________________ 39 अपवर्गलक्षणम् ] न्यायभाष्यम्। दुखयोगाद् दुःखमिति, सोयं सर्व दुःखेनाऽनुविद्धमिति पश्यन् दुःखं जिहासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्विण्णो विरज्यते विरक्तो मुच्यते // 21 // यत्र तु निष्ठा= यत्र तु पर्यवसानं सोयम्-. तदत्यन्तविमोक्षोऽपवर्गः // 22 // तेन दुःखेन जन्मनाऽत्यन्तविमुक्तिरपवर्गः / कथम् ?, उपात्तस्य जन्मनो हानम् अन्यस्य चानुपादानम्, एतामवस्थामपर्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः, तद् अभयमऽजरमऽमृत्युपदं ब्रह्म क्षेममाप्तिरिति / नित्यं सुखमात्मनो महत्त्ववद् मोक्षे व्यज्यते तेनाभिव्यक्तेनाऽत्यन्तं विमुक्तः सुखी भवतीति केचिन्मन्यन्ते, तेषां प्रमाणाभावादनुपपत्तिः- न प्रत्यक्षं नानुमानं नागमो वा विद्यते- 'नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यते' इति // रादिकमपि दुःखमित्युच्यते इति सूत्रेण सहान्वयः, अत्र "एतदेव शरीरादि बाधनानुषङ्गाद् दुःखमित्युच्यते स्वभावतस्तु दुःखमेव दुःखम्" इति वार्तिकम् / व्याचष्टे- बाधनेति, तया= पीडया अनुषक्तम् संबद्धम्= दुःखजनकमितियाक्त् , अविनिर्भागेन= दुःखसाहित्येन वर्तमानं सर्वमेव शरीरादिकं दुःखयोगाद् दुःखमित्युच्यते यथा मधुरसंयोगाद् मधुरमित्युच्यते तथा / उपसंहरति- सोयमिति, सोयं दुःखी सर्व दुःखयुक्तमिति पश्यन्= जानानः दुःखस्यानिष्टत्वाद् दुःखं जिहासुर्जन्मनि दुःखदर्शी संसाराद् निर्विद्यते निर्विणः सन् विरज्यते विरक्तः सन् मुच्यते= अपवर्गपदं लभते इत्यन्वयः / तथा च संसारे किंचितसुखे सत्यपि अपवर्गसाधनीभूतनिवेदस्य सिद्धयर्थं सर्वस्य दुःखमयत्वमुच्यते तथा च योगसूत्रम्" परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च दुःखमेव सर्व विवेकिनः” इति // 21 // ___अपवर्गलक्षणमवतारयति- यत्रेति, यत्र= यस्यामवस्थायामुक्तयोः फलहानोपादानयोर्दुःखस्य वा निष्ठा= पर्यवसानम्= अत्यन्तसमाप्तिर्भवति सोयम्= साऽवस्थाऽपवर्ग इत्युच्यते इत्यन्वयः। तदितितत्= तस्य- दुःखस्याऽत्यन्तविमोक्षः= अत्यन्तनिवृत्तिरेवाऽपवर्गपदार्थः, प्रलयेपि दुःखनिवृत्तिर्भवति तद्व्यावृत्त्यर्थमऽत्यन्तपदं प्रलयानन्तरं सर्गे पुनर्मुःखभोगस्याऽवश्यम्भावाद् न प्रलयेऽत्यन्तदुःखनिवृत्तिः संभवति. अपवर्गानन्तरं तु न दुःखभोगसंभवोस्तीत्यपवर्गे दुःखस्यात्यन्तनिवृत्तिः संभवति, दुःखनिवृत्तेरात्यन्तिकत्त्वं च पुनरनुत्पाद इतिसूत्रार्थः / ब्याचष्टे- तेनेति, तत्= तेन. दुःखेन= दुःखमयेन / जन्मनिवृत्त्या मरणनिवृत्तिरर्थादेव लब्धा / जन्मनोऽत्यन्तविमुक्तिप्रकारं जिज्ञासते- कथमिति / उत्तरमाहउपात्तस्येति, गृहीतस्य जन्मनस्तत्प्रयोजकीभूतकर्मक्षयेण हानम् = निवृत्तिर्भवत्येव तत्त्वज्ञानमाहात्म्यादन्यस्य जन्मनो ग्रहणं न भवतीतिरीत्या जन्मनोऽत्यन्तविमुक्तिर्भवतीत्यर्थः / अपवर्गावस्थाया अविनाशित्वमाह- एतामिति, एताम= जन्मनिवृत्तिलक्षणाम् / अपर्यन्ताम्= विनाशरहिताम् / अपवर्गस्वरूपमहत्त्वमाह- तदिति, अभयम्= पुनर्भयरहितम्, अमृत्युपदम्= मृत्युस्थानभिन्नं किं वा मृत्युरहितम् / तदेव वेदान्तिभिर्ब्रह्मत्युच्येते, तदेव दुःखनिवृत्त्या क्षेमप्राप्तिरित्युच्यते इत्यर्थः / परिहारार्थ वेदान्तमसमनुवदति- नित्यमिति, यथात्मनः स्वरूपभूतमपि महत्त्वम्= विभुत्वं संसारे नाभिव्यज्यते मोक्षावस्थायां पाभिव्यज्यते तथात्मनः स्वरूपभूतमेव नित्यं सुखं संसारे नाभिव्यज्यते मोक्षाबस्थायां चाभिव्यज्यते मोक्षावस्थायां तेम नित्यसुखेनाभिव्यक्तेन विमुक्तः सुखी भवति तथा च न दुःखनिवृत्तिमात्रमपवर्गः किं तु नित्यसुखप्राप्तिरपीति केचित्= वेदान्तिनो मन्यन्ते, सुखस्यात्मस्वरूपत्वे च " सत्यं विज्ञानमानन्दं ब्रह्म " इति श्रुतिः प्रमाणम् / परिहरति- तेषामिति, तेषां बेदान्तिनां सुखरूपमोक्षमतस्य प्रमाणाभावादेवानुपपत्तिः / प्रमाणाभावमाह- नेति, 'आत्मनो नित्यं सुखं महत्त्ववन्मोक्षेभिव्यज्यते ' इत्यत्र न प्रत्यक्षम्- इन्द्रियसंनिकर्षासंभवात्. नानुमानम्- लिङ्गाभावात्. नागमो वा प्रमाणं विद्यते इत्वप्रामाणिकमेव तन्मतमित्यर्थः / किं वा "तदभयम्" इत्यारभ्य पूर्वपक्षो विज्ञेयः, अत्र क्षेमप्राप्तिः सुखप्राप्तिरित्यर्थः / /