________________ 57 अवयनिरूपणम् ] न्यायभाष्यम् / वर्तते स दृष्टान्तः साध्यसाधात् तद्धर्मभावी भवति स चोदाहरणमिष्यते, तत्र यदुत्पद्यते तदुत्पत्तिधर्मकं तच्च भूत्वा न भवति= आत्मानं जहाति= निरुध्यते इत्यऽनित्यम्. एवमुत्पत्तिधर्मकत्वं साधनम् अनित्यत्वं साध्यम्. सोयमेकस्मिन् द्वयोर्धमयोः साध्यसाधनभावः साधर्म्यात् व्यवस्थित उपलभ्यते. तं दृष्टान्ते उपलभमानः शब्देप्यनुमिनोति- शब्दोप्युत्पत्तिधर्मकत्वाद् अनित्यः स्थाल्यादिवदिति / उदाहियतेऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् // 36 // तद्विपर्ययादा विपरीतम् // 37 // " दृष्टान्त उदाहरणम्" इति प्रकृतम्. साध्यवैधादऽतद्धर्मभावी दृष्टान्त उहाहरणमिति- अनित्यः शब्द उत्पत्तिधर्मकत्वाद्, अनुत्पत्तिधर्मकं नित्यमात्मादि. सोयमात्मादिदृपूर्व वह्नयादिकमेव पक्षत्वेन तत्पदेन गृहीतं स्यात्तदा वह्नयादिधर्माणामुष्णत्वादीनां दृष्टान्ते महानसादावनुपलब्ध्या धर्मपदमनपेक्षितं स्यादिति सूत्रे 'तद्भावी' इत्येवोच्येत. तद्भावित्वं च वह्नयादिमत्त्वं तच्च महानसादौ संभवति, अत्र च धर्मशब्दः पृथक्प्रयुक्त इति तस्य पक्षस्य यो धर्मों वह्नयादिस्तभावित्वं महानसादावस्तीत्यत्र तत्पदेन पक्षत्वेनोत्तरं धर्मविशिष्टो धर्मी पर्वतादिरेव गृह्यते एवं च धर्मपदमनर्थकं न भवतीत्याशयः, वस्तुतस्तु नैतदपि युक्तं वह्नथादिकमुद्दिश्य पर्वतादिवृत्तित्वसाधने महानसादेदृष्टान्तत्वाभावात् पर्वतादिवृत्तिपदार्थान्तरस्यैव दृष्टान्तत्वसंभवादित्यनुसंधेयम् / संप्रति तद्धर्मभावि. शब्दस्य साकल्येन व्युत्पत्तिमाह- तस्येति, तस्य= पक्षस्य पर्वतादेमविशिष्टधर्मिणः / सः= तद्धर्मभावः साध्यवत्त्वम् / सः= साध्यसाधात् तद्धर्मभावी यो दृष्टान्त स एवोदाहरणमित्यन्वयः / अत्र" साध्येन साधर्म्यमित्यादिभाष्यं तस्यार्थः- साध्येन धर्मिणा ( प्रकृते) शब्देन साधर्म्य दृष्टान्तस्य स्थाल्यादेः कृतकत्वं हेतुस्तदनित्यत्वेन साध्ये च शब्दे दृष्टान्ते च स्थाल्यादौ समानं तस्मात् कारणात्= प्रयोजकात् तद्धर्मभावी= तस्यैव साध्यस्य शब्दस्य धर्मः= धर्मान्तरम् येन विशिष्टः शब्दः सिषाधयिषितोऽनित्यत्वेन तद् अनित्यत्वं तद्धर्मः स एव भावस्तभावः सोऽस्यास्तीति तद्धर्मभावी स्थाल्यादिः अनित्यत्वधर्मवानितियावत् तेन तादृशा दृष्टान्तेनोपलक्षितं तद्विषयं वचनमुदाहरणमिति" इति तात्पर्यटीका / प्रकृते अनित्यः शब्द इत्यत्र नियोजयति- तत्रेति, तच्च उत्पत्तिधर्मकं च, भूत्वा उत्पद्य. न भवति= विनश्यतीत्यर्थः, अस्यार्थमाह- आत्मानमिति, आत्मानम्= स्वरूपम्= स्वव्यक्तिम् / अस्याप्यर्थमाह-निरुध्यते इति, निरुध्यते= विनश्यति, तथा चोत्पत्तिधर्मकम्' इति= इति हेतोःविनाशप्रतियोगित्वादनित्यमित्यर्थः / साध्यसाधनयोः प्रकृते स्वरूपमाह- एवमिति, एवम्= उत्पत्तिधर्मकस्य विनाशित्वात् / अनुमितिप्रकारमाह- सोयमिति, द्वयोर्धर्मयोः= प्रकृतेऽनित्यत्वोत्पत्तिधर्मकत्वयोः सोयं साध्यसाधनभावः एकस्मिन् पक्षे शब्दादौ साधात्= साहचर्यात व्यवस्थितः= नियत उपलभ्यते- यत्रोत्पत्तिधर्मकत्वं तत्रानित्यत्वमिति, तम्= साध्यसाधनभावं दृष्टान्ते स्थाल्यादौ उपलभमानः- जानानः पुरुषः शब्देप्यनुमिनोति- शब्दोप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति, प्रथम पक्षे साध्यसाधनयोः साहचर्य सामान्यतो ज्ञात्वा तदनन्तरं दृष्टान्ते स्मृत्वा तदनन्तरं तेन साधनेन तं साध्यं पक्षेऽनुमिनोतीति= प्रमाणेनावधारयतीत्यर्थः / उदाहरणशब्दव्युत्पत्तिमाह- उदाह्रियते इति, धर्मयो:- साध्यसाधनयोः साध्यसाधनभाव उदाह्रियते अनेनेत्युदाहरणमित्यन्वयः यथा महानसवदित्यलम् // 36 // _ व्यतिरेकिदृष्टान्तस्य लक्षणमाह- तदिति, तद्विपर्ययात्= पक्षवैधाद् विपरीतम्= अतद्धर्मभावी= साध्यरहितो दृष्टान्तो व्यतिरेकि उदाहरणं यथा यो नाऽनित्यः स नोत्पत्तिधर्मकः यथाऽऽत्मेति अत्रास्मनि दृष्टान्ते उत्पत्तिधर्मकत्वं नास्तीति शब्दवैधयं तस्मात् अनित्यत्वमपि नास्तीत्यऽतद्धर्मभावित्वं प्राप्तमित्यात्मा व्यतिरेकी दृष्टान्तः प्रकृते इतिसूत्रार्थः / व्याचष्टे- दृष्टान्त इति, प्रकृतम्= पूर्वसूत्रादनुव