________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेनित्यस्याभिव्यक्तिः= संवेदनम् , तस्य हतुवचनम् // नित्यस्याभिव्यक्तिः= संवेदनम् ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्तदुत्पद्यते इति // . सुखवन्नित्यमितिचेत् 1. संसारस्थस्य मुक्तेनाऽविशेषः // यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा संसारस्थोपि प्रसज्यते इतिउभयस्य नित्यत्वात् // अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यम्= यौगपद्यं गृह्येत // यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण तस्य च नित्यसंवेदनस्य च सहभावः= यौगपद्यं गृह्येत, न सुखाभावो नाऽनभिव्यक्तिरस्ति- उभयस्य नित्यत्वात् / अनित्यत्वे हेतुवचनम् // अथ मोक्षे नित्यस्य सुखस्य संवेदनमनित्यम् ?, यत उत्पद्यते स हेतुर्वाच्यः॥ ननु नित्यस्य स्वरूपभूतसुखस्य संवेदनम्= ज्ञानमेवाभिव्यक्तिपदार्थः ज्ञानं च मुक्तस्य नानुपपन्नम्ज्ञानस्वरूपत्वादित्याशङ्कते-नित्यस्येति / उत्तरमाह- तस्येति, ज्ञानं हि सर्व सहेतुकम्= कारणजन्यमेव दृष्टमिति तस्य= मोक्षावस्थायां नित्यसुखविषयकज्ञानस्य हेतुवचनम्= हेतुर्वक्तव्यः न च मुक्तावस्थायामात्ममनःसंयोगादिकं ज्ञानकारणमुपपद्यते इति न नित्यसुखज्ञानमप्युपपद्यते इत्यर्थः / स्ववाक्यं स्वयं व्याचष्टे-नित्यस्येति, तस्य= नित्यसुखविषयकज्ञानस्य / यतो हेतोः / तत्= नित्यसुखविषयकं ज्ञानम् // नन्वऽनित्यस्य कारणं भवति न तु नित्यस्यापि नित्यसुखविषयकं च ज्ञानं सुखवन्नित्यमेवेति न सत्कारणवचनापत्तिरित्याशङ्कते- सुखवदिति / उत्तरमाह- संसारेति, सुखतज्ज्ञानयोनित्यत्वे हि संसारावस्थायामपि नित्यसुखज्ञानं प्राप्तं तथा च संसारस्थस्य मुक्तेनाऽविशेषः= बद्धमुक्तयोः साम्यं प्राप्तम्नित्यसुखज्ञानववादित्यर्थः / स्वयं व्याचष्टे- यथेति, तत्संवेदनेन= नित्यसुखज्ञानेनं / सन्नित्येन-सता नित्येन च उपपन्नः= युक्तः किं वा 'मुक्तः सत्' इत्यन्वयः / संसारस्थोपि / तथा नित्यसुखज्ञानेनोपपन्नः प्रसज्यते / उक्ते हेतुमाह- उभयस्येति, उभयस्य= सुखतज्ज्ञानयोनित्यत्वात् संसारावस्थायामपि प्राप्तिः स्पष्टैव // . अस्तु संसारावस्थायामपि नित्यसुखज्ञानमित्याशङ्कयाह- अभ्यनुज्ञाने इति, संसारावस्थायामपि नित्यसुखज्ञानस्य स्वीकारे कृते सांसारिकेण धर्माधर्मफलेन दुःखादिना साहचर्यम्= योगपद्यं नित्यसुखज्ञानस्य स्यात् न च योगपद्यमुपलभ्यते इति प्रत्यक्षविरोध इति न नित्यसुखज्ञानोपपत्तिरित्यर्थः / स्वयं व्याचष्टे- यदिदमिति / उत्पत्तिस्थानेषु= देहादिषु / पर्यायेण= क्रमेण / तस्य= धर्माधर्मफलदुःखादेः / नित्यसंवेदनस्य= नित्यसुखज्ञानस्य / यौगपद्यं गृह्येत संसारावस्थायामपीत्यर्थः / यौगपद्यग्रहमुपपादयतिनेति, संसारावस्थायां तादृशसुखस्याप्यभावो नास्ति अनभिव्यक्तिः= तादृशमुखज्ञानस्याप्यभावो नास्तिउभयस्य तादृशसुखतज्ज्ञानयोनित्यत्वात् तथा च संसारावस्थायामपि मोक्षसुखानुभवः प्राप्तो न चोपलभ्यते इति न नित्यसुखज्ञानोपपत्तिरित्यर्थः // ननु नित्यसुखस्य ज्ञानं न नित्यं येन संसारावस्थायामापद्येतत्याशङ्कयाह- अनित्यत्वे इति, सुखज्ञानस्यानित्यत्वे तस्य हेतुवचनम्= कारणं वक्तव्यम्- अनित्यस्य कारणजन्यत्वनियमात् मोक्षावस्थायां च तादृशकारणं नोपपद्यते इति न नित्यसुखस्य ज्ञानसंभव इत्यर्थः / स्वयं व्याचष्टे- अथेति / उत्तरमाहयत इति, मोक्षावस्थायां यतो हेतो नमुत्पद्यते सुखस्य स हेतुर्वक्तव्यः न च वक्तुं शक्यते इत्यर्थः / /