________________ अपनाबादः] न्यायभाध्यम्। ऽविशेषो नास्तीति?, एतच्चायुक्तम्- शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करीष्यन्तीत्यनुपपन्नम् / न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति / / ___ इष्टाधिगमार्था प्रवृत्तिरितिचेत् ?. न- अनिष्टोपरमार्थत्वात् इदमनुमानम्- इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणां नोभयमनर्थकमिति / एतच्चायुक्तम्- अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणामिति / नेष्टमनिष्टेनाऽननुविद्धं संभवतीति इष्टमप्यनिष्टं संपद्यते. अनिष्टहानाय घटमान इष्टमपि जहाति- विवेकहानस्याऽशक्यत्वात् // ___ दृष्टातिक्रमश्च देहादिषु तुल्यः // यथा दृष्टमानित्यं सुखं परित्यज्य नित्यसुखं कामयते, एवं देहेन्द्रियबुद्धीरनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति // ___ स्वयं व्याचष्टे- स्यान्मतमिति, शरीरादिसंबन्धस्य नित्यसुखसंवेदनहेतुप्रतिबन्धकत्वे नित्यसुखसंवेदनप्रतिबन्धकत्वमर्थादेव प्राप्तम् / पर्यवसितमाह- तेनेति, तेन= तस्मात् बद्धमुक्तयोरविशेषः= साम्यं नास्ति यतो बद्धस्य शरीरादिसंबन्धात् नित्यसुखसंवेदनापत्तिर्नास्ति मुक्तस्य च नित्यसुखसंवेदनमुपपद्यतेप्रतिबन्धकीभूतशरीरादिसंबन्धस्याभावादित्यर्थः / परिहरति- एतच्चेति / परिहारहेतुमाह- शरीरादय इति, अनुपपन्नम्- भोगसाधनस्य भोगप्रतिबन्धकत्वासंभवात् / विपक्षे बाधकमाह- न चेति, अस्ति= भवति / यद्यशरीरस्याप्यात्मनो भोगः स्यात्तदा शरीरादिसंबन्धस्य भोगप्रतिबन्धकत्वं कल्प्येतापि न चैवमस्ति सशरीरस्यैव भोगसंभवात् नित्यसुखसंवेदनस्थापि भोगत्वादेवेति मुक्तवद् बद्धस्यापि सुखसंवेदनं स्यादेव न चोपलभ्यते इति न मुक्तस्यापि सुखसंवेदनमुपपद्यते इत्यर्थः / प्रत्युताशरीरत्वात् मुक्तस्यैव सुखसंवेदनं नोपपद्यते- सशरीरस्यैव सुखसंवेदनादिलक्षणभोगसंभवादिति भावः // ननु इष्टाधिगमार्था= इष्टप्राप्त्यर्था प्रवृत्तिर्भवतीति प्रसिद्धमेव तत्र यदि मुक्तस्य नित्यसुखसंवेदनलक्षणेष्टस्य प्राप्तिर्न स्यात्तदा मोक्षसाधनेषु प्रवृत्तिर्न स्यात् भवति च प्रवृत्तिरिति मुक्तस्य नित्यसुखसं. वेदनलक्षणेष्टस्य प्राप्तिरनुमीयते इत्याशङ्कते- इष्टेति / परिहरति- नेति / परिहारहेतुमाह- अनिष्टेति, मोक्षसाधनेषु प्रवृत्तेरनिष्टोपरमार्थत्वात्= अनिष्टनिवृत्त्यर्थत्वात् अनिष्टनिवृत्त्यर्थमपि प्रवृत्तिदृश्यते तथा च संसारदुःखलक्षणानिष्टस्य निवृत्त्यर्थमेव मोक्षसाधनेषु प्रवृत्तिर्भवतीति न तादृशप्रवृत्तेर्नित्यसुखसंवेदनलाभ विनाऽनुपपत्तिरित्यर्थः / स्वयं व्याचष्टे- इदमति, मुक्तो नित्यसुखसंवेदनविशिष्टो मोक्षसाधनेषु पूर्व प्रवृत्तत्वात् संप्रतिपन्नवत् इति / मुमुक्षूणां मोक्षोपदेशो मोक्षसाधनेषु प्रवृत्तिश्चेत्युभयं नाऽनर्थकं तस्मादिष्टाधिगमार्थम्= नित्यसुखसंवेदनलाभार्थमिति मुक्तस्य नित्यसुखसंवेदनं सिद्धमित्यर्थः / परिहरति- एतचेति / परिहारहेतुमाह- अनिष्टेति / स्वाभिप्रायमाह- नेष्टमिति, यद् यदिष्टं तदऽनिष्टेन= दुःखेनाऽननुबिद्धम्= रहितं न संभवतीति तादृशानिष्टसंसर्गादिष्टमप्यनिष्टं संपद्यते यथा मधुसंपृक्तमन्नं विषसंसर्गादनिष्टं संपद्यते तत्रानिष्टहानाय= अनिष्टत्यागाय घटमानः= प्रवर्तमानः पुरुष इष्टमपि विवशं जहातिविवेकहानस्य= विवेकेन हानस्य= केवलानिष्टमात्रपरित्यागस्याऽशक्यत्वात् तस्मात् संसारदुःखनिवृत्त्यर्थ सुखमपि त्याज्यमेवेति न मुक्तस्य नित्यसुखसंवेदनमुपपद्यते इत्यर्थः // ___ वेदान्तमते दोषान्तरमाह- दृष्टेति, यद् यत्सुखं तद् अनित्यमेव दृष्टमिति दृष्टस्यातिक्रमो मोक्षावस्थायां नित्यसुखस्वीकारः स च दृष्टातिक्रमो देहादिषु तुल्यः= मुक्तस्य सुखवद् देहादयोपि नित्याः स्वीकार्या इति न च मुक्तस्य नित्यदेहादिमत्त्वं स्वीक्रियते- देहादीनामनित्यत्वनियमदर्शनादिति. तथा