________________ अवयवनिरूपणम् ] न्यायभाष्यम् / तेषां तु यथाविभक्तानाम् साध्यनिर्देशः प्रतिज्ञा // 33 // प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः अनित्यः शब्द इति // 33 // उदाहरणसाधात् साध्यसाधनं हेतुः // 34 // उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनम्= प्रज्ञापनं हेतु:= साध्ये प्रतिसंधाय धर्मम् उदाहरणे च प्रतिसंधाय तस्य साधनतावचनं हेतु:- उत्पत्तिधर्मकत्वादिति, उत्पत्तिधर्मकमनित्यं दृष्टमिति // 34 // नित्यत्वे निराकते नित्यत्वानित्यत्वयोः संशयव्युदासेनानित्यत्वं परेण स्वीक्रियते, अत्र-" तदुपवर्णनप्रतिषेधे सति तत्त्वज्ञानाभ्यनुज्ञानार्थम् , ज्ञायतेऽनेनेति तत्त्वज्ञानं प्रमाणं तदभ्यनुज्ञानार्थ संशयव्युदासस्तर्कापरनामा व्युदस्यते ह्यनेन प्रमाणाभ्यनुज्ञानद्वारेण प्रमाणेतिकर्तव्यताभूतेन संशय इति" इति तात्पर्यटीका / जिज्ञासादीनां प्रयोजनमाह- प्रकरणे इति, प्रकरणे= कथाप्रवृत्तौ वादारम्भे एव जिज्ञासादयः समर्थाः= कारणभूताः- जिज्ञासादिकं विना कथाप्रवृत्तेरसंभवादिति कथाप्रवृत्तिकारणीभूता अपि जिज्ञासादयो नानुमानवाक्यावयवा इत्यर्थः / अत्र- " प्रकरणम्= कथाप्रवृत्तिः, ते च जिज्ञासादय उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण न पुनः स्वज्ञानेन येन स्वशब्दप्रतिपाद्याः सन्तः प्रकरणेप्य भवेयुर्यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः, तस्मात् सर्वथैव जिज्ञासादिवाचकपदप्रयोगोऽनर्थक इति भावः” इति तात्पर्यटीका / जिज्ञासादीनां प्रकरणाङ्गत्वे कारणमाह- अवधारणीयेति, अवधारणीयार्थोपकारात्= निश्चेयस्याऽर्थस्य उपकारकत्वात्= निश्चयजनकत्वात् / प्रतिज्ञादीनामनुमानावयवत्वे कारणमाह- तत्त्वार्थेति, तत्त्वसाधकभावात् साध्यसाधकत्वात् प्रतिज्ञादय एवोक्ताः पञ्चाऽनुमानवाक्यस्य भागाः= एकदेशाः= अवयवाः न तु जिज्ञासादयोपि- साक्षात् साध्यसाधकत्वाभावादित्यर्थः // 32 // प्रतिज्ञालक्षणमवतारयति- तेषामिति, तेषाम्= प्रतिज्ञाद्यवयवानां यथाविभक्तानाम= विभागक्रमेण प्राप्तानां मध्ये साध्यनिर्देशः प्रतिज्ञेत्यन्वयः / साध्यस्य निर्देशः= कथनं प्रतिज्ञेति सूत्रान्वयः। व्याचष्टे- प्रज्ञापनीयेनेति, प्रज्ञापनीयेन= साध्येन धर्मेण= पदार्थेन वयादिना विशिष्टस्य धर्मिणःपक्षस्य पर्वतादेः यत् परिग्राहकं वचनं सा प्रतिज्ञा यथा- 'पर्वतो वह्निमान् / इति / प्रघट्टकार्थमाहसाध्यनिर्देश इति / अत्र- “परिगृह्यतेऽनेनेति परिग्रहः स च वचनं चेति परिग्रहवचनम्" इति तात्पर्यटीका / उदाहरति- अनित्य इति / स्पष्टं सर्वम् // 33 // हेतुलक्षणमाह- उदाहरणेति, उदाहरणस्य साधात्= सादृश्यात्. यथोदाहरणे महानसादौ वह्निधूमयोः साहित्यं दृष्टमिति तत्सादृश्यात् पर्वतेपि धूमसत्त्वे वह्निसत्त्वं प्राप्नोतीति उदाहरणसाधर्म्यात साध्यस्य यत् साधनम्= साधकं स हेतुर्यथा 'धूमात्' इति धूम इतिसूत्रान्वयः / व्याचष्टे- उदाहरणेनेति, प्रतियोगित्वं तृतीयार्थः, सामान्यात्= सादृश्यात् दृष्टान्तसादृश्यादित्यर्थः / साध्यस्य धर्मस्य= साध्यलक्षणधर्मस्य / पर्यवसितमाह- साध्ये इति, साध्ये= पक्षे धर्मम्= हेतुभूतपदाथै धूमादिकं प्रतिसंधाय= दृष्टा उदाहरणे च महानसादौ प्रतिसंधाय= अनुसंधाय= साध्यव्याप्यत्वेन स्मृत्वा तस्य धर्मस्य धूमादेयत् साधनतावचनम् = साध्यसाधकत्वकथनम्= साध्यसाधकवचनं स हेतुरित्यन्वयः / उदाहरतिउत्पत्तिधर्मकत्वात्= जन्यत्वादिति, ' अनित्यः शब्द उत्पत्तिधर्मकत्वात्' इत्यन्वयः / उदाहरणसाधर्म्यमाह- उत्पत्तिधर्मकमिति, उत्पत्तिधर्मकं जन्यमनित्यं दृष्टं यथा घटादिकम् उत्पत्तिधर्मकश्च शब्द इत्यनित्य इत्यर्थ इत्यनित्यत्वसाधकमुत्पत्तिधर्मकत्वं हेतुरित्यलम् / / 34 //