________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेकिमेतावद् हेतुलक्षणमिति ?. नेत्युच्यते. किं तर्हि ? तथा वैधात् // 35 // उदाहरणवैधाच साध्यसाधनं हेतुः, कथम् ?. अनित्यः शब्द उत्पत्तिधर्मकत्वात्, अनुत्पत्तिधर्मकं नित्यं यथाऽऽत्मादिद्रव्यमिति // 35 // साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् // 36 // साध्येन साधर्म्यम्= समानधर्मता. साध्यसाधात् कारणात् तद्धर्मभावी दृष्टान्त इति, तस्य धर्मस्तद्धर्मः तस्य= साध्यस्य, साध्यं च द्विविधम्- धर्मिविशिष्टो वा धर्मः- शब्दस्यानित्यत्वम् 1, धर्मविशिष्टो वा धर्मी- अनित्यः शब्द इति 2, इहोत्तरं तद्ग्रहणेन गृह्यते इति, कस्मात् ? पृथग्धर्मवचनात् / तस्य धर्मस्तद्धर्मस्तद्धर्मस्य भावस्तद्धर्मभावः स यस्मिन् दृष्टान्ते शङ्कते- किमिति, एतावत्= साध्यसाधात् साध्यसाधकत्वम् / उत्तरमाह- नेति / आधिक्यं जिज्ञासते-किमिति / हेतोद्वितीयं स्वरूपमाह- तथेति, वैधात्= विपक्षोदाहरणवैधादपि तथा साध्यसाधको हेतुरित्यन्वयः, यो न वह्निमान् स न धूमवान् यथा जलहद इतिव्यतिरेकव्याप्त्या जलव्हदवैधादपि धूमः पर्वते वह्निसाधको भवति. जलहदवैधयै च धूमे व्यतिरेकित्वमितिसूत्रार्थः। . ज्याचष्टे- उदाहरणेति, उदाहरणवैधात्= व्यतिरेक्युदाहरणवैधात् साध्यसाधनम्= साध्यसाधको हेतुः, यथान्वय्युदाहरणसाधाद् हेतोः साध्यसाधकत्वं भवति तथा व्यतिरेक्युदाहरणवैधादपि हेतोः साध्यसाधकत्वं भवतीत्याशयः तदेतद् अन्वयव्यतिरेकिहेतुस्थले बोध्यम् / साधर्येण साधकत्वमाह- अनित्य इति / वैधात् साध्यसाधकत्वमाह- अनुत्पत्तिधर्मकमिति, यन्नोत्पत्तिधर्मकं तन्नित्यं भवति यथात्माविद्रव्यं शब्दश्चोत्पत्तिधर्मक इति न नित्यो भवितुमर्हति तथा चात्मादिनित्यपदार्थवैध ादप्युत्पत्तिधर्मकत्वं हेतुरनित्यत्वस्य साधको भवतीति व्यतिरेक्युदाहरणवैधादपि साध्यसाधकत्वं हेतुलक्षणमित्यर्थः // 35 // ___ उदाहरणलक्षणमाह- साध्येति, साध्येन= पक्षण साधात्= सादृश्यात्. साधनभूतधूमादिपदार्थाधिकरणत्वेन पक्षसदृश इतियावत् , तद्धर्मभावी= पक्षधर्मविशिष्टः= पक्षे साध्यमानो यो धर्मः= पदार्थो वह्नयादिस्तद्विशिष्ट इतियावत् एतादृशो यो दृष्टान्तः स एवोदाहरणमित्युच्यते यथा महानसादिरिति सूत्रान्वयः, तदेतदन्वयिदृष्टान्तलक्षणम् / व्याचष्टे- साध्येनेति, साध्येन= पक्षेण प्रतियोगित्वं तृतीयार्थः, साध्यवत्त्वेन पक्षस्यापि साध्यत्वात् , साधर्म्यम्= समानधर्मता= साधनीभूतपदार्थविशिष्टत्वेन सादृश्यम् / एतादृशात् साधनवत्त्वसादृश्यादेव महानसादिदृष्टान्तस्तद्धर्मभावी भवतीत्याह- साध्यसाधात् कारणादिति, तद्धर्मभाविशब्दस्य व्युत्पत्तिमाह- तस्येति, साध्यस्य= पक्षस्य पर्वतादेः / पक्षस्थ द्वैविध्यमाह- साध्यं चेति, धर्मिविशिष्टः= पक्षवृत्तिः धर्मः= पदार्थों वह्नयादिरपि पक्षो भवति यत्र वह्नयादिकमुद्दिश्य पर्वतादिवृत्तित्वं साध्यते यथा- 'वह्निः पर्वतवृत्तिः पर्वते दृश्यमानधूमजनकत्वात् / इति, उदाहरति- शब्दस्येति, अनित्यत्वमुद्दिश्य शब्दवृत्तित्वसाधनेऽनित्यत्वमेव पक्षः स्यात् / द्वितीयां विधामाह- धर्मविशिष्ट इति, धर्मेण= वह्नयादिपदार्थेन विशिष्टो धर्मी= पर्वतादिरपि पक्षो भवति यत्र पर्वतादिकमुद्दिश्य वह्नयादिमत्त्वं साध्यते यथा- 'पर्वतो वह्निमान ' इति / उदाहरति- अनित्य इति, यथाऽनित्यत्वविशिष्टः शब्दो पक्ष:- 'शब्दोऽनित्यः' इति शब्दमुद्दिश्यानित्यत्वं साध्यते इति शब्द एव पक्षः / अत्र ग्राह्यं पक्षस्वरूपमाह- इहेति, तद्ग्रहणेन= तद्धर्मभावी इत्यत्र तत्पदेन उत्तरम्= धर्मविशिष्टो धर्मी पर्वतादिः शब्दादिश्च पक्षत्वेन ग्राह्य इत्यन्वयः / इहोत्तरग्रहणे कारणं जिज्ञासतेकस्मादिति / उत्तरमाह-पृथगिति, " तद्धर्मभावी " इत्यत्र धर्मशब्दस्य पृथक्प्रयोगादित्यन्वयः, यद्यत्र