________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निके उपपत्तिविरुद्धमितिचेत् ?. समानम् // देहादीनां नित्यत्वं प्रमाणविरुद्धं कल्पयितुमशक्यमिति समानम्= सुखस्यापि नित्यत्वं प्रमाणविरुद्धं कल्पयितुमशक्यमिति // आत्यन्तिके च संसारदुःखाभावे सुखवचनाद् आगमेपि सत्यऽविरोध // . यद्यपि कश्चिदागमः स्याद् मुक्तस्याऽऽत्यन्तिकं सुखमिति 1. सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते- दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोके इति // नित्यसुखरागस्याऽप्रहाणे मोक्षाधिगमाभावः रागस्य बन्धनसमाज्ञानात् // यद्ययं मोक्षे नित्यं सुखमभिव्यज्यते इति नित्यसुखरागेण मोक्षाय घटमानः 1. न मोक्षमऽधिगच्छेत्= नाधिगन्तुमर्हतीति- बन्धनसमाज्ञातो हि रागः न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यते इति // च मुक्तस्य नित्यसुखमपि न संभवति- सुखस्याप्यनित्यत्वनियमदर्शनादित्यर्थः / स्वयं व्याचष्टेयथेति, कामयते= कल्पयति वेदान्ती। अतिक्रम्य= देहादीनामनित्यत्वनियममुल्लचय= परित्यज्य / विपक्षे बाधकमाह- साधीय इति, आक्षेपवाक्यमिदम् , एवम्= मुक्तस्य नित्यदेहादिमत्त्वस्वीकारे ऐकात्म्यम्= अद्वैतं न संभवति- नित्यदेहादिभिरेव सद्वितीयत्वापत्तेरित्याशयः // ननु देहादीनां नित्यत्वं अनित्यत्वनियमादुपपत्तिविरुद्धमिति न मुक्तस्य नित्यदेहादिमत्त्वापत्तिरित्याशङ्कते- उपपत्तीति / उत्तरमाह- समानमिति, सुखस्यापि नित्यत्वमुपपत्तिविरुद्धमेव-अनित्यत्वनि यमदर्शनादिति समानमेवेति न मुक्तस्य नित्यसुखसंवेदनमुपपद्यते इत्यर्थः / स्वयं व्याचष्टे- देहादीनामिति, प्रकृतं सामान्यमाह- सुखस्यापीति, प्रमाणविरुद्धम्= अनित्यत्वप्रत्यक्षविरुद्धम् / तस्मान्न मुक्तस्य नित्यं सुखं संभवतीत्यर्थः // ननु " स स्वराड् भवति" इत्याद्यागमेन मुक्तस्य सुखमुच्यते इति मुक्तस्य सुखवत्त्वं प्रामाणिकमेवेत्याशङ्कयाह- आत्यन्तिके इति, मुक्तस्य सुखबोधके आगमे सत्यपि विरोधो नास्ति- यतस्तादृशागमेन मोक्षावस्थायामात्यन्तिकस्य संसारदुःखाभावस्य बोधनार्थमेव मुक्तस्य सुखमुच्यते. लोकेपि दुःखाभावे सुखवचनमुपलभ्यते यथा भारापगमे वदति सुखी संवृत्तोहमिति, मुक्तस्य दुःखनिवृत्तिमात्रकथने दुःखाभाव आत्यन्तिको न सिध्येदिति आत्यन्तिकस्य दुःखाभावस्य बोधनार्थमेवागमेन सुखमुच्यते इत्यर्थः / स्वयं व्याचष्टे- यदीति, यदि 'मुक्तस्यात्यन्तिकं सुखं भवति' इति बोधकः कश्चिदागमोपि स्यात्तदापि तादृशागमे सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इति लक्षणावृत्त्या तादृश आगम उपपद्यते एवेति न तादृशागमविरोध इति न मुक्तस्य नित्यसुखसंवेदनापत्तिः / उक्ते विनिगमनामाह- दृष्ट इति, लोके यथा भारापगमे वदति सुखी संवृत्तोहमिति अत्र दुःखाभावबोधनार्थमेव सुखशब्दः प्रयुक्तो न तु सुखबोधनार्थ एवमेव मुक्तसुखबोधकागमेपि सुखशब्दो दुःखाभावपर इत्यर्थः / / उक्तवेदान्तमतेऽनुपपत्त्यन्तरमाह-नित्येति, वेदान्तिना हि मोक्षावस्थायां प्राप्स्यमाणस्य नित्यसुखस्य रागेणैव मोक्षसाधनेषु प्रवृत्तिर्वक्तव्या तत्र मुमुक्षोनित्यसुखविषयकरागस्य अप्रहाणे= अनिवृत्ती मोक्षाधिगमाभावः= मोक्षप्राप्त्यऽभावः प्राप्तः- रागस्य बन्धनसमाज्ञानात्= बन्धनरूपत्वात् बन्धने सति च मोक्षासंभवात् नित्यसुखरागस्य च मोक्षकालेपि वक्तव्यत्वात् तत्प्राप्तिं विना तद्रागनिवृत्तेरसंभवात् . किं वा नित्यसुखप्राप्तौ नित्यसुखरागवृद्धरपि संभवादित्यर्थः / स्वयं व्याचष्टे- यद्ययमिति, मोक्षे= मोक्षाव