________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. पालिकअप्रक्षयश्च धर्मस्य निरनुमानम्- उत्पत्तिधर्मकत्त्वात् // योगसमाधिजो धर्मो न क्षीयते इति नास्त्यनुमानम्. उत्पत्तिधर्मकमऽनित्यमिति विपर्ययस्य त्वऽनुमानम् / यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयं नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्= यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च संवेदनस्य तूपरमो नास्ति- कारणस्य नित्यत्त्वात् तथा संसारस्थस्यापीति. एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्यतेति // शरीरादिसंबन्धः प्रतिबन्धहेतुरितिचेत् ?. न- शरीरादी नामुपभोगार्थत्वात् . विपर्ययस्य चाऽननुमानात् // स्यान्मतम्- संसारावस्थस्य शरीरादिसंबन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः तेनात्यसुखस्य मोक्षावस्थायां संवेदमस्वीकारे मुक्तस्य बद्धतुल्यत्वं स्यादित्यर्थः / किं चाविद्यमानस्य सुखस्यासंवेदनपक्षे उक्तस्य मोक्षकालिकसुखस्याभाव एव सिद्ध इति दुःखनिवृत्तिरेवापवर्ग इति सिद्धम् // _ सहकारीभूतस्योक्तयोगसमाधिजधर्मस्याऽविनाशित्वं चानुपपन्नं येन प्रलयकालेपि नित्यसुखसंवेदनमुपपद्यतेत्यभिप्रायेणाह- अप्रक्षयश्चेति, धर्मस्य= उक्तयोगसमाधिजधर्मस्य अप्रक्षयः= अविनाशित्वं निरनुमानम्= अनुमानसाध्यं नास्ति- तस्य धर्मस्योत्पत्तिधर्मकत्वात्= कार्यत्वात्. यच्च कार्य तद् विनाश्येव दृष्टं धर्मश्चायं योगसमाधिजन्यत्वात् कार्यमेव कार्यत्वाच्च विनाशी तथा च तस्य धर्मस्य प्रलये विनाशावश्यम्भावात् न तत्साहाय्येन मुक्तस्य नित्यसुखसंवेदनमुपपद्यते इत्यर्थः / स्वयं व्याचष्टे- योगेति, इति= इत्यत्र / योगसमाधिजधर्मस्य विनाशित्वेऽनुमानमाह- उत्पत्तीति, उत्पत्तिधर्मकम्= कार्य सर्वमनित्यमेव दृष्टं घटादिवदिति योगसमाधिजमर्थोप्यनित्यः कार्यत्वादिति विपर्ययस्य- योगसमाधिजधर्मविनाशित्वस्यानुमानं संभवति / विपक्षे बाधकमाह- यस्येति, यस्य मते मोक्षावस्थायां नित्यसुखसंवेदनस्य उपरमः= विनाशो नास्ति तेन संवेदनहेतोरपि नित्यत्वमनुमेयम्= वक्तव्यम्- संवेदनहेतुर्नित्यः संवेदनस्य नित्यत्वादिति, संवेदनहेतौ च नित्ये= संवेदनहेतोनित्यत्वे च मुक्तबद्धयोरविशेष एव स्यात्- सुखमपि नित्यं तत्संवेदनमपि नित्यं संवेदनकारणमपि नित्यमिति तादृशं सुखसंवेदनं मुक्तवद् बद्धस्यापि स्यादेवनित्यत्वात् प्रतिबन्धकाभावाच्च किं वा विपर्यये कारणाभावादित्यर्थः / मुक्तसंसारस्थयोरुक्तमविशेषमेव विशदयति- यथेति, तत्संवेदनहेतुः= नित्यसुखसंवेदनहेतुः, उपरमः= विनाशः, कारणस्य= नित्यसुखसं. वेदनकारणस्य, तथा= मुक्तवद् बद्धस्यापि नित्यमुखसंवेदनं प्राप्तं सुखस्य तत्संवेदनस्य संवेदनकारणस्य च त्वया नित्यत्वस्वीकारादिति बद्धमुक्तयोरविशेषः प्राप्तः / उपसंहरति- एवं चेति, एवम्= बद्धस्यापि नित्यसुखसंवेदने प्राप्ते तादृशं नित्यसुखसंवेदनं संसारावस्थायामपि धर्माधर्मफलभूतेन सुखदुःखसंवेदनेन सहोपलभ्येत न चोपलभ्यते इति न नित्यसुखसंवेदनमुपपद्यते इति न मुक्तस्यापि नित्यसुखसंवेदनमुपपद्यते इत्यर्थः / तस्य नित्यसुखसंवेदनस्य साहचर्यमित्यन्वयः // ननु नित्यसुखसंवेदनस्य शरीरादिसंबन्धः प्रतिबन्धहेतुः= प्रतिबन्धकोस्तीति ताशशरीरादिसंबन्धादेव बद्धस्य नित्यसुखसंवेदनापत्तिर्नास्तीत्याशङ्कते- शरीरादीति / परिहरति- नेति / परिहारहेतुमाह-शरीरादीनामिति, शरीरादीनामुपभोगार्थत्वेन नित्यसुखसंवेदनप्रतिबन्धकत्वं नोपपद्यते न हि भोगसाधनीभूतं शरीरादिकं भोगप्रतिबन्धकं संभवति- तत्साधनस्य तत्प्रतिबन्धकत्वासंभवात्. नित्यसुखसंवेदनं च भोग एव / विपर्ययस्य= विपर्यये= तत्साधनस्य तत्प्रतिबन्धकत्वे= शरीरादीनां नित्यसुखसंवेदनलक्षणभोगप्रतिबन्धकत्वे किं वा शरीररहितस्य भोगे अननुमानात्= अनुमानाभावात् शरीरादिसंबन्धस्य भोगप्रतिबन्धकत्वं नोपपद्यते मेन बद्धस्य नित्यसुखसंवेदनापत्तिर्न स्यादित्यर्थः /