्रतिज्ञायाः पुनर्वचनमेवेति सूत्रार्थः / व्याचष्टे- साधम्योक्ते इति, हेतो साधम्र्येण= उदाहरणसाधयेण= अन्वयव्यात्या वोक्ते वैधयेण= उदाहरणवैधयेण= व्यतिरेकव्याप्त्या वोक्ते यथोदाहरणम्= उदाहरणानुसारेण पक्षे निगमनेन साध्यमुपसंह्रियते इत्यन्वयः, उदाहरति- तस्मादिति, ' अनित्यः शब्दः ' इति साध्योपसंहार एव निगमनम् / निगमनशब्दव्युत्पत्तिमाह-निगम्यन्ते इति, एकत्र= साध्यसिद्धौ, निगमनेन साध्योपसंहारे कृते हि प्रतिज्ञाहेतूदाहरणोपनयानां साध्यसाधने पर्यवसानं भवति नाऽन्यथेत्यर्थः / निगमनपदाथेमाह- समर्थ्यन्ते= संबध्यन्ते इति, निगमनेनैव प्रतिज्ञादीनां साध्यसिद्धथा संबन्धो भवति- साध्यप्रतिपादकत्वात, साध्यसाधकत्वं भवतीति यावत् इत्याशयः प्रतिभाति / साधम्र्येणोक्तहेतुपक्षे पञ्चावयववाक्यान्याह-तत्रेत्यादिना, तथा स्थाल्यादिद्रव्यवत् / निगमनावयववाक्यमाह- तस्मादिति, अत्र 'अनित्यः शब्दः' इत्येव निगमनम् / वैधम्र्येणोक्तहेतुपक्षे पञ्चावयववाक्यान्याह- वैधयोक्तेपीति, वैधयोक्तेपि हैतौ तावद् वाक्यमित्यन्वयः / अनित्यः शब्द इति प्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः, अनुत्पत्तिधर्मकमात्मादिद्रव्यं नित्यं भवतीति व्यतिरेक्युदाहरणम् , न च तथाऽनुत्पत्तिधर्मकः शब्द इति व्यतिरेक्युपनयः, यदा हि नानुत्पत्तिधर्मकस्तदोत्पत्तिधर्मकस्तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनं निगमनस्य साध्योपसंहारार्थत्वाद् व्यतिरेकित्वं न संभवतीत्यनुसंधेयम्। प्रतिज्ञाद्यवयवानां संभूयार्थप्रतिपादकत्वमाह- अवयवेति, अवयवसमुदाये वाक्ये= पञ्चावयवसमु. दायात्मके वाक्ये प्रमाणानि प्रतिज्ञादीनि संभूय संयुज्य= मिलित्वा= परस्परसंबन्धादेव अर्थम= साध्यं साधयन्ति नाऽन्यथेत्यन्वयः / संभूयेति धात्वर्थः संभव एवेति प्रतिज्ञानन्तरं हेत्वाद्यवयवानां संभवम् प्राप्तिमाह- संभव इति, शब्दविषया= शब्दानित्यत्वविषया प्रथमं प्रतिज्ञा केनचित् कृता- 'अनित्यः शब्दः' इति, सा च प्रतिज्ञाऽऽप्तोपदेशरूपैव- आप्तोक्तवाक्यरूपत्वात् आप्तोपदेशस्य च सति संभवे प्रत्यक्षेण परीक्षा क्रियते प्रत्यक्षासंभवे चानुमानेन प्रतिसंधानात्= परीक्षणात्, उक्ते हेतुमाह- अनृषे. रिति, ऋषिभिन्नस्य= योगसामर्थ्यरहितस्य पुरुषस्य स्वातन्त्र्यानुपपत्तेः- प्रत्यक्षानुमानाभ्यां विना स्वातन्व्येण योगसामर्थ्याभावात् पदार्थावधारणं नोपपद्यते शब्दानित्यत्वं च न प्रत्यक्षमित्यनुमानेनैवावधारणी