________________ सिद्धान्तनिरूपणम्] न्यायभाष्यम् / समानतन्त्रासिद्धः परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः // 29 // यथा- नाऽसत आत्मलाभः. न सत आत्महानम्. निरतिशयाश्चेतनाः. देहेन्द्रियमनस्सु विषयेषु तत्कारणे च विशेष इति सांख्यानाम् , पुरुषकर्मादिनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रवृत्तिश्च. स्वगुणविशिष्टाश्चेतनाः. असदुत्पद्यते उत्पन्नं निरुध्यते इति योगानाम् // 29 // ... यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः // 30 // यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते= न तैर्विना सोर्थः सिध्यति तेऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः यथा- देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः, प्रतितत्रसिद्धान्तस्य लक्षणमाह-समानेति,समानतत्रे स्वशास्त्रसदृशशास्त्रेऽसिद्धः= अप्रतिपादितः परतत्रे च सिद्धः= प्रतिपादितो यः सिद्धान्तेन विषयः स प्रतितसिद्धान्तः, तत्रं तत्रं प्रतीति प्रतितत्रं प्रतितत्रस्य सिद्धान्तः प्रतितत्रसिद्धान्तः तत्तच्छास्त्रसिद्धान्त इतियावत् यथा षोडशपदार्थवादो न्यायशास्त्रसिद्धान्तः. सप्तपदार्थवादः वैशेषिकशास्त्र सिद्धान्त इति प्रतितन्त्रसिद्धान्त इति वक्तुं शक्यते, समानतत्रे यथा न्यायवैशेषिको सांख्ययोगौ इतिसूत्रान्वयः / अत्र- " समानशब्द एकपर्यायः नैयायिकानां हि समानं तत्रं न्यायशास्त्रं परतत्रं च सांख्यादिशास्त्रम्" इति तात्पर्यटीका / सा चैषा चिन्त्या, अत्र " समानतत्रासिद्धः परतत्रासिद्धः" "समानतत्रसिद्धः परतत्रासिद्धः" इत्येवमपि द्विधा सूत्रपाठ उपलभ्यते स तु संगतो न प्रतिभाति, / वस्तुतस्तु 'प्रतितत्रसिद्धः प्रतितत्रसिद्धान्तः' इत्येवं सूत्रं पठनीयमासीत् / भाष्यकारः सूत्रव्याख्यामुपेक्ष्य उदाहरणमात्रमाह- यथेति, आत्मलाभः= उत्पत्तिः सदेवोत्पद्यते इत्यर्थः, आत्महानम्= विनाशः सन्न विनश्यतीत्यर्थः, निरतिशया:= विशेषरहिताः चेतना: आत्मानः चेतनत्वादिरूपेण सर्वेप्यात्मानः समानस्वरूपा इत्यर्थः, देहादौ स्थूलत्वादिरूपः कफाद्याधिक्यादिरूपश्च विशेषः, इन्द्रियेषु पटुत्वापटुत्वादिरूपो विशेषः, मनस्सु सत्त्वादिगुणकृतो विशेषः- यत्कस्यचिन्मनः सात्त्विकं भवति कस्यचिद्राजसमिति, विषयेषु= शब्दस्पर्शादिषु च विशेषः स्पष्ट एव, तत्कारणे= देहादिकारणे, कारणे विशेष विना कार्ये विशेषासंभवात्, इन्द्रियाणां मनसश्च सांख्यमतेऽहङ्कारः कारणम् / सांख्यानाम्= सांख्यानामेव / उक्तं च सांख्यैः- " असदकरणात् " " तद्विपरीतस्तथा च पुमान् " " प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः " " एते स्मृता विशेषाः " इत्यादीत्यलम् / मन्तान्तरसिद्धान्तमाह- पुरुषेति, दोषाः= रागादयः, प्रवृत्तिः= धर्माधौं, धर्मो धर्महेतुः पापं च पापहेतुरित्याशयः, चेतनाः= आत्मानः स्वगुणविशिष्टाः= ज्ञानादिगुणविशिष्टास्तथा च गुणतारतम्येन सातिशयत्वं प्राप्तम् , असदेव घटादिकमुत्पद्यते- सत उत्पत्त्यसंभवात्. उत्पन्नं च निरुध्यते= विनश्यति इति योगानाम्= योगानामेव मतम् , अत्र योगशब्दो वैशेषिकपर इति केचित् इत्यर्थः / अत्र “निरतिशयाश्चेतनाः” इति न सांख्यमात्रमतम्- वेदान्तैरपि स्वीकारात् " पुरुषकर्मनिमित्तः " इत्यादिकमपि न योगमात्रमतम्- अन्यैरपि बहुभिः शाखैरेवमेव स्वीकारादिति चिन्त्यम्, भाष्यकारोयं बहुत्र प्रमादं करोतीत्यनुसंधीयते बहुभ्यः श्रूयते चेत्यलम् // 29 / / ___ अधिकरणसिद्धान्तस्य लक्षणमाह- यदिति, यस्य सिद्धौ सत्याम् अन्यप्रकरणसिद्धिः= अन्येषां प्राकरणिकानां पदार्थानां सिद्धिरापतति सोऽधिकरणसिद्धान्तो यथा प्रपञ्चकर्तृत्वेनेश्वरसिद्धौ सत्यामीश्वरस्य सर्वज्ञत्वादिकं सिध्यति- सर्वज्ञत्वादिकं विना प्रपञ्चकर्तृत्वानुपपत्तेरितीश्वरसिद्धिरधिकरणसिद्धान्तः, परस्परसंबद्धानां पदार्थानां सिद्धान्तोऽधिकरणसिद्धान्त इतियावत् इति सूत्रान्वयः / व्याचष्टेयस्येति, प्रकृते यथा यस्यार्थस्य आत्मनः सिद्धौ अन्येऽर्थाः इन्द्रियनानात्वादय अनुषज्यन्ते= आक्षिप्यन्ते अर्थात् तैः इन्द्रियनानात्वादिभिविना सोर्थः आत्मा न सिध्यति ते चार्थाः इन्द्रियनानात्वादय यदधिष्ठानाः यधीनसिद्धयः स आत्मा अधिकरणसिद्धान्त इत्यन्वयः, यदि देहेन्द्रियाद्यतिरिक्त आत्मा न