________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेशिष्ये वेति. ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थः तदर्थमयं जिज्ञासते सा खल्वियमसाधनमर्थस्येति / जिज्ञासाधिष्ठानं संशयश्च व्याहतधर्मोपसंघातात् क तत्त्वज्ञाने प्रत्यासन्नः ? व्याहतयोहिं धमेयोरन्यतरत् तत्त्वं भवितुमर्हतीति. स पृथगुपदिष्टोप्यऽसाधनमर्थस्येति / प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि सा शक्यप्राप्तिने साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति / प्रयोजनं तत्त्वावधारणम् अर्थसाधकस्य वाक्यस्य फलं नैकदेश इति / संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधे तत्त्वाभ्यनुज्ञानार्थ न त्वयं साधकवाक्यैकदेश इति / प्रकरणे तु जिज्ञासादयः समर्थाः- अवधारणीयार्थोपकारात्, तत्त्वार्थसाधकभावात्तु प्रतिज्ञादयः साध. कवाक्यस्य भागाः= एकदेशाः= अवयवा इति // 32 // साध्यसाधिकेति न जिज्ञासाया अनुमानावयवत्वं संभवतीत्यर्थः / अप्रतीयमानविषयकजिज्ञासाकारणं पृच्छति- अप्रतीयमानमिति / उत्तरमाह-तमिति, तम्= अप्रतीयमानं तत्त्वतो ज्ञातम्= ज्ञात्वा अनिष्टं हास्यामि इष्टमुपादास्ये इष्टानिष्टाभ्यामतिरिक्तमुपेक्षिष्ये इतिविचाऱ्याऽप्रतीयमानं जिज्ञासते. तत्र ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्याऽर्थः= प्रयोजनभूताः= फलभूता इत्ययम्= पुरुषः तदर्थम्= हानोपादानोपेक्षाबुद्धयर्थम्= हानाद्यर्थमेवाऽप्रतीयमानं जिज्ञासते सा चैषा जिज्ञासाऽर्थस्य= अनुमेय. स्याऽसाधनमेव- तद्विषयकज्ञानमात्रे प्रवर्तकत्वेन प्रकृतसाध्यसाधने प्रवर्तकत्वाभावात् साध्यसाधकत्वाभावाच्च साध्यसाधकस्यैवानुमानावयवत्वसंभवादिति न जिज्ञासाऽनुमानावयव इत्यर्थः / संशयस्यानुमानावयवत्वं प्रत्याचष्टे- जिज्ञासाधिष्ठानमिति, जिज्ञासानन्तरं संशयो जायते इति संशयो जिज्ञासाधिष्ठानम्= जिज्ञासाकार्य स च संशयो व्याहतयोः= परस्परविरुद्धयोर्धमयोरुपसंघातात्= प्राप्तेः= दर्शनात् जायमानः कस्मिन् तत्त्वज्ञाने प्रत्यासन्नः= संबद्धो भवति ? न कस्यापि तत्त्वज्ञानस्य कारणं भवतीति नानुमानावयवो भवतीत्यर्थः / कारणमाह- व्याहतयोरिति, व्याहतयोधर्मयोरन्यतर एव धर्मो तत्त्वं भवितुमर्हति न तु धर्मद्वयमपि येन विरुद्धधर्मद्वयावगाहकस्य संशयस्यापि तत्त्वज्ञानाङ्गत्वं स्यात् , स च संशयः प्रथमसुत्रे पृथगुपदिष्टोपि न कस्यचिदर्थस्य साधको भवतीति नानुमानावयव इत्यर्थः / कशब्दरहितपाठपक्षे तु ' उक्तस्वरूपः संशयस्तत्त्वज्ञाने= तत्त्वविचारे एव प्रत्यासन्नः= संबद्धो भवति- संशयानन्तरं विचारप्रवृत्तेः, नत्वनुमानसंबद्ध इति न संशयोप्यनुमानावयवः' इत्येवं व्याख्येयम् / शक्यप्राप्तेरनुमानावयवत्वं प्रत्याचष्टे- प्रमातुरिति, प्रमातुः प्रमाणानि= इन्द्रियसंयोगादीनि प्रमेयज्ञानार्थानि भवन्ति तत्र प्रमेयज्ञाने प्रमाणानां प्रमातुश्च यत्सामर्थ्य सा शक्यप्राप्तिरित्युच्यते सा च प्रमाणप्रमातृगतेति न साधकस्य वाक्यस्य= अनुमानवाक्यस्य प्रतिज्ञादिवद् भागेन युज्यते= भागो भवितुमर्हतीति न शक्यप्राप्तिरप्यनुमानावयव इत्यर्थः, अत्र-"शक्यं प्रमेयं तस्मिन् प्राप्तिः= शक्तता प्रमाणानां प्रमातुश्च सा च स्वरूपसहकारिभ्यां द्वेधा तामिमां भाष्यकारोऽनया वाचोभङ्गया दर्शयति- प्रमातुः प्रमाणानीति" इति तात्पर्यटीका, अत्र प्रमाणानां प्रमेयज्ञानोत्पादने स्वरूपेण शक्ततायां सत्यामपि सहकार्यपेक्षयोक्तं स्वरूपसहकारिभ्यामिति / प्रयोजनस्यानुमानावयवत्वं निराचष्टे- प्रयोजनमिति, प्रयोजनं हि तत्त्वावधारणं वा हानादिकं वा तच्चार्थसाधकस्य वाक्यस्य= अनुमानवाक्यस्य फलमेव न तु कारणमित्येकदेश:= अवयवो भवितुं नाहतीत्यर्थः / संशयव्युदासस्यानुमानावयवत्वं प्रत्याचष्टे-संशयेति, प्रतिपक्षोपवर्णनमिति- साध्यविरुद्धधर्मोपपादनमेव प्रतिपक्षोपवर्णनम्= प्रतिपक्षस्य विरुद्धधर्मम्योपवर्णनम्= उपपादनं तदेव संशयव्युदासः स च तत्त्वाभ्यनुज्ञानार्थः= तत्त्वज्ञानजनको भवतीत्यन्वयः / विरुद्धधर्मोपपादनेन संशयनिरासो भवतीति विरुद्धधर्मोपपादनमेव संशयव्युदासस्तत्र तत्प्रतिषेधे= एकतरस्य विरुद्धधर्मस्य प्रतिषेधे कृते संजातोऽयं संशयव्युदासस्तर्कभूतस्तदेव प्रतिपक्षोवर्णनं तच तत्त्वाभ्यनुज्ञानार्थम्= तत्त्वज्ञानजनकं किं वा तत्त्वस्वीकारकारणं भवति तथा च संशयव्युदासः तर्करूपत्त्वात् साधकवाक्यैकदेशः= अनुमानवाक्यावयवो भवितुं नाहतीत्यर्थः, यथा शब्दानित्यत्वस्य प्रतिपक्षभूते