________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेष्टान्तः साध्यवैधात्= अनुत्पत्तिधर्मकत्वात् अतद्धर्मभावी= योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन्न भवतीति. अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवतीति उपलभमानः शब्दे विपर्ययमनुमिनोति- उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति / ___साधोक्तस्य हेतोः साध्यसाधात् तद्धर्मभावी दृष्टान्त उदाहरणम्, वैधोक्तस्य हेतोः साध्यवैधादऽतद्धर्मभावी दृष्टान्त उदाहरणम्, पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मों साध्यसाधनभूतौ पश्यति साध्येपि तयोः साध्यसाधनभावमनुमिनोति, उत्तरस्मिन् दृष्टान्ते ययोधर्मयोरेकस्याऽभावादितरस्याभावं पश्यति तयोरेकस्याऽभावादितरस्याभावं साध्येऽनुमिनोतीति. तदेतद हेत्वाभासेषु न संभवतीत्यऽहेतवो हेत्वाभासाः / तदिदं हेतूदाहरणयोः सामर्थ्य परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयमिति // 37 // तनीयं तथा च तद्विपर्ययाद् दृष्टान्तो विपरीतमुदाहरणम् / इति सूत्रव्यक्तिः सिद्धा / तद्विपर्ययपदार्थमाह- साध्यवैधादिति, हेतोरसत्त्वेन पक्षवैधादित्यर्थः, विपरीतत्वपदार्थमाह- अतद्धर्मभावीति, साध्यरहित इत्यर्थः / एतादृशो दृष्टान्तो व्यतिरेक्युदाहरणमित्यन्वयः / प्रकृतपक्षसाध्यहेतूनाह- अनित्य इति, व्यतिरेक्युदाहरणमुदाहरति- अनुत्पत्तिधर्मकमिति, तदनेनात्मनः पक्षवैधये हेतुराहित्यं प्रदर्शितम् , नित्यमित्यनेनाऽतद्धर्मभावित्वम्= अनित्यत्वराहित्यं प्रदर्शितम् / निगमयति- सोयमिति, दृष्टान्त:व्यतिरेकदृष्टान्तः, आत्मनि पक्षवैधर्म्यमाह- साध्येति, उत्पत्तिधर्मकत्वाभाव एव शब्दवैधय॑ तस्माद् अतद्धर्मभावी= अनित्यत्वरहितः / आत्मन्यतद्धर्मभावं समन्वयति- योसाविति, साध्यस्य= पक्षभूतशब्दस्य, तस्मिन्= आत्मनि न भवति= नास्तीत्यऽतद्धर्मभावी आत्मा / उपसंहरति- अत्रेति, आत्मनि उत्पत्तिधर्मकत्वाभावाद् अनित्यत्वाभावम् उपलभमानः-प्रमीयमाणः पुरुषः अनित्यत्वोत्पत्तिधर्मकत्वयोः साध्यसाधनभावं प्रमाय शब्दे उत्पत्तिधर्मकत्वाद् विपर्ययम्= नित्यत्वाभावम्= अनित्यत्वमनुमिनोतिअनित्यः शब्द उत्पत्तिधर्मकत्वस्य भावात्= सत्त्वात्= उत्पत्तिधर्मकत्वात् यो नाऽनित्यः स नोत्पत्तिधर्मको यथाऽऽत्मेति अत्रात्मा तद्विपर्ययाद् विपरीतम्= व्यतिरेक्युदाहरणमित्यन्वयः। ,. ___ अन्वयव्यतिरेकाभ्यामुक्तयोहेतुदृष्टान्तयोः परस्परं व्यवस्थामाह- साधम्येति, साधम्येण = अन्वयव्यात्या उक्तस्य हेतोरुक्तरीत्या यः साध्यसाधात् तद्धर्मभावी दृष्टान्तः स एवोदाहरणं भवति महानसादिकं. यथा पर्वतो वह्निमान् धूमात् महानसवदिति. न तु व्यतिरेकी दृष्टान्तो जलव्हदादिरुदाहरणं भवतीत्यर्थः / वैधयेण= व्यतिरेकव्याप्त्या उक्तस्य च हेतोरक्तरीत्या यः साध्यवैधाद् अतद्धर्मभावी दृष्टान्तो भवति स एवोदाहरणं भवति जलदादिकं यथा यो न वह्निमान् स न धूमवान् भवति यथा जलहद इति. नास्यान्वयी दृष्टान्तो महानसादिरुदाहरणं भवतीत्यर्थः / प्रथमकल्पं समन्वयति- पूर्वेति, पूर्वस्मिन् = अन्वयिनि दृष्टान्ते महानसादौ यौ तौ धौं= वह्निधूमौ साध्यसाधनभूतौ= साध्यसाधनभावेन पुमान् पश्यति साध्ये= पक्षेपि तयोः= वह्निधूमयोः साध्यसाधनभावमनुमिनोति= साध्यसाधनभावेन साधनात् साध्यमनुमिनोतीत्यर्थः / उत्तरस्मिन्= व्यतिरेकिणि दृष्टान्ते जलहदादौ ययोर्मयोः= वह्निधूमयोर्मध्ये एकस्य= वढेरभावाद् इतरस्य= धूमस्याभावं पश्यति साध्ये= पक्षेपि तयोः= वह्नयभावधूमाभावयोर्मध्ये एकस्य= धूमाभावस्याऽभावात्= धूमसत्त्वात् इतरस्य= वह्नभावस्याऽभावम् वह्निसत्त्वमनुमिनोतीत्यनेन प्रकारेण व्यतिरेकिदृष्टान्तस्यानुमानोपकारकत्वं विज्ञेयम् , एषमेव ' अनित्यः शब्द उत्पत्तिधर्मकत्वात् / इत्यत्रापि समन्वयः कर्तव्यः अत्रान्वयी दृष्टान्तः स्थाल्यादिर्व्यतिरेकी च दृष्टान्त आत्मादिरिति सर्व पूर्वत्र स्पष्टम् / हेत्वाभासेभ्यो हेतूनां विशेषमाह- तदेतदिति, तदेतत्= साध्यसाधकत्वं साध्यसाधनभावो वा व्याप्यव्यापकभावो वा साध्यव्याप्यत्वं वा / हेतुदृष्टान्तयोः प्रतिपादनमुपसंहरति- तदिदमिति, सामर्थ्यम्= साध्यसाधकत्वलक्षणसामर्थ्यम् / पण्डि