________________ अवयवनिरूपणम् ] न्यायभाष्यम् / यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते- अस्तु द्रव्यं शब्दः स तु नित्यो अथानित्यः ? इति द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः, स्वबुद्धयतिशयचिख्यापयिषया परबुद्धयऽवज्ञानाय प्रवर्तते इति // 31 // अथावयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यऽवयवाः // 32 // दशावयवानेके नैयायिका वाक्य संचक्षते- जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति. ते कस्मानोच्यन्ते ? इति, तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा. अप्रतीयमानमर्थ कस्मात् जिज्ञासते ?. तं तत्त्वतो ज्ञातं हास्यामि वोपादास्ये उपेइत्यर्थः, अपरीक्षितस्याभ्युपगमादभ्युपगमसिद्धान्त इत्युच्यते इत्यन्वयः। तद्विशेषपरीक्षणं तु कारणमेवेति कार्यकारणयोरभेदमभ्युपगम्य सामानाधिकरण्येन "तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः" इत्युक्तम् / व्याचष्टे- यत्रेति, अपरीक्षितम्= स्वशास्त्रासिद्धम् / उदाहरति- अस्त्विति, न्यायमते शब्दो द्रव्यं न किं तु गुण एव अथापि मीमांसकमतेन शब्दस्य द्रव्यत्वमभ्युपगम्य नित्यत्वानित्यत्वे परीक्ष्येते इत्यर्थः, सः शब्दः, द्रव्यस्य सतः= द्रव्यभूतस्य= द्रव्यत्वेन स्वीकृतस्यापि शब्दस्य तद्विशेषः= शब्दधर्मो नित्यत्वमनित्यत्वं वेति परीक्ष्यते यत्र तत्र शब्दस्य द्रव्यत्वाभ्युपगमोयमभ्युपगमसिद्धान्त एवमन्यत्रापीत्यन्वयः। अभ्युपगमसिद्धान्तकारणमाह- स्वबुद्धीति, स्वबुद्धेरतिशयस्य= महत्त्वस्य चिख्यापयिषया= प्रकाशनेच्छया परबुद्धेः= प्रतिवादिबुद्धेरवज्ञानाय= अवहेलनाय= मन्दत्वज्ञापनाय चाभ्युपगमसिद्धान्ते पुरुषः प्रवर्तते= परकीयसिद्धान्तमभ्युपगम्यापि तद्विशेषं निराकरोति यथा शब्दस्य द्रव्यत्वमभ्युपगम्यापि नित्यत्वं निराकरोति- यदि शब्दो नित्यः स्यात्तदा विनैव व्यापारं नित्यमुपलभ्येत न चोपलभ्यते इति द्रव्यभूतोपि शब्दो नित्यो न संभवतीत्येवम् / " परबुद्धथवज्ञानाय " इत्यत्र " परबुद्धथवज्ञानाच्च " * इत्यपि पाठः स तु चिन्त्य एव- पञ्चम्यनुपपत्तेः // 31 // - अवयवविभागसूत्रमवतारयति- अथेति, निरूप्यन्ते इति शेषः / प्रतिज्ञेति- 'पर्वतो वह्निमान् / इतिप्रतिज्ञा. 'धूमात्' इतिहेतुः, 'यो यो धूमवान् स स वह्निमान् यथा महानसः' इत्युदाहरणम् 'धूमवांश्वायम् / इत्युपनयः 'तस्माद्वह्निमान् / इतिनिगमनम् = उपसंहार इति पञ्चाऽनुमानस्यावयवा इतिसूत्रान्वयः, लक्षणं चैषामग्रे स्पष्टमेव / उदाहरणोपनयाभ्यां व्यक्यवमनुमानं बौद्धाः संगिरन्ते. उदा. हरणान्तमुदाहरणादि वेति व्यवयवमनुमानं मीमांसकादयः संगिरन्ते इत्यादिकं सर्व तत्तच्छानेष्वेव द्रष्टव्यं विस्तरभयान्नेह प्रतन्यते / सूत्रस्य स्पष्टार्थत्वाद्भाष्यकार एकदेशिनां मतमनुवदति- दशेति, वाक्ये= अनुमानवाक्ये, संचक्षते= संगिरन्ते / तेषु दशस्ववयवेषु पञ्च त्ववयवा एते प्रतिज्ञादय एव सूत्रोक्ता ज्ञेयाः शेषान् पञ्चावयवानाह- जिज्ञासेति, प्रथमं पर्वते वह्नजिज्ञासा जायते. तदनन्तरम् 'अस्ति न वा' इति संशयः. तदनन्तरं शक्यप्राप्तिः= साध्यसंभवः किं वा प्रमाणे यत्साध्यसाधकत्वं तस्य ज्ञानं जायते. अत्र " शक्यं प्रमेयं तस्मिन् प्राप्तिः= शक्तता प्रमाणानां प्रमातुश्च " इति तात्पयेटीका, तदनन्तरं प्रयोजनमुपतिष्ठते "प्रयोजनमनुद्दिश्य " इतिन्यायात् , तदनन्तरं शक्यप्राप्त्या संशयव्युदासो भवति. तदनन्तरं प्रतिज्ञाद्यवयवाः प्रवर्तन्ते नान्यथेति तेषामाशयः / अत्र 'जिज्ञासा संशयः शक्यप्राप्तिः संशयव्युदासः प्रयोजनम्' इतिक्रमेण वक्तव्यमासीत् शक्यप्राप्त्या संशयव्युदासे जाते प्रयोजनोपस्थितिसंभवात् उत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुत्वादित्यनुसंधेयम् / अत्र शिष्यप्रश्नमनुवदति- ते इति, ते= जिज्ञासादयः पञ्चावयवाः / प्रथमं जिज्ञासाकार्यमाह-तत्रेति, तत्र जिज्ञासादिषु मध्ये / पदार्थेऽप्रतीयमाने= अज्ञाते सति सद्विषयकज्ञाने प्रत्ययार्थस्य= तद्विषयकज्ञानार्थिनः पुंसः प्रवर्तिका भवति जिज्ञासा न तु प्रकृत.