________________ प्रेत्यभावलक्षणम् ] न्यायभाष्यम् / ज्ञानं तत्र रागद्वेषाविति / प्रत्यात्मवेदनीया हीमे दोषाः कस्माल्लक्षणतो निर्दिश्यन्ते ? इति, कर्मलक्षणाः खलु रक्तद्विष्टमूढाः- रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते. तथा द्विष्टस्तथा मूढ इति, रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवतीति // 18 // पुनरुत्पत्तिः प्रेत्यभावः // 19 // उत्पन्नस्य कचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः, उत्पन्नस्य= संबदस्य, संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः, पुनरुत्पत्तिः= पुनर्देहादिभिः संबन्धः, पुनरित्यभ्यासाभिधानम् / यत् कचित् प्राणभृनिकाये वर्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् पैति. यत् तत्राऽन्यत्र वा देहादीनऽन्यान् उपादत्ते तद् भवति. प्रेत्यभावः= मृत्वा पुनर्जन्म, सोयं जन्ममरणप्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति // 19 // मिथ्याज्ञानेन रागद्वेषमोहा दोषा भवन्ति, मिथ्याज्ञानं चाविद्या सा च "अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या" इत्युक्ता / दोषनिरूपणकारणं जिज्ञासते-प्रत्याल्मेति, अप्रसिद्धस्य हि ज्ञानार्थ लक्षणापेक्षा भवति रागादयो दोषाश्च प्रत्यात्मवेदनीयाः= प्रत्यात्मप्रसिद्धाः= सकलजीवप्रसिद्धा इति नैषां लक्षणापेक्षेत्यर्थः / उत्तरमाह- कर्मेति, रक्तः= रागविशिष्टः, द्विष्टः= द्वेषविशिष्टः, मूढः= मोहविशिष्ट एते रक्तद्विष्टमूढाः कर्मलक्षणाः= क्रियाप्रधानाः= क्रियापरायणा भवन्ति / एतेषां कर्माह- रक्तो हीति, द्विष्टस्तथा तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते. मूढोपि तथा= तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते इत्यन्वयः / दोषाणां सर्वप्रसिद्धत्वेपि हेयत्वेन दोषा न झाता इति हेतोर्दोषा लक्षिता दोषाणां हेयत्वं च प्रवर्तकत्वाद् विज्ञेयम् अत एव रक्तादयः कर्मप्रधाना भवन्ति, कर्मणा हि संसारानुवृत्तिर्भवति अपवर्गप्राप्तिश्च न भवतीति तादृशकर्मकारणत्वाद् दोषा हेया इति हेयत्वज्ञापनार्थ प्रवर्तनालक्षणत्वमुक्तमित्यर्थः / अत्र "परिहारभाष्यम्-कर्मलक्षणा इति तस्यार्थः- स्वरूपतः स्फुटत्वेपि न निवेदविषयतया स्फुटता तया चेह प्रयोजनं प्रवर्तनावत्त्वेन चैते निवेदविषयाः सा च प्रवृत्त्या कार्येण लक्ष्यते इति कर्मलक्षणा इत्युक्तम्” इति तात्पर्यटीका। रागेति- यदि "प्रवर्तनालक्षणा दोषाः" इति नोच्येत किं तु 'रागद्वेषमोहा दोषाः' इत्युच्येत तदा प्रत्येक रागद्वेषमोहानां पुनः स्वरूपकथने बहुनोक्तम्= बहूक्तं भवति अधिकवक्तव्यत्वाद् गौरवं स्यादिति "प्रवर्तनालणा दोषाः" इत्युक्तं तथा च रागद्वेषमोहेषु प्रवर्तकत्वाद् दोषत्वं गृहीतं भवतीति प्रवर्तनालक्षणत्वं दोषत्वमिति लक्षणं सिद्धमित्यर्थः / अत्र "बहु नोक्तं भवतीति- स्वरूपमात्रं रागादीनामुक्तं भवति न तु प्रवर्तनावत्त्वमपि तेषामित्यर्थः " इति तात्पर्यटीका / किंवा बहूक्तं न भवतीत्यन्वयस्तथा च ' रागद्वेषमोहा दोषाः' इत्युक्ते दोषाणां नाममात्रमेवोक्तं स्यात् न तु लक्षणमपीति बहूक्तं न भवति. "प्रवर्तनालक्षणा दोषाः" इत्युक्ते तु दोषाणां लक्षणसिद्धया बहूक्तं जातमित्येवमुक्तमित्यर्थः // 18 // प्रेत्यभावं लक्षयति- पुनरिति, या पुनरुत्पत्तिः= मरणानन्तरं जन्म स प्रेत्यभावः, प्रेत्य= मृत्वा भावः= उत्पत्तिरिति सूत्रान्वयः / व्याचष्टे- उत्पन्नस्येति, कचित् कस्मिन्नपि सत्त्वनिकाये= शरीरेन्द्रियसंघाते उत्पन्नस्य जीवस्य मृत्वा मरणानन्तरं योत्पत्तिः सा पुनरुत्पत्तिः स एव प्रेत्यभाव इत्युच्यते / ननूत्पत्तिस्तु शरीरस्यैव संभवति नात्मनः- नित्यत्वात्. शरीरं च यदुत्पन्नं तदत्रैव भस्मीभूतं नष्टमिति न शरीरस्यापि पुनरुत्पत्तिरुपपद्यते इत्याशङ्कय उत्पन्नस्येतिपदं व्याचष्टे-संबद्धस्येति, तथा च कचित् सत्त्वनिकाये उत्पन्नस्य= संबद्धस्येत्यर्थः, आत्मनो नित्यत्वेनैवाऽनेकशरीरैः सह संबन्धस्तु नानुपपन्नः शरीरस्य तु पुनरुत्पत्तिोंच्यते / संबन्धिनमाह- संबन्ध इति, देहेन्द्रियादिभिरात्मनो यः पुनः संबन्धः स एव प्रेत्यभाव इत्यर्थः / बुद्धिरत्र ज्ञानम् , वेदना च फलभोगः / पर्यवसितमाह- पुनरिति / पुनरुत्पत्तिरित्यत्र पुनःपदेन अभ्यासस्य= पौनःपुन्यस्याभिधानम्= बोधनमस्ति-प्रेत्यभावस्यानादि