________________ दृष्टान्तसिद्धान्तलक्षणम् ] न्यायभाष्यम्। लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः // 25 // लोकसामान्यमऽनतीता लौकिकाः= नैसर्गिक वैनयिक बुद्धयतिशयमप्राप्ताः. तद्विपरीताः परीक्षकाः- तर्केण प्रमाणैरर्थे परीक्षितुमर्हन्तीति, यों यमथे, लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः / दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवनीति. दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति. अवयवेषु चोदाहरणाय कल्पते इति // 25 // अथ सिद्धान्तः- इदमित्थम्भूतं चेत्यभ्यनुज्ञायमानमर्थजातं सिद्धं. सिद्धस्य संस्थितिः सिद्धान्तः, संस्थितिः= इत्थम्भावव्यवस्था= धर्मनियमः / स खल्वयम् तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः // 26 // दृष्टान्तलक्षणमाह- लौकिकेति, यस्मिन् पदार्थे लौकिकानाम्= शास्त्रीयज्ञानरहितानां परीक्षकाणाम्= शास्त्रीयज्ञानवतां च बुद्धिसाम्यम्= साध्यसाधनयोः सामानाधिकरण्यविषयकबुद्धेः साम्यं भवति स दृष्टान्तो यथा महानसे वह्निधूमयोः सामानाधिकरण्यविषयिका बुद्धिलौकिकानां परीक्षकाणां च साम्येन वर्तते इति वह्निसाधने महानसो दृष्टान्तः एवमन्यत्रापि योज्यमिति सूत्रान्वयः। ___ व्याचष्टे-लोकेति, लोकसामान्यम्= लोकप्रणाली किं वा लोकमतिमऽनतीताः= अनुरुध्य वर्तमाना एव लौकिकाः शास्त्रीयज्ञानरहिता इतियावत् , उक्तं व्याचष्टे- नैसर्गिकमिति, नैसर्गिकम्= स्वभावसिद्धं वैनयिकम्= शिक्षाजन्यं च बुद्ध्यतिशयमप्राप्ता एव लौकिकाः तद्विपरीताः= लौकिकविपरीता:= नैसर्गिक वा वैनयिकं वा बुद्धयतिशयं प्राप्ताः परीक्षका इत्युच्यन्ते तत्र केषां चित् शिक्षा विनैव बुद्धश्यतिशयो भवतीति ते नैसर्गिकबुद्धयतिशययुक्ता विज्ञेयाः केषां चिच्च शिक्षया बुद्धपतिशयो भवतीति ते वैनयिकबुद्धयतिशययुक्ता विज्ञेयाः, शास्त्रीयज्ञानवन्तो परीक्षका इतियावत् , उक्ते हेतुमाह-तणेति, उक्तबुद्धथतिशययुक्ता हि तर्केण प्रमाणैश्चार्थ परीक्षितुमर्हन्तीति परीक्षका इत्युच्यन्ते न तु लौकिका एवं भवन्तीत्यर्थः / उदाहरति- यथेति, यमर्थ महानसादिकं लौकिका यथा= वह्निधूमयोः सामानाधिकरण्यविशिष्टं बुध्यन्ते परीक्षका अपि तमर्थ महानसादिकं तथा= वह्निधूमयोः सामानाधिकरण्यविशिष्टमेव बुद्धयन्ते इति सोर्थः= महानसादिदृष्टान्त इत्युच्यते वयादिसाधने / दृष्टान्तस्य फलमाहदृष्टान्तेति, प्रतिपक्षाः स्वविरुद्धाः प्रतिवादिपक्षाः यथा वह्निमान् जल हद्वदित्युक्ते दृष्टान्तविरोधेन= जलव्हदविरोधेन वह्निमत्त्वं प्रतिषिध्यते जलव्हदे वह्निधूमयोरसंभवप्रदर्शनद्वारा। दृष्टान्तसमाधिना= दृष्टान्तानुकूल्येन यथा वह्निमान् महानसवदित्यत्र दृष्टान्तभूते महानसे वह्निधूमयोः सामानाधिकरण्यप्रदर्शनेन स्वपक्षो वह्निमत्त्वं स्थापनीयं भवति, प्रतिज्ञादिपञ्चावयवेषु चायमेव दृष्टान्त उदाहरणमित्युच्यते किं वा उदाहरणाय= साध्यसाधनयोः सामानाधिकरण्यनिदर्शनाय कल्पते= समथों भवति // 25 // सिद्धान्तलक्षणमाह- अथेति, इत्थम्भूतम्= एतद्रूपम् , यथाऽयमात्मा इत्थम्भूतः= नित्य एवेति रूपेणाऽभ्यनुज्ञायमानम्= स्वीक्रियमाणमर्थजातम्= आत्मनित्यत्वादिकं सिद्धमित्युच्यते- प्रमाणेन सिद्धस्वात् तादृशस्य सिद्धस्य संस्थितिः= व्यवस्थैवान्तः. सिद्धस्यान्तः सिद्धान्त इत्यन्वयः / संस्थितिपदार्थमाह- संस्थितिरिति, इत्थम्भावस्य या व्यवस्था= नियमः सा संस्थितिः= धर्मनियमः= सिद्धस्य धर्मनियमो यथा सिद्धस्यात्मनो नित्यत्वधर्मनियम एव सिद्धान्त इत्यर्थः / अत्र " अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणसूत्रमपठित्वैव तात्पर्य व्याचष्टे- अथ सिद्धान्त इत्यादिनेति तात्पर्यटीकायां दृश्यते तेन सामान्यलक्षणसूत्रं (सिद्धान्तस्य ) किमप्यासीद् यदद्यत्वे न काप्युपलभ्यते इतिबोध्यम् " इति श्रीगुरुचरणाः / एवं सिद्धान्तशब्दव्युत्पत्तिं प्रदर्याग्रिमसूत्रमवतारयति- स इति, सोयं सिद्धान्तः तत्राधिक