________________ अपवादः] न्यायभाष्यम्। - आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम् // आत्ममनस्संयोगो हेतुरितिचेत् ?. एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति // धर्मस्य कारणवचनम् // यदि धर्मो निमित्तान्तरम् ?. तस्य हेतुर्वाच्यो यत उत्पद्यते इति // - योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये संवेदननिवृत्तिः // यदि योगसमाधिजो धर्मो हेतुः 1. तस्य कार्यावसायविरोधात् प्रक्षये संवेदनमत्यन्तं निवर्ततेति // . असंवेदने चाऽविद्यमानेनाऽविशेषः // यदि धर्मक्षयात् संवेदनोपरमे नित्यं सुखं न संवेद्यते ? इति. किं विद्यमानं न संवेद्यते ? अथाऽविद्यमानमिति ?, नानुमानं विशिष्टेऽस्तीति // नन्वात्ममनस्संयोग एव तादृशज्ञानस्य हेतुरिति नानुपपत्तिरित्याशङ्कयाह- आत्मेति, आत्ममनस्संयोगस्य हि विषयसांनिध्यादिनिमित्तान्तरसहितस्यैव ज्ञानहेतुत्वं दृष्टं न तु स्वतन्त्रस्य अन्यथाऽऽत्ममनस्संयोगस्तुसंसारावस्थायामस्त्येवेति संसारावस्थायामपि नित्यसुखस्य ज्ञानं स्यात्, मोक्षावस्थायां च नोक्तं निमित्तान्तरं संभवतीति न नित्यस्यापि सुखस्य ज्ञानं संभवतीत्यर्थः / स्वयं व्याचष्टे- आत्मेति / हेतुः= सुखज्ञानहेतुः / उत्तरमाह- एवमपीति, तस्य= आत्ममनस्संयोगस्य / स्पष्टमन्यत् // ननु तादृशं निमित्तान्तरं धर्म एव तथा च धर्मसहित आत्ममनस्संयोगो मोक्षावस्थायां सुखज्ञानस्य हेतुरिति अनित्यज्ञानस्योत्पत्तिर्नानुपपन्नेत्याशक्याह- धर्मस्येति, तादृशधर्मस्यापि कारणवचनम्= कारणं वक्तव्यं येन मोक्षावस्थायां स धर्म उत्पद्यते न च धर्मकारणं मोक्षावस्थायां संभवतीति न धोपि संभवतीत्यर्थः / स्वयं व्याचष्टे- यदीति / उत्तरमाह- तस्येति, तस्य= धर्मस्य // ___ ननु न कर्मजन्यो धर्म आत्ममनस्संयोगस्य सहकारी येन तस्य हेतुवचनमापद्येत किं तु मोक्षप्रयोजकीभूतो य आत्मसाक्षात्कारस्तत्कारणीभूतो यो योगसमाधिस्तजन्यो धर्मो मोक्षावस्थायामपि वर्तते तस्याऽक्षयत्वादिति तादृशो योगसमाधिजो धर्म एवात्ममनस्संयोगस्य सहकारीति न तत्कारणवचनापत्तिरिति आत्ममनस्संयोगेन नित्यसुखस्य ज्ञानं मोक्षावस्थायामुपपन्नमित्याशङ्कथाहयोगेति, कार्यावसायस्य= प्रलयस्य विरोधात्= प्रलये किमपि जन्यं स्थातुं न शक्नोतीति प्रलयकाले योगसमाधिजन्यस्यापि धर्मस्य प्रक्षये= विनाशे जाते नित्यसुखसंवेदनस्य निवृत्तिः प्राप्तेति प्रलयकाले मुक्तस्य नित्यसुखज्ञानं नोपपद्यते इत्यर्थः / स्वयं व्याचष्टे- यदीति, हेतुः= आत्ममनस्संयोगसहकारी / तस्य= योगसमाधिमधर्मस्य / कार्यावसायविरोधात्= प्रलयविरोधात्= प्रलयानुरोधात् प्रक्षये= विनाशे जाते तत्कार्यभूतं नित्यसुखस्य संवेदनमपि प्रलये निवर्तेतैव न तिष्ठेदित्यर्थः // ननु सहकारिभूतस्य योगसमाधिजन्यस्य धर्मस्य प्रलयकाले परिक्षये सति नित्यसुखसंवेदनं मा भवतु नैतावता नित्यसुखस्याभावः प्राप्नोतीत्याशङ्कथाह- असंवेदने इति, एवं हि नित्यसुखस्याऽसंवेदने नित्यसुखस्याविद्यमानेनाऽविशेषः= तुल्यत्वं प्राप्तम्= अविद्यमानत्वम् अभाव एव प्राप्त इत्यर्थ:- ज्ञायमानस्यैव सुखस्य पुरुषार्थत्वसंभवात् सत्त्वसंभवाच्च / स्वयं व्याचष्टे- यदीति, धर्मक्षयात्= उक्तयोगसमाधिजधर्मक्षयात् / उक्ते द्विधा विकल्पयति- किमिति / संवेदनाभावो विद्यमानस्यापि भवति अविद्यमानस्यापि 'भवति तत्र विशिष्टे= विद्यमानस्यैव नित्यसुखस्य संवेदनाभावोयमितिविशेषपक्षेऽनुमानं न संभवतीति अविद्यमानस्यापि नित्यसुखस्य संबेदनाभावः प्राप्तस्तथा च सुखस्याविद्यमानत्वेनाऽनित्यत्वं प्राप्तं तादृशानि