________________ मनोनिरूपणम्] न्यायभाष्यम्। ____35 देहेन्द्रियसंघातव्यतिरिक्त इति / प्रमेयलक्षणार्यस्य वाक्यस्याऽन्यायपकाशनमुपपत्तिसामर्थ्यादिति // 15 // स्मृत्यनुमानागमसंशयप्रतिभास्वप्मज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानितेषु सत्सु इयमपि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् // 16 // त्वरहितस्य चेतनस्यात्मन उपलब्धिरेवेत्यपि सांख्यरुत्तम्-" तस्माञ्च विपर्ययात् सिद्धं साक्षित्वमस्य पुरुषस्य. कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकर्तृभावश्च" इत्यादि तदेतद् युक्तिविरुद्धम्- बुद्धिज्ञानोपलब्धिशब्दानामेकार्थबोधकत्वात् तथा चात्मन उपलब्धिसंभवे बुद्धिज्ञाने अपि प्राप्ते एव- बुद्धिज्ञानोपलब्धीनां सामानाधिकरण्यदर्शनात् किं वैकार्थपरत्वात्. अचेतनाया बुद्धेश्च ज्ञानात्मको व्यापारो न संभवतीति युक्तिविरुद्धं सांख्यमतं प्रत्याचक्षाणकः= निराकुर्वन् इव इदम्= अग्रिमसूत्रमाह- बुद्धिरितीत्यन्वयः / बुद्धिरिति- अनर्थान्तरम्= अभिन्नार्थक बुद्धयादिपदत्रयमिति सूत्रान्वयः / व्याचष्टे- नेति, अचेतनापेक्षया चेतनस्य ज्ञानेनैव विशेष इत्यर्थः / तद्धीति- यदि बुद्धिर्ज्ञानविशिष्टा स्यात्तदा बुद्धिरेव चेतनम्= आत्मा स्यात् न चैवं संभवति बुद्धरात्मत्वपक्षे दशमसूत्रे दोषाणामुक्तत्वात् / किं चानेकाः खलु बुद्धयःअस्थायिस्वात्. एकश्चायं चेतन आत्मा देहेन्द्रियसमुदायव्यतिरिक्त इति बुद्धरात्मव्यतिरिक्तत्वादेव ज्ञानविशिष्टत्वं नोपपद्यते इत्यर्थः / बुद्धिशब्दस्यान्तःकरणपरत्वेनापि बुद्धरात्मभिन्नत्वं करणत्वं च प्राप्तम् / प्रमेयेति- प्रमेयस्य क्रमप्राप्ताया बुद्धेर्लक्षणार्थ निर्मितस्य वाक्यस्य= सूत्रस्याऽन्यार्थप्रकाशनम् सांख्यमतखण्डनपरत्वप्रकाशनम् उपपत्तिसामर्थ्यात् युक्तिसामर्थ्यात् स्वबुद्धिसामर्थ्यादेव विज्ञेयमित्यर्थः प्रतिभाति / अत्र " प्रमेयगणपठिताया अपि बुद्धेविषयत्वप्राप्तावपि विषयित्वमुपपत्त्या सिद्धमित्यर्थः” इतिश्रीगुरुचरणा:, " उपपन्तिसामर्थ्यात्= पर्यायशब्दाभिधानाद् बुद्धिवृत्तेर्निराकरणम् " इति च वार्तिकम् // 15 / / मनस्साधकसूत्रमवतारयति-स्मृतीति, स्मृतिर्हि आत्मन आन्तरज्ञानलक्षणा क्रिया सा चेन्द्रियलक्षणं करणं विना न संवति तस्मात् स्मृतेर्यदान्तरमिन्द्रियं करणं तदेव मनः / अनुमानस्थले व्याप्तिस्मृतिः / * साध्यस्मृतिश्च संमता सा च मनो विना नोपपद्यते इत्यनुमानमपि मनोलिङ्गम् / आगमः शब्दप्रमाणं शब्देन पदार्थे प्रमीयमाणे शक्तिग्रहस्मृत्यपेक्षा भवति सा च मनो विना नोपपद्यते इत्यागमोपि मनोलिङ्गम् / 'स्थाणुर्वा पुरुषो वा ' इत्यादिसंशयस्थले स्थाणुपुरुषयोः समानधर्माणां स्मृतिर्भवति तदनन्तरं संशयः स्मृतिश्च मनो विना नोपपद्यते इति संशयोपि मनोलिङ्गम् / प्रतिभा 'श्वो मे भ्राताऽऽगन्ता ' इत्या. दिरूपं प्रातिभं ज्ञानं तच्च स्वविषयस्य भ्रात्रादेः स्मृति विना नोपपद्यते स्मृतिश्च मनो विना नोपपद्यते इति प्रतिभापि मनोलिङ्गम् / स्वप्नज्ञानमपि दृश्यमानेनेन्द्रियसंनिकर्षाद्यभावात् स्मृतिरूपमेवेति मनो विना नोपपद्यते इति स्वप्रज्ञानमपि मनोलिङ्गम् / ऊहः= 'यद्यत्र वह्निर्न स्यात्तदा धूमोपि न स्यात्' इत्यादिरूपस्तर्कः स च वहिस्मृतिसापेक्षः स्मृतिश्च मनो विना नोपपद्यते इति ऊहोपि मनोलिङ्गम् / एषूदाहरणेषु स्मृतेरेव साक्षाद् मनस्साधकत्वं विज्ञेयं प्रपञ्चस्तु व्युत्पत्त्यर्थः / सुखादिप्रत्यक्षं ह्यात्मनो मनःकरणकमेव स्वकीयसुखादौ प्रमाणान्तरप्रसारासंभवादिति यदेव सुखप्रत्यक्षकरणं तदेव मनः / आदिपदात् दुःखादिकं ग्राह्यम् / इच्छादयोप्यात्मव्यापाराः सकरणका एव तत्र बाह्यस्य करणत्वासंभवाद् यदेवेच्छादिव्यापारकरणं तदेव मनः / मनःशब्दवाच्यमान्तरमिन्द्रियमस्ति तेन विना स्मृत्यादीनामनुपपत्तेः, किं वा स्मृत्यादयः सकरणका व्यापारत्वाद् बाह्यव्यापारवदू यदेव स्मृत्यादिकरणं तदेव मन इति स्मृत्यादीनि मनोलिङ्गानि / तेषु= स्मृत्यादिलक्षणलिङ्गेषु सत्स्वपि इयम्= सूत्रोक्ता युगपज्ज्ञानानुत्पत्तिरपि मनसो लिङ्गम्= साधिका भवतीत्यन्वयः / युगपदिति- स्वस्वविषय रूपरसादिभिरिन्द्रियाणां संयोगे सत्यपि तैश्चेन्द्रियैरात्मनो विभुत्वात् संयोगे सत्यपि रूपरसाधनेकविषयकाण्यऽनेकानि ज्ञानानि युगपद् नोत्पद्यन्ते तेन ज्ञायतेऽस्ति किंचित्