________________ संशयलक्षणम्] न्यायभाष्यम्। गुणकर्मभ्यो विशेषः ?. आहोस्विद् गुणस्य सत इति ?. अथ कर्मणः सत इति ?, विशेषापेक्षा= अन्यतमस्य व्यवस्थापकं धर्म नोपलभे इति बुद्धिरिति / विप्रतिपत्तेरिति- व्याहतमेकार्थदर्शनं विप्रतिपत्तिः= व्याघातः= विरोध:= असहभाव इति, 'अस्त्यात्मा' इत्येकं दर्शनम् 'नास्त्यात्मा' इत्यपरम्. न च सद्भावाऽसद्भावौ सहकत्र संभवतः. न चान्यतरसाधको हेतुरुपलभ्यते तत्र तत्त्वानवधारणं संशय इति / ___उपलब्ध्यव्यवस्थातः खल्वपि- सच्चोदकमुपलभ्यते तडागादिषु मरीचिषु चाविद्यमानमुदकमिति. अतः कचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्याऽनुपलब्धेः 'किं सदुपलभ्यते ? अथाऽसत् ?' इति संशयो भवति।। अनुपलब्ध्यव्यवस्थातः- सच्च नोपलभ्यते मूलकीलकोदकादि असच्चानुत्पन्नं निरुद्धं वा. ततः कचिदनुपलभ्यमाने संशयः- किं सन्नोपलभ्यते उताऽसनिति संशयो भवति, विशेषापेक्षा किं वा गुणस्य सतः= गुणभूतस्य द्रव्यकर्मभ्यो विशेषोस्ति ? किं वा कर्मणः सतः= कर्मभूतस्य शब्दस्य द्रव्यगुणेभ्यो विशेषोस्तीति ? संदेह इत्यन्वयः, शब्दस्य द्रव्यादिषु कस्मिन्नन्तर्भावोस्तीति संशयो जायते इतिप्रघट्टकार्थः / संशयकारणीभूतां विशेषापेक्षामाह- विशेषापेक्षेति, अन्यतमस्य= द्रव्यगुणकर्मत्वानामन्यतमस्य द्रव्यत्वादेर्व्यवस्थापकधर्मज्ञानाभावादेव शब्दे द्रव्यत्वादिसंशयो जात इत्यर्थः / व्यवस्थापकधर्माभावविषयकं ज्ञानमेव विशेषापेक्षेत्यन्वयः / तत्र शब्दो न द्रव्यं गुणाश्रयत्वाभावात् . नापि कर्म संयोगविभागजनकत्वाभावात्. नापि सामान्यादिरूपो विनाशित्वात् . नाप्यभावः भावत्वेन प्रतीयमानत्वादिति पारिशेष्याद् गुणत्वनिश्चयो भवति- शब्दो गुणः विभागजत्वाद् विभागजवि भागवदिति संक्षेपः // विप्रतिपत्तेः संशयोत्पत्तिमुदाहरति- विप्रतिपत्तेरिति / विप्रतिपतिपदार्थमाह- व्याहतमिति, व्याहतम्= परस्परविरुद्धम् एकार्थदर्शनम्= एकपदार्थविषयकं ज्ञानं विप्रतिपत्तिः / विप्रतिपत्तेः पर्याय * त्रयमाह- व्याघात इत्यादिना / उदाहरति- अस्तीति, स्वाभिप्रायमाह-न चेति, सद्भावासद्भावौ सत्त्वासत्त्वे / सह= एकदा / अन्यतरस्य= सत्त्वस्य वाऽसत्त्वस्य वा साधको हेतुश्च नोपलभ्यते. तत्र अन्यतरसाधकहेतोरनुपलम्मे सति तत्त्वस्य= सत्त्वासत्त्वयोरन्यतरस्यानवधारणमेव संशय इति, तत्र मृतशरीरादिषु चैतन्यव्यभिचारात् तादृशचैतन्याश्रय आत्मास्त्येवेति निश्चीयते / उपलब्ध्यव्यवस्थातः संशयोत्पत्तिमुदाहरति- उपलब्धीति, उपलब्धेरव्यवस्थातः= नियमाभावादपि 'किं सदुपलभ्यते अथाऽसत्' इति संशयो भवतीत्यन्वयः / निरूपयति- सच्चेति, सदप्युदकं तडागादिषूपलभ्यते अविद्यमानम्= असदप्युदकं मरीचिषु= सिकतामयमरुस्थलोपरिपतितेषु सूर्यकिरणेधूपलभ्यते तथा च सदेवोपलभ्यते= प्रतीयते इति नियमो नास्ति किं त्वसदपि प्रतीयते यथा शुक्तिरजतम् इत्येषोपलब्ध्यव्यवस्था अतः कचिदुपलभ्यमाने= प्रतीयमाने जलादी तत्त्वव्यवस्थापकस्यसत्त्वासत्त्वयोर्व्यवस्थापकस्य प्रमाणस्यानुपलब्धौ सत्त्वासत्त्वयोरन्यतरस्य निश्चयासंभवात् संशयो जायते- किमिदं प्रतीयमानं वस्तु सदस्ति किं वाऽसदिति, तदनन्तरं सत्त्वासत्त्वयोरन्यतरस्य व्यवस्थापकप्रमाणसाहाय्यात् सत्त्वं वाऽसत्त्वं वा निश्चीयते तेन संशयो निवर्तते इत्यन्वयः। अनुपलब्ध्यव्यवस्थातः संशयोत्पत्तिमुदाहरति- अनुपलब्धीति, अनुपलब्धेरव्यवस्थातः= नियमाभावादपि 'किं सन्नोपलभ्यते उताऽसन्नोपलभ्यते' इति संशयो भवतीत्यन्वयः / निरूपयतिसच्चेति, कचित् सदपि नोपलभ्यते= न प्रतीयते यथाऽन्तःप्रविष्टं कीलकमूलमुदकं च. असदपि नोपलभ्यते यथाऽनुत्पन्नं निरुद्धम्= विनष्टं च मूलकीलकोदकादि तथा चाऽसत एवानुपलब्धिर्भवतीति नियमो नास्ति किं तु सतोप्या वृतस्यानुपलब्धिर्भवतीत्येषाऽनुपलब्ध्यव्यवस्था ततश्च कचिदनुपलभ्य