________________ समपदापारिवाकियू 11 मायादे माहिकअत्रानुषङ्गिणोर्थाः- इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुनिसाधनानि. गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम्. अनियतविषयाश्चेतना इति, पूर्वार्थसिद्धावतेऽथाः सिध्यन्ति. न तैर्विना सोर्थः संभवतीति / / 30 / / __ अपरीक्षिताभ्युपगमात् तविशेषपरीक्षणमभ्युपगमसिद्धान्तः // 31 // स्यात्तदा इन्द्रियनानात्वादिकं न सिध्येत् किं त्वेकेनापीद्रियेण सर्वज्ञानसंभवः स्यात् एवं हीन्द्रियस्यैवात्मत्वं स्यात्. आत्मनश्च चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञा जायते सा चात्मैक्यं प्रयोजयतीतीन्द्रियस्याप्यात्मभूतस्यैक्यमेव स्यात् न नानात्वम्, यदा हि देहेन्द्रियव्यतिरिक्त आत्मा तदात्मनो रूपज्ञानकरणं चक्षुर्गन्धज्ञानकरणं घ्राणमिति इन्द्रियनानात्वं चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञा च जायते इति इन्द्रियनानात्वादिकमात्मसिद्धयधीनमित्यात्माधिकरणसिद्धान्त इत्यर्थः / उदाहरति- यथेति, दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्= चक्षुषा पूर्व दृष्टस्य चक्षुर्विनाशानन्तरं त्वचा प्रत्यभिज्ञानात् देहेन्द्रियव्यतिरिक्तो ज्ञाता आत्मा सिध्यति यदि देहेन्द्रियसमुदाय एव ज्ञाता स्यात् तदा द्रष्टुश्चक्षुषो विनाशानन्तरं चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञा न स्यात् अन्यदृष्टस्यान्येन प्रत्यभिज्ञानासंभवादिति देहेन्द्रियव्यतिरिक्तो ज्ञातेति सिद्धपति- तस्यैक्यात् प्रत्यभिज्ञानसंभवादित्याशयः / प्रकृतमाह- अत्रेति, अनुषङ्गिणः= संबद्धाः= अर्थात्प्राप्ताः / एकस्मिन्नात्मनि सिद्धे तस्यात्मनो ज्ञानकरणानामिन्द्रियाणां ज्ञेयरूपादिनानात्वेन नानात्वं प्राप्तं नानात्वेन च नियतविषयत्वं प्राप्तं यथा रूपग्राहक चक्षुर्गन्धग्राहक घ्राणमिति, यद्यात्मा इन्द्रियातिरिक्तो न स्यात् किं तु इन्द्रियमेवात्मा स्यात्तदा तस्य प्रत्यभिज्ञावशादेकत्वं स्यादितीन्द्रियनानात्वं न सिध्येत् ततश्च तस्येन्द्रियस्य सर्वग्राहकत्वापत्त्या नियतविषयत्वमपि न स्यात् / देहेन्द्रियातिरिक्तात्मसत्त्वे हि रूपादिस्वस्वविषयकज्ञानलक्षणलिङ्गेनेन्द्रियाणि 'ज्ञातुर्ज्ञानसाधनानीत्यपि सिध्यति अन्यथेन्द्रियस्यैवात्मत्वे तस्य ज्ञातृत्वमेव स्यान्न तु ज्ञानसाधनत्वं तथा च स्वविषयज्ञानानुमेयत्वमपि न स्यात् किं तु स्वयंप्रकाशत्वमेव स्यादात्मनः स्वयंप्रकाशत्वादित्यर्थः / गन्धादीति- यदि गन्धाद्यतिरिक्तं गन्धादिगुणाधिकरणं च द्रव्यं न स्यातदा तस्य चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञानं न स्यात्- त्वचो रूपादिग्राहकत्वाभावादिति, यदा हि गन्धाद्यतिरिक्तं द्रव्यं तदा तस्य चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञानं संभवति तथा रूपादिगुणाश्रयत्वाच्चक्षुरादिग्राह्यत्वमप्युपपद्यते- चक्षुरादीनां रूपादिद्वारैव द्रव्यग्राहकत्वात् , किं च यद्यात्मलक्षणं द्रव्यं ज्ञानादिगुणाधिकरणं न स्यात्तदा तस्य चाक्षुषादिज्ञानकर्तृत्वं प्रत्यभिज्ञाकर्तृत्वं च न स्यादित्यात्मसाधकप्रत्यभिज्ञावशादेव द्रव्यस्य गन्धादिगुणातिरिक्तत्वं गुणाश्रयत्वं च प्राप्तम् / अनियतेति- यद्यात्मापि नियतविषयः= रूपादिषु किंचिन्मात्रग्राहकः स्यात्तदा तस्य रूपादिकिंचिग्राहकत्वेपि स्पर्शादिग्राहकत्वाभावापत्त्या त्वचा प्रत्यभिज्ञा न स्याद् भवति च प्रत्यभिज्ञेति चेतनाः= आत्मानोऽनियतविषयाः= सामग्र्यां सत्यां पर्यायेण सर्वग्राहका इत्यपि सिद्धम् / उपसंहरति- पूर्वार्थेति, पूर्वार्थस्य= देहाद्यतिरिक्तात्मनः सिद्धौ एतेऽर्थाः= इन्द्रियनानात्वादय उपपादितप्रकारेण सिध्यन्ति, तैःइन्द्रियनानात्वादिभिश्च विना सोर्थः= आत्मापि न सिध्यति तथा हि यदीन्द्रियाणां नानात्वं नियतविषयत्वं च न स्यात्तदेकत्वादनियतविषयत्वाच्चैकेनेन्द्रियेणैव पूर्वदृष्टस्य प्रत्यभिज्ञासंभवाद् देहेन्द्रियातिरिक्त आत्मा न सिध्येत् इतीन्द्रियनानात्वाद्यधीनाऽऽत्मसिद्धिा, तथा यदि द्रव्यं गन्धादिगुणातिरिक्तं न स्यात्तदा गन्धादीनां घ्राणादिना ग्रहणसंभवात् आत्मग्राह्यस्याभावापत्त्याऽऽत्मसिद्धिर्न स्यात् प्रत्यभिज्ञा चोक्ता द्रव्यस्यैव भवति रूपाद्यतिरिक्तद्रव्याभावे च द्रव्यप्रत्यभिज्ञैव न प्राप्नोति ययात्मसिद्धिः स्यादिति द्रव्यस्य गुणातिरिक्तत्वाधीना चात्मसिद्धिरित्याशयः / तथा चैते विषयाः परस्परसापेक्षत्वादधिकरणसिद्धान्तभूता इत्युपपन्नं विस्तरस्तु स्वयमेव कर्तव्य इत्यलम् // 30 // अभ्युपगमसिद्धान्तलक्षणमाह- अपरीक्षितेति, तद्विशेषपरीक्षणम्= परकीयसिद्धान्तविषयस्य विशेषरूपेण परीक्षणाथै योऽपरीक्षितस्य= स्वशास्त्रासिद्धस्याऽभ्युपगमः= स्वीकारः सोऽभ्युपगमसिद्धान्त