________________ प्रसन्नपदापरिभूषितम्- [1 अध्याय. १आह्निकेतन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः, तन्त्रम्= इतरेतराभिसंबद्धस्यायसमूहस्योपदेशः= शास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिः अधिकरणसंस्थितिः / अभ्युपगमसंस्थितिः अनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणायाऽभ्युपगमसिद्धान्तः // 26 // तन्त्रभेदात्तु खलु स चतुर्विधःसर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् // 27 // तत्रैताश्चतस्रः संस्थितयोऽर्थान्तरभूताः // 27 // तासाम्सर्वतन्त्राविरुद्धस्तन्तेधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः // 28 // यथा घ्राणादीनीन्द्रियाणि. गन्धादय इन्द्रियार्थाः. पृथिव्यादीनि भूतानि. प्रमाणेरथस्य ग्रहणमिति // 28 // रणाभ्युपगमानां संस्थितिलक्षणो विज्ञेय इत्यन्वयः / तत्रेति- तत्रसंस्थितिः सिद्धान्तः तत्रशब्देनाग्रिमसूत्रानुरोधात् सर्वतत्रं प्रतितत्रं च द्वयमपि ग्राह्यम् 1 अधिकरणसंस्थितिः सिद्धान्तः 2 अभ्युपगमसं. स्थितिः सिद्धान्तः 3 इति त्रिधा सिद्धान्त इति सूत्रान्वयः / तत्रं हि शास्त्रं तस्य सिद्धान्तस्तत्रसिद्धान्तो यथा न्यायशास्त्रस्य परमाणुवादः सांख्यस्य प्रकृतिवाद इति, अधिकरणं हि शास्त्रस्य भागविशेषो यथा मीमांसायां प्रसिद्धं तस्य सिद्धान्तोऽधिकरणसिद्धान्तः, अभ्युपगमः किचित्कालं परपक्षस्वीकारस्तस्य सिद्धान्तोऽभ्युपगमसिद्धान्तः= परसिद्धान्त इति यावत् स चाभ्युपगमोपि दोषप्रदर्शनार्थ इतिसूत्रार्थः / व्याचष्टे- तत्रार्थेति, संस्थितिः= व्यवस्था नियमः। तत्रपदार्थमाह- इतरेतरेति, पर्यवसितमाहशास्त्रमिति / एकमात्रविषयस्य शास्त्रत्वं संमतं नास्तीति इतरेतराभिसंबद्धस्येत्युक्तं परस्परसंबद्धस्येत्यर्थः / अधिकरणसिद्धान्तमाह- अधिकरणेति, अधिकरणानुषक्तार्थस्य= अधिकरणसंबद्धार्थस्य, यथा पञ्चलक्षण्यां तत्तल्लक्षणसिद्धान्त इति, वस्तुतस्त्वधिकरणसिद्धान्तलक्षणमने तन्निरूपकसूत्रभाष्ययोर्द्रष्टव्यम् / अभ्युपगमसिद्धान्तमाह- अभ्युपगमेति / अनवधारितार्थपरिग्रहः= अनिश्चितपदार्थस्वीकारः परसिद्धान्त इतियावत् , अस्य फलमाह- तदिति, परसिद्धान्तस्य विशेषरूपेण परीक्षणाय स्वीकारः क्रियते यत्र सोऽभ्युपगमसिद्धान्त इत्याशयः // 26 // ___ अग्रिमसूत्रमवतारयति- तत्रभेदादिति, अत्र 'तत्रादिभेदात् / इत्येवं वक्तव्यमासीत्, सः= सिद्धान्तः / सिद्धान्तभेदे सूत्रेण कारणमाह- सर्वेति, सर्वतत्रसंस्थितिः परतत्रसंस्थितिः अधिकरणसंस्थितिरभ्युपगमसंस्थितिरिति चतुर्धा संस्थितिः संभवति आसां चतसृणामपि संस्थितीनाम् अर्थान्तरभावात= अर्थान्तरत्वातू= पदार्थान्तरत्वात्= परस्परं भेदात् सिद्धान्तोपि चतुर्विधो भवति यथा सर्वतसिद्धान्तः प्रतितब्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्त इति, लक्षणं चैषामग्रे स्पष्टमेवेति सूत्रान्वयः / व्याचष्टे- तत्रेति, एताः= सूत्रोक्ताः सर्वतत्रसंस्थित्यादिरूपाः / अर्थान्तरभूताः- परस्परं भिन्ना इति संस्थितीनां भेदात् सिद्धान्तोपि चतुर्धा भिन्नो भवतीत्यर्थः // 27 // अग्रिमसूत्रमवतारयति- तासामिति, तासाम्= उक्तानां चतसृणां संस्थितीनां मध्ये सर्वतत्रसंस्थितिः सर्वतश्रसिद्धान्त इत्यर्थः / सर्वेति- सर्वैस्तत्रैरविरुद्धः= स्वीकृतः स्वतन्त्रेप्यधिकृतः= प्रतिपादितो योऽर्थस्तस्य सिद्धान्तः सर्वतश्रसिद्धान्त इत्युच्यते यथा पृथिव्यादीनि भूतानीति सर्वैरपि शास्त्रैः स्वीकृतमस्तीति पृथिव्यादीनां भूतत्वं सर्वतबसिद्धान्त इतिसूत्रान्वयः / व्याचष्टे- यथेति, प्राणादीनामिन्द्रियत्वं गन्धादीनामिन्द्रियार्थत्वम्= घ्राणादीन्द्रियग्राह्यत्वं पृथिव्यादीनां भूतत्वं पदार्थस्य प्रमाणै. महणम्- निश्चय इत्यादयः सवतत्रासिद्धान्ता:- सर्वशास्त्रैः स्वीकृतत्वादित्यन्वयः // 28 //