________________ 38 प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेप्रवृत्तिदोषजनितोऽर्थः फलम् // 20 // सुखदुःखसंवेदनं फलम्, सुखविपाकं कर्म दुःखविपाकं च, तत् पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतं तथा हि प्रवृत्तिदोषजनितोऽर्थः फलम् एतत्सर्वे भवति. तदेतत् फलम् उपात्तमुपात्तं हेयं. त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोनिष्ठा पर्यवसानं वास्ति, स खल्वयं फलस्य हानोपादानस्रोतसोह्यते लोक इति // 20 // अथैतदेव बाधनालक्षणं दुःखम् // 21 // बाधना= पीडा= ताप इति. तयाऽनुविद्धम्= अनुषक्तम्= अविनिर्भागेन वर्तमानं त्वात् / प्रेत्यपदार्थमाह- यदिति, प्राणभन्निकाये= शरीरे, पूर्वोपात्तान्= पूर्वगृहीतान् , तत् प्रैति= प्रेतीत्युच्यते, गृहीतदेहादीनां त्याग एव प्रेत्यपदार्थ इत्यर्थः / भावपदार्थमाह- यदिति, तत्र देशे अन्यत्र वा देशे लोके वेत्यर्थः / उपादत्ते= गृह्णाति, तद् भवति= संभवतीत्युच्यते, अन्यदेहादीनां ग्रहणमेव भावपदार्थ इत्यर्थः / पर्यवसितं प्रेत्यभावपदार्थमाह- मृत्वेति / उपसंहरति- सोयमिति, योयं जन्ममरणयोः प्रबन्धस्य= शृङ्खलायाः संबन्धस्य वाऽभ्यासः= पौनःपुन्यं सोऽनादिरपवर्गान्तः= अपवर्गपर्यन्तं वर्तमानः= अपवर्गनिवर्त्यः सोयं प्रेत्यभावो विज्ञेय इत्यन्वयः / " जातस्य हि ध्रुवं मृत्युर्बुवं जन्म मृतस्य च" इति भगवगीतमनुसंधेयम् // 19 // प्रमेयसूत्रपठितं फलं लक्षयति- प्रवृत्तीति, प्रवृत्या= धर्माधर्माभ्यां रागद्वेषादिदोषैश्च जनितःउत्पादितः अर्थः= सुखदुःखभोग एव फलपदार्थः, शरीरादिकमपि गौणं फलमेव- प्रवृत्तिजन्यत्वात् / यद्यपि फलस्य प्रवृत्तिजन्यत्वमेव तथापि रागद्वेषादिदोषैविना सुखादिभोगो न संभवतीतिहेतोरेव दोषाणामपि फलहेतुत्वमुक्तम् / अत्र " अत्र च 'प्रवृत्तिजनितः' इतिवक्तव्ये दोषग्रहणं न केवलं प्रवृत्ति प्रति दोषाणां हेतुभावोऽपि तु प्रवृत्तिकायें सुखदुःखे अपि प्रतीतिदर्शनार्थम्- दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतो नान्यथा " इतितात्पर्यटीका, इतिसूत्रार्थः / व्याचष्टे-सुखेति, सुखदुःखयोः संवेदनम्= भोग एव प्रधानं फलम् / फलकारणमाह-सुखविपाक• मिति, सुखविपाकम्= सुखजनकं पुण्यं दुःखविपाकम्= दुःखजनकं च पापं कर्म तत्पुनः= तच्च सुखदुःखसंवेदनं देहादीनां सत्त्वे एव संभवति नान्यथेति फलं देहादिभिः सहैवाभिप्रेतम् अर्थाद् यथा सुखदुःखभोगः फलं तथा देहादिकमपि फलमेव-धर्माधर्मजन्यत्वात् / तथाहि= एवं हि- सुखदुःखसंवेदनेन सह देहादेरपि फलत्वस्वीकारात्. " प्रवृत्तिदोषजनितोर्थः फलम् " इतिसूत्रेण यत्फलमुक्तं तद् एतत्सर्वम् देहादिकं सर्व धर्माधर्मजन्यं फलमिति सिद्धं भवतीत्यर्थः / सुखदुःखसंवेदनं च देहेन्द्रियविषयबुद्धिभिबिना न संभवतीति स्पष्टमेव / अत्र " शरीरादीन् धर्माधर्मावारभ्य सुखदुःखोपभोगे कुरुतः" इतिवार्तिकम् / तदेतत्= शरीरादिलक्षणं फलम् उपात्तमुपास्तं भोगावसानकाले मरणकाले च हेयम्= त्याज्यम्= त्यतं भवति, त्यक्त्यक्तम्= त्यक्तशरीरादिसदृशं त्यागानन्तरं वा शरीराद्यन्तरम् उपादेयम्= ग्राह्यम्= गृहीतं भवतीति अस्य फलस्य हानोपादानयोः= त्यागपरिग्रहयोः गृहीतफलत्यागस्य अगृहीतफलाहणस्य च निष्ठा= पर्यवसानं नास्ति विनापवर्ग. प्रलयेपि पर्यवसानं न भवति पुनरपि सर्गे फलहानोपादा नयोरवश्यम्भावात् , अत्र " निष्ठा समाप्तिः सा च प्रलयेप्यस्तीत्यत उक्तम्- पर्यवसानमिति अवसा नमात्रमस्ति न पुनः परितः- पुनरपि सर्गे हानोपादानयोर्भावादित्यर्थः" इति तात्पर्यटीका / उपसंहरति- स इति, सोयं लोकः= जगत् फलविषयकहानोपादानयोः स्रोतसा= प्रवाहेण= नैरन्तयेंण ऊह्मते- निर्वाह्यते= धार्यते इत्यन्वयः- फलोपभोगप्रवाहस्यैव संसारपदार्थत्वादित्यर्थः // 20 // __क्रमप्राप्तं दुःखलक्षणमवतारयति- अथेति, एतदेव= शरीरादिलक्षणं फलमेव बाधनालक्षणम्= पीडास्वरूपं सद् दुःखमित्युच्यते. तत्र वस्तुतो दुःखमात्मसमवेतमेव अथापि तादृशदुःखजनकत्वात् शरी