________________ संशयलक्षणम्] न्यायभाष्यम्। प्रहाणे नित्यसुखरागस्याऽप्रतिकूलत्वम् // अथास्य नित्यसुखरागः प्रहीयते तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति ?. यद्येवं ? मुक्तस्य नित्यं सुखं भवति अथापि न भवति. नाऽस्योभयोः पक्षयोर्मोक्षाधिगमो विकल्पते इति // 22 // // इति प्रमेयभाग्यम् // स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यतेसमानाऽनेकधर्मोपपत्तेविप्रतिप्रत्तेरुपलब्ध्यनुपलब्ध्यऽव्यवस्थातश्व विशेषापेक्षो विमर्शः संशयः // 23 // स्थायां नित्यं स्वरूपभूतं सुखमभिव्यज्यते इति नित्यसुखस्य रागेण यद्ययं मुमुक्षुमोक्षाय घटमानः= घटते= प्रवर्तते= प्रवृत्तिं कृतवान् ? तदायं मोक्षं नाधिगच्छेत्= नाधिगन्तुम्न प्राप्नुमर्हति हि यतो रागो बन्धनसमाज्ञातः= बन्धनरूप एव बन्धने च सति न कश्चिदपि मुक्त इत्युपपद्यते= संभवतिबन्धमोक्षयोरेकत्र विरुद्धत्वादित्यन्वयः // ननु मोक्षसाधनेषु नित्यसुखरागेण प्रवृत्तस्यापि मोक्षसाधनानुष्ठानमाहात्म्यादस्य नित्यसुखरागोपि पश्चात् प्रहीयते इति नित्यसुखरागस्य प्रहाणे= परित्यागे कृते ह्यप्रतिकूलत्वम् मोक्षप्रतिकूलत्वं न संभवतीति न मोक्षानुपपत्तिरित्याशङ्कते- प्रहीणेति / वार्तिककारस्तु- प्रहीणनित्यसुखरागस्य अप्रतिकूलं दुःखहानमात्रं मोक्षे भवतीत्येवमभिप्रायेण वर्णयांचकार / स्वयं व्याचष्टे- अथेति, अस्य= मुमुक्षोः / तस्मिन् नित्यसुखरागे / प्रतिकूलः= मोक्षप्रतिबन्धकः, नित्यसुखरागस्य नष्टत्वात् नष्टस्य च प्रतिबन्धकत्वासंभवादित्यर्थः / स्वाभिप्रायमाह- यद्येवमिति, यदि एवम्= मुमुक्षोनित्यसुखरागो नष्टस्तदा मुक्तस्य नित्यं सुखं भवति अथापि= किं वा न भवतीति वक्तव्यं तत्राऽस्य= वेदान्तिनो मते नित्यं सुखं भवति न वा भवतीति उभयोरपि पक्षयोर्मोक्षाधिगमो न विकल्पते= नोपपद्यते यतो नित्यसुखाभिव्यक्तिपक्षे तु पूर्व दोषाः प्रदर्शिता एवेति मोक्षानुपपत्तिः, नित्यसुखाभिव्यक्त्यभावपक्षे तु नित्यसुखरहितस्य वेदान्तिना मोक्षत्वं न स्वीक्रियते इति मोक्षानुपपत्तिरित्याशयः प्रतिभाति / वाचस्पतिमिश्रास्त्वेवं वर्णयन्ति" यद्येवमित्यादेर्भाष्यस्यायमर्थः- एवं वैराग्येण मोक्षमाणस्य प्रवृत्तौ सत्यां प्रसक्तस्य यदि नित्यं सुखं भवति कामं भवतु मा भूत् (वा) उभयोरपि पक्षयोवीतरागप्रवृत्तौ न मोक्षाधिगमो विकल्पते= न संदिग्धो भवतीत्यर्थः" इति, अत्र पक्षे अस्य= मुमुक्षोरित्यर्थः // 22 // प्रमेयनिरूपणानन्तरं संशयलक्षणमवतारयति- स्थानवत इति, स्थानवतः= क्रमवतः= क्रमेण प्राप्तस्य / तर्हि= प्रमेयनिरूपणानन्तरम् / तत्= संशयलक्षणम् / समानेति-विशेषापेक्षः= पुरुषत्वादिविशेषधर्मनिर्णयांपेक्षः किं वा वक्ष्यमाणा विशेषरूपेणाऽपेक्षा= बुद्धिविशेषो यत्र स विशेषापेक्ष एतादृशो विमर्शः= किमिदमित्याकारकमनिश्चयात्मकं ज्ञानं संशय इतिलक्षणम् / संशयस्य चत्वारि कारणान्याहसमानेति, समानाः= सदृशा अनेके च ये धर्मास्तेषामुपपत्तेः= उपलब्ध्या संशयो जायते यथा स्थाणुपुरुषयोरारोहपरिणाहादीनां समानानेकधर्माणामुपलब्ध्या संशयो जायते-'स्थाणुर्वा पुरुषो वा इति, विप्रतिपत्तेः= परस्परविरुद्धसिद्धान्तज्ञानादपि संशयो जायते यथा केचिदात्मनो विभुत्वं वदन्ति केचिदणुत्वं तत्रैतादृशविरुद्धसिद्धान्तज्ञानात् संशयो जायते- आत्मा विभुर्वाऽणुर्वा' इति, उपलब्धेरव्यवस्थात:= अनियमादपि संशयो जायते यथा सदेवोपलभ्यते इति नियमो नास्ति किं त्वऽसदपि शुक्तिरजतादिक. मुपलभ्यते= ज्ञायते इति कचिद् रजतज्ञाने जाते सत्त्वासत्त्वनिर्णायकप्रमाणाभावात् संशयो जायतेकिमिदं दृश्यमानं रजतं सदऽसद्वेति, अनुपलब्धेरव्यवस्थातः= अनियमादपि संशयो जायते यथाऽसत