________________ अवयनिरूपणम् ] न्यायभाष्यम् / उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः॥३८॥ उदाहरणापेक्षः= उदाहरणतन्तः= उदाहरणवशः, वशः= सामर्थ्यम् / साध्यसाधर्म्ययुक्ते उदाहरणे- स्थाल्यादिद्रव्यमुत्पत्तिधर्मकम् अनित्यं दृष्टं तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमुपसंहियते, साध्यवैधर्म्ययुक्ते पुनरुदाहरणे- आत्मादिद्रव्यमऽनुत्पत्तिधर्मकं नित्यं दृष्टं न च तथा शब्द इत्यऽनुत्पत्तिधर्मकत्वस्योपसंहारप्रतिषेधेन उत्पत्तिधर्मकत्वमुपसंहियते, तदिदमुपसंहारद्वैतमुदाहरणद्वैताद् भवति / उपसंहियतेऽनेनेति चोपसंहारो वेदितव्य इति / द्विविधस्य पुनर्हेतोर्द्विविधस्य चोदाहरणस्योपसंहारद्वैतं च समानम् // 38 // तरूपवेदनीयम्= प्रशस्ततार्किकग्राह्यमित्यर्थः- स्थूलदृष्ट्या हेतुत्वोदाहरणत्वप्रतीतो सत्यामपि पर्यवसाने सूक्ष्मबुद्धया व्यभिचारप्राप्ते संभवाद् बहुत्र दर्शनाच्च, प्रशस्तपण्डितवेदनीयं यथा घटादौ पार्थिवत्वलोहलेख्यत्वयोर्व्याप्तिप्रहे जातेपि हीरकादौ व्यभिचारदर्शनं जायते लोहलेख्यत्वाभाववत्यपि हीरकादौ पार्थिवत्वस्य सत्त्वाद् व्यभिचारः प्राप्त इत्यलम् // 37 // उपनयलक्षणमाह- उदाहरणेति, साध्यस्य= पक्षस्य= य उदाहरणापेक्षः= दृष्टान्ताधीनोऽन्वयिदृष्टान्तस्थले तथा= तथा चायमित्युपसंहारः व्यतिरेकिदृष्टान्तस्थले च न तथा= न चायं तथेत्युपसंहार स उपनय इत्यन्वयः, उपसंह्रियते हेतुरनेन पक्षे इत्युपसंहारः स एवोपनयः, यथा 'पर्वतो वह्निमान धूमाद् यो यो धूमवान् स वह्निमान् यथा महानसः तथा चायं पर्वतः' इति तथा वह्निव्याप्यधूमवानित्यन्वयिदृष्टान्तेनोपनयः, यो न वह्निमान् स न धूमवान् यथा जलदः अयं च न तथा अयं पर्वतस्तु तथा= धूमाभाववान्न किं तु धूमवानेवेति व्यतिरेकिदृष्टान्तेनोपनयः / उदाहरणं विनोपनयस्य संभावना नास्तीति उदाहरणापेक्ष इत्युक्तमिति सूत्रार्थः, अत्र- "साध्यस्य= पक्षस्य उदाहरणापेक्षः= उदाहरणानुसारी य उपसंहारः= उपन्यासः प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहे विशिष्टपक्षविषयकबोधजनको न्यायावयव इत्यर्थः" इति विश्वनाथभट्टाः / व्याचष्टे- उदाहरणेति, इति त्रयमपि पर्यायपदम, उदाहरणवशः= उपाहरणवश्यः= उदाहरणाधीनः- उदाहरणं विनोपनयस्याऽसंभवात्. उदाहरणेन सिद्धस्यैवार्थस्योपनयेन पक्षे उपसंहारादित्यर्थः / अन्वयिदृष्टान्तसाध्यमुपनयमुदाहरतिसाध्यसाधयेति, साध्यसाधम्र्येण युक्ते= प्रयुक्ते सति उदाहरणे, अन्वय्युदाहरणस्थले इत्यर्थः, प्रकृतमाह-स्थाल्यादीति, अनित्यः शब्दः उत्पत्तिधर्मकत्वाद् उत्पत्तिधर्मकं च स्थाल्यादिद्रव्यमनित्यं दृष्टं शब्दश्चायं तथा उत्पत्तिधर्मक इति साध्यस्य शब्दस्य= पक्षभूते शब्दे उत्पत्तिधर्मकत्वं हेतुरुपनयेनोपसंह्रियते इत्यन्वयः, व्यतिरेकिदृष्टान्तसाध्यमुपनयमाह- साध्यवैधये॒ति, पक्षवैध\ण प्रयुक्ते चोदाहरणे- अनित्यः शब्द उत्पत्तिधर्मकत्वाद् अनुत्पत्तिधर्मकं चात्मादिद्रव्यं नित्यं दृष्टं शब्दश्वायं तथा अनुत्पत्तिधर्मको न किं तूत्पत्तिधर्मक एव. तथा चाऽनुत्पत्तिधर्मकत्वस्य उपसंहारप्रतिषेधेन= न तथा इत्यनेन पक्षे शब्दे उत्पत्तिधर्मकत्वमुपनयेनोपसंह्रियते इत्यन्वयः / उपनयद्वैतस्य कारणमाह- तदिदमिति, उपसंहारद्वैतम्= उपनयद्वैतम् , अन्वय्युदाहरणस्थलेऽन्वयेन व्यतिरेक्युदाहरणस्थले च व्यतिरेकेणोपसंहारो भवतीत्युपनयद्वैतं सिद्धम् / उपनयस्योपसंहारत्वकारणमाह- उपसंह्रियते इति, अनया . व्युत्पत्त्या उपनय एवोपसंहारो वेदितव्य इत्यर्थः / उपनयद्वैते विनिगमनामाह- द्विविधस्येति, अन्वयिव्यतिरेकित्वाभ्यां द्विविधस्य, हेतूदाहरणयोद्वैते तयोरुपसंहारस्यापि द्वैतं समानम्= तुल्यं युक्तं वेत्यर्थः / यदाहि अन्वयिव्यतिरेकित्वाभ्यां हेतूदाहरणयोद्वैतं तदोपसंहारस्य= उपनयस्यापि द्वैतमावश्यकमेवेत्यर्थः / किं वेदं वाक्यमग्रिमसूत्रस्यावरणभूतं विज्ञेयम् // 38 //