________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेसमानधर्मोपपत्तेविशेषापेक्षो विमर्शः संशय इति= स्थाणुपुरुषयोः समानं धर्ममाऽऽरोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोविशेष बुभुत्समानः किंस्विदित्यनन्तरं नावधारयति तद् अनवधारणं ज्ञानं संशयः / 'समानमनयोर्धममुपलभे विशेषमन्यरतस्य नोपलभे' इत्येषा बुद्धिरपेक्षा संशयस्य प्रवर्तिका वर्तते तेन विशेषापेक्षो विमर्शः संशयः। ____ अनेकधर्मोपपतेरिति-समानजातीयमऽसमानजातीयं चाऽनेकं तस्यानेकस्य धर्मोपपत्तेःविशेषस्योभयथा दृष्टत्वात्= समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्या विशिष्यन्ते ( यथा) गन्धवत्त्वात् पृथिवी अबादिभ्यो विशिष्यते गुणकर्मभ्यश्च / अस्ति च शब्दे विभागजस्वं विशेषः तस्मिन् द्रव्यं गुणः कर्म वेति संदेहः-विशेषस्योभयथा दृष्टत्वात- कि द्रव्यस्य सतो एवानुपलब्धिर्भवतीति नियमो नास्ति किं तु सतोप्यनुपलब्धिर्भवति यथा पृथिव्यन्तर्गतस्य सलिलस्येति क्वचिदनुपलभ्यमाने पदार्थे संशयो जायते-किमसन्नोपलभ्यते- असत्वात् किंवा सन्नोपलभ्यते-प्रतिबन्धकादिति समानानेकधर्मोपपत्त्यादिकारणैर्जायमानो विशेषापेक्षो विमर्श एव संशयो यथा 'स्थाणुर्वा पुरुषो वा' इति इतिसूत्रान्वयः। व्याचष्टे- समानेति, इदं च संशयलक्षणम्। उदाहरति- स्थाण्विति / समानधर्ममाह-आरोहेति, आरोहः= ऊर्ध्वत्वम् , परिणाहः= विस्तारः= स्थूलत्वम् , तयोः= स्थाणुपुरुषयोः पूर्वदृष्टं विशेषम्= स्थाणुत्वपुरुषत्वादिविशेषधर्म किं वा पुरुषत्वादिव्याप्यधर्म करचरणादिमत्त्वं बुभुत्समानः= जिज्ञासमानोपि अनन्तरम्= तादृशसमानधर्मज्ञानानन्तरं यत् किंस्वित्= किमिदमिति विशेषरूपं नावधारयतिन निश्चिनोति किं वा किंखिदितिज्ञानानन्तरं यन्नावषारयति तदेवाऽनिश्चयात्मकं ज्ञानं संशय इत्यन्वयः / अपेक्षास्वरूपमाह- समानमिति, उपसंहरति- तेनेति, तेन= उक्तापेक्षायाः संशयप्रर्वतकत्वेन, विशेषापेक्षः= विशेषरूपेणापेक्षात्रेति विशेषापेक्षः किं वा विशेषस्य विशेषधर्मस्याऽपेक्षा अप्रतीतिर्जिज्ञासा वाऽत्रेति विशेषापेक्षो विमर्श एव संशय इत्यन्वयः। अनेकधर्मोपपत्त्या संशयमुदाहरति- अनेकेति / अनेकशब्दं धर्मिपरमाह- समानेति, यथा पृथिव्याः जलादिकं द्रव्यत्वेन समानजातीयं गुणादिकं चाऽसमानजातीयं द्रव्यत्वानाक्रान्तत्वात्. अनेकस्य समानजातीयाऽसमानजातीययोर्ये धर्मास्तेषामुपपत्तेः= उपलब्धेः संशयो जायते इत्यन्वयः / हेतुमाह-विशेषस्येति, उभयथा= समानजातीयेभ्योऽसमानजातीयेभ्यश्च विशेषस्य व्यवच्छेदस्य किंवा व्यवच्छेदकधर्मविशिष्टत्वस्य दृष्टत्वात्= दृश्यमानत्वातू= निरूप्यमाणत्वात् तादृशविशेषनिरूपणकारणीभूतश्च संशयः समानाऽसमानजातीयधर्मोपपत्तेर्जायते इति प्राप्तम् अत एव समानाऽसमानजातीयेभ्यो विशेषस्य निरूपणात् स संशयो निवर्तते इत्याशयः / उक्तमुदाहरति- समानेति, समानजातीयेभ्योऽबादिभ्योऽसमानजातीयेभ्यश्च गुणादिभ्यः पृथिवी गन्धवत्त्वात्= रान्धवत्त्वधर्मेण विशिष्यते= व्यवच्छिद्यते-- गन्धवत्त्वस्य पृथिवीमात्रवृत्तित्वेन जलादिषु गुणादिषु चावृत्तित्वात् / तत्र गन्धवत्त्वस्य पृथिवीमात्रवृत्तित्वेन गन्धवत्त्वात् पृथिव्याः द्रव्यत्वादिनिश्चयो न संभवतीति किं पृथिवी द्रव्यं वा गुणादिरूपा वेति संशयो जायते तत्र गन्धस्य गुणत्वात् गुणस्य च द्रव्यमात्रवृत्तित्वात् गन्धत्त्वेन पृथिव्या द्रव्यत्वं निश्चीयते / प्रकृतमाह- अस्तीति, विभागजत्वं शब्दमात्रवृत्तित्वात शब्दस्य विशेष:= विशेषधर्मः, र विभागजत्वं द्रव्यादिषु कचिदपि स्यात्तदा तद्दृष्टान्तेन विभागजत्वात् शब्दस्य द्रव्यत्वादिनिश्चयः स्यादपि न चैवमस्तीति शब्दे द्रव्यत्वादिसंशयो जायते तदाह- तस्मिन्निति, तस्मिन्= शब्दे / उक्ते हेतुमाहविशेषस्येति, उभयथा= समानजातीयेभ्यो गुणेभ्योऽसमानजातीयेभ्यश्च द्रव्यादिभ्यो विशेषस्य दृश्यमानत्वात् विभागजत्वस्य शब्दमात्रवृत्तित्वेन अन्यत्रावृत्तित्वात् तस्मात् शब्दे द्रव्यत्वादिसंदेहः / उक्तं विशदयति-किमिति, किं द्रव्यस्य सतः= द्रव्यभूतस्य शब्दस्य गुणकर्मभ्यो विशेषः= व्यतिरेकोस्ति ? आदि