________________ प्रसन्नपदापरिभूषितम्। [1 अध्याये. मालिकेपूर्ववत् / पूर्वः समानोऽनेकश्च धर्मो ज्ञेयस्थः. उपलब्ध्यनुपलब्धी पुनतिगते एतावता विशेषेण पुनर्वचनम् / समानधर्माधिगमात्= समानधर्मोपपत्तेविशेषस्मृत्यपेक्षो विमर्श इति // 23 // स्थानवतां लक्षणमिति समानम् . यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् // 24 // यमर्थमाप्तव्यं हातव्यं वाऽध्यवसाय तदाप्तिहानोपायमनुतिष्ठति प्रयोजनं तद् वेदितव्यम् , प्रवृत्तिहेतुत्वादिममर्थमाप्स्यामि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः, एवं व्यवसीयमानोऽर्थोऽथिक्रियते इति // 24 // माने= अप्रतीयमाने सत्त्वासत्त्वयोरन्यतरस्य व्यवस्थापकप्रमाणानुपलब्धौ सत्त्वासत्त्वयोरन्यतरस्य निश्चयाभावात् संशयो जायते- यदिदं कीलकमूलं न प्रतीयते तत् सद्वाऽसद्वा= किं सदप्यावरणादिप्रतिबन्धकान्न प्रतीयते किं वाऽसत्त्वादेव न प्रतीयते इति / अत्र संशयकारणीभूतां विशेषापेक्षामाहविशेषेति, पूर्ववत= अनुपलभ्यमानस्य सत्त्वासत्त्वयोरन्यतरस्य व्यवस्थापकं प्रमाणं नोपलभे इति बुद्धिरेव विशेषापेक्षा / तादृशसंशयानन्तरम् उपलब्धिप्रतिबन्धके निश्चिते सति सतोऽनुपलब्धिः उपलब्धिप्रतिबन्धकाभावे च निश्चिते सत्त्यऽसतोऽनुपलब्धिरित्येवमनुपलभ्यसानस्य सत्त्वासत्त्वयोनिश्चयो भवति तेन संशयो निवर्तते इत्यन्वयः / पूर्व इति- पूर्वः= सूत्रे प्रथमोक्तः समानो धर्मः= समानधर्मत्वम् अनेको धर्मः= अनेकधर्मवत्त्वं च ज्ञेयस्थम्= विषयस्थं विज्ञेयं यथा स्थाणुपुरुषयोः, उपलब्ध्यनुपलब्धी च ज्ञातृगते= ज्ञातृधौं विज्ञेयौ, एतावता विशेषेण= उपलब्ध्यनुपलब्ध्योतृिगतत्वेनैव विशेषेण पृथगुक्तिरस्ति वस्तुतस्तु उपलब्ध्यव्यवस्थास्थलेऽनुपलब्ध्यव्यवस्थास्थलेपि च समानानेकधर्मोपपत्तेविप्रतिपत्तेर्वा संशयो जायते यथोपलब्धिरनुपलब्धिश्च सदसतोः समानैवोपलभ्यते किं वोपलब्ध्यव्यवस्थातोऽनुपलब्ध्यव्यवस्थातश्चापि समानानेकधर्मोपपत्तेविप्रतिपत्तेरेव वा संशयो जायते न साक्षादिति पृथग्वचनापेक्षा नास्ति अथापि ज्ञातृगतयोरपि उपलब्ध्यनुपलब्ध्योः संशयजनकत्वमस्तीति विशेषेण पृथगुक्तिरस्तीत्याशयः प्रतिभाति विशेषस्तु चिन्तनीयः / संशयलक्षणमुपसंहरति- समानेति, समानर्धमज्ञानाजायमानः स्थाणुपुरुषयोविशेषधर्मस्मृतिसापेक्षो विमर्श एव संशय इत्यर्थः, वस्तुतस्तूक्तस्वरूपो विमर्श एव संशय इत्यवधार्यम्. विमर्शस्वरूपं चोक्तमेव // 23 // प्रयोजनलक्षणमवतारयति- स्थानवतामिति, स्थानवताम्= क्रमेण प्राप्तानां प्रयोजनादीनां लक्षणमुच्यते इति समानम्= पूर्वोक्तसंशयलक्षणसमानमेव किं वाऽग्रे सर्वत्रानुसंधेयमित्यर्थः / यमितियमर्थम्= पदार्थमधिकृत्य= निश्चयेनोद्दिश्य पुरुषः प्रवर्तते तत् प्रयोजनं यथा ज्ञानमुद्दिश्याध्ययने प्रवृ. त्तस्य ज्ञान प्रयोजनं शमदमाद्यनुष्ठाने प्रवृत्तस्याऽपवर्गः प्रयोजनमिति सूत्रान्वयः / व्याचष्टे- यमितियमर्थम् आप्तव्यमध्यवसाय= प्राप्तव्यत्वेन निश्चित्य तत्प्राप्त्युपायमनुतिष्ठति तत् प्राप्तव्यं प्रयोजनं वेदितव्यम्. यं चाथै हातव्यमध्यवसाय= त्याज्यत्वेन निश्चित्य तद्धानोपायमनुतिष्ठति तद् हातव्यं प्रयोजन वेदितव्यं. वस्तुतस्तु हेयस्य हानमेव प्रयोजनं हानकर्मत्वाद् हेयमपि प्रयोजनमित्युक्तमित्यर्थः / अधिकत्येतिपदार्थघटकमधिकारपदार्थमाह- प्रवृत्तीति, इममर्थम्= सुखजनकपदार्थमाप्स्यामि दुःखजनकपदार्थ हास्यामि इति व्यवसाय:= निश्चय एवार्थस्याधिकारः= उद्देशः= निश्चयविषयत्वम्- प्रवृत्तिहेतुत्वात् एतादृशाध्यवसाये सत्येव प्रवृत्तेर्जायमानत्वाद् अध्यवसायं विना प्रवृत्त्यभावादित्यध्यवसाय एवात्राधिकारपदार्थः, किं वा सर्वत्रैवैतादृशोध्यवसाय एवाधिकारपदार्थों विज्ञेयः- मोक्षं प्राप्स्यामीत्यध्यवसायेनैव मोक्षसाधनेषु प्रवृत्तिसंभवादित्यर्थः / अधिकारविषयं किं वाऽधिक्रियमाणमाह- एवमिति, व्यवसीयमानः- निश्चीयमानो योऽर्थोऽधिक्रियते= उद्दिश्यते तत् प्रयोजनं भवति, किं वा व्यवसीयमानोऽर्थोऽधिक्रियते= अधिकृतो भवतीति तदेव प्रयोजनं विज्ञेयमित्यन्वयः। अत्र “सुखदुःखयोरवाप्तिहानाभ्यामयं लोकः प्रयुज्यते इति सुखदुःखाप्तिहानी प्रयोजनमिति" इति वार्तिकम् // 24 //