________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेअनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति / युगपञ्च खलु घाणादीनां गन्धादीनां च संनिकर्षेषु सत्सु युगपद् भानानि नोत्पद्यन्ते तेनानुमीयते- अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि यस्याऽसंनिधे!त्पद्यते ज्ञानं संनिधेश्वोत्पद्यते इति / मनःसंयोगानपेक्षस्य हीन्द्रियार्थसंनिकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानीति // 16 // क्रमप्राप्ता तु प्रवृत्तिर्वारबुद्धिशरीरारम्भ इति // 17 // मनोज बुद्धिरित्यभिप्रेतम्- बुध्यतेऽनेनेति बुद्धिः / सोयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः तदेतत्कृतभाष्यं द्वितीयसूत्रे इति // 17 // प्रवर्तनालक्षणा दोषाः // 18 // प्रवर्तना= प्रवृत्तिहेतुत्त्वम्. ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा, यत्र मिथ्याकारणान्तरमपि येनात्मेन्द्रियविषयाणां संयोगे सत्यपि युगपद् ज्ञानानि नोत्पद्यन्ते. यदेव कारणान्तरं तदेव मनः, मनश्वाणु तस्मान्मनसो युगपदनेकैरिन्द्रियैः सह संयोगो नोपपद्यते इति युगपदनेकानि ज्ञानान्यपि नोत्पद्यन्ते किं तु येनेन्द्रियेण मनस्संयोगो भवति तेनैकमेवैकदा ज्ञानं जायते, वत्र यदि मनोऽणु न स्यात्तदा युगपज्ज्ञानानुत्पत्तिर्नोपपद्यतेति अण्वेव मन इति सूत्रार्थः। . ____ व्याचष्टे- अनिन्द्रियेति, उक्ताः स्मृत्यादयः अनिन्द्रियनिमित्ताः= बाह्येन्द्रियकरणका न भवन्तिस्मर्यमाणेन बाह्येन्द्रियसंयोगासंभवात् किं तु करणान्तरनिमित्ताः= बाह्येन्द्रियातिरिक्तकरणजन्या भवन्ति- आत्मक्रियारूपत्वात् यदेवान्तरं स्मृत्यादीनां करणं तदेव मन इत्यर्थः / युगपत्= एकस्मिन् काले गन्धादीनाम्= गन्धादिभिः सह, सत्सु= सत्स्वपि, गन्धादिसंयुक्तेन्द्रियैश्वात्मसंनिकषेपि सति युगपद् भानानि गन्धादिज्ञानान्यनेकानि नोत्पद्यन्ते तेनानुमीयते / मनोऽनुमानप्रकारमाह- अस्तीति, तत्तदिन्द्रियसंयोगि= एकस्मिन् काले एकेन्द्रियसंयोगयोग्यम्- अणुत्वात् , निमित्तान्तरम्= करणान्तरम् , अव्यापि= अणु / यस्य= मनसः / असंनिधेः= इन्द्रियेणासंयोगाद् ज्ञानं नोत्पद्यते; संनिधेः= इन्द्रियेण संयोगाच्च ज्ञानमुत्पद्यते / विपक्षे बाधकमाह-मन इति, यद्यणुभूतस्य मनस इन्द्रियेण संयोगापेक्षा ज्ञानोत्पत्तौ न स्यात्तदा इन्द्रियाणां युगपत् स्वस्वविषयैः संयोगसंभवात् विषयसंयुक्तैरिन्द्रियैश्च विभोरात्मनोपि युगपत्संयोगसंभवात् युगपदनेकानि ज्ञानान्युत्पद्येरन् न चोत्पद्यन्ते तेनानुमीयतेऽस्ति मन इति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् / स्पष्टमन्यत् // 16 // ___ प्रवृत्तिलक्षणमवतारयति-क्रमेति, क्रमप्राप्ता= सूत्रोक्तपदार्थनिरूपणक्रमप्राप्ता प्रवृत्तिलक्ष्यते / प्रवृत्तिरिति- वाग्बुद्धिशरीराणामारम्भः= चेष्टा= क्रिया प्रवृत्तिरित्युच्यते, प्रवृत्तिश्च सा धर्माधर्मावितिसूत्रार्थः / व्याचष्टे- मन इति, सूत्रोक्तबुद्धिपदार्थों मनः-बुध्यते= ज्ञायतेऽननेतिव्युत्पत्त्या. ज्ञानसाधनं च मन एवेति ज्ञानसाधनभूता बुद्धिरत्र मन एव न तु ज्ञानम्- ज्ञानस्य व्यापारासंभवात् मनसश्च व्यापारसंभवात् , उपसंहरति- सोयमिति, आरम्भः= क्रिया, तदेतत्= शरीरादिक्रियाणां पुण्यरूपत्वं पापरूपत्वं प्रत्येकस्य दशविधत्वं च द्वितीयसूत्रभाष्ये " शरीरेण प्रवर्तमानः” इत्यादिना द्रष्टव्यम् / पुण्यपापशब्दयोरारम्भविशेषणत्वात् पुंस्त्वम् / / 17 // दोषलक्षणमाह- प्रवर्तनेति, प्रवर्तना= प्रवर्तकत्वमेव लक्षणं स्वरूपं येषां ते प्रवर्तनालक्षणा दोषा रागादय इतिसूत्रान्वयः / दोषाणां प्रवर्तकत्वं च द्वितीयसूत्रभाष्ये प्रतिपादितमेव / व्याचष्टे- प्रवर्तनेति, तथा च प्रवृत्तिहेतुत्वलक्षणा दोषा इत्यन्वयः, पुण्यपापकारणीभूता दोषा इत्यर्थः / दोषाणां प्रवर्तकत्वमाह- ज्ञातारमिति / दोषाणां कारणमाह- यत्रेति, यत्रात्मनि मिथ्याज्ञानं भवति तत्रैवात्मनि तेन