________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. आहिकेकानि पुनरिन्द्रियकारणानि ? ___ पृथिव्यापस्तेजो वायुराकाशमिति भूतानि // 13 // संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्य भविष्यीति // 13 // इमे तु खलु गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः // 14 // पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममाः= विषया इति // 14 // अचेतनस्य करणस्य बुद्धानं वृत्तिः चेतनस्याऽक रुपलब्धिरिति युक्तिविरुद्धमर्थ प्रत्याचक्षाणक इवेदमाह बुद्धिरुपलब्धिनिमित्यऽनर्थान्तरम् // 15 // नाऽचेतनस्य करणस्य बुद्धानं भवितुमर्हति. तद्धि चेतनं स्यात्, एकश्चार्य चेतनो विधया गन्धप्राहकवं प्राणलक्षणं सिद्धम् एक्मन्यत्रापि बोध्यमित्यर्थः / भूतेभ्य इति बहुवचनसार्थक्यमाह- भूतेभ्य इति, एषाम्- इन्द्रियाणां नामाप्रकृतीनाम्= भिन्नभिन्नभूतोत्पन्नानां सतामेव- मिन्नभिअभूतेभ्य उत्पन्नानामेव विषयनियमः- प्राणं गन्धमेव गृहातीत्यादिनियम उपपद्यते- पृथिव्युत्पन्नस्य घ्राणस्य पृथिवीगुणभूतगन्धमात्राहकत्वसंभवात्. तेजस उत्पन्नस्य चक्षुषस्तेजोगुणभूतरूपमात्रप्राहकत्वसंभवात्. नैकप्रकृतीनाम्= मैकभूतोत्पन्नानां विषयनियम उपपद्यते. यदि पञ्चापीन्द्रियाणि एकभूतो. त्पन्नानि स्युस्तदा स्वाऽप्रकृत्तिभूतस्थगुणग्राहकत्वे प्राप्त सर्वेषामिन्द्रियाणां गन्धादिसर्वगुणग्राहकत्वमापद्येत न चैवमस्ति- विषयनियमदर्शनादितीन्द्रियाणि नैकप्रकृतीनि किं तु स्वस्वभिन्नप्रकृतीनीति सिद्धमितिहेतोः “भूतेभ्यः" इत्युक्तम् तदनेन सांख्यादिमतं प्रत्याख्यातं वेदितव्यम् / उपसंहरतिसतीति, स्वविषयप्रहणलक्षणत्वम्= स्वविषयग्रहणलक्षणानीन्द्रियाणि इति यदुक्तं स्वक्षियग्राहकत्वं लक्षणं तत् सिद्धमित्यर्थः // 12 // इन्द्रियाणां कारणानि जिज्ञासते- कानाति / पूर्वसूत्रोक्तघ्राणादीनां यथासंख्यक्रमेण कारणान्याह-पृथिवीति, पृथिव्यादीनि पञ्च भूतानि प्राणादीनां क्रोण कारणानीत्यन्वयस्तत्र पृथिवी घ्राणस्य आपो रसनायास्तेजश्चक्षुषो वायुस्त्वच आकाशं श्रोत्रस्य कारणमिति सूत्रार्थः / व्याचष्टेसंज्ञेति, पूर्वसूत्रे " भूतेभ्यः” इस्यमेनेन्द्रियाणां सामान्यतो भूतकार्यत्वमुक्त्वा पुनरत्र योयं भूतानां पृथिव्यादिसंज्ञाशब्दैः पृथगुपदेशः सोऽनेन सूत्रेण विभक्तानां भूतानामिन्द्रियलक्षणं कार्य सुवचम्= सम्यगुक्तं भविष्यतीत्येतदर्थ एव यथा-पृथिव्याः कार्य घ्राणमित्यादि, "भूतेभ्यः" इतिसामान्यवचनेन कस्य भूतस्य किमिन्द्रिय कार्यमिति विशेषज्ञानं न संभवतीत्यर्थः // 13 // ____ अग्रिमसूत्रमवतारयति- इमे इति, इमे गन्धादयः पृथिव्यादिगुणास्तदर्थाः= यथासंख्यं घ्राणादीनामर्थाः= विषयाः- प्राणादीन्द्रियग्राह्यत्वादिति सूत्रार्थः / व्याचष्टे- पृथिव्यादीनामिति, पृथिव्यादीनां यथाविनियोगम्= यथासंभवम्= यथासंख्यं गन्धादयो गुणास्ते एवेन्द्रियाणां यथाक्रमम्= यथासंख्यम् अर्थाः= विषया यथा ब्राणस्य गन्धो रसनाया रस इति / द्रव्येषु पृथिव्यप्तेजसां चक्षुर्माह्यत्वं स्वग्ग्राह्यत्वं च वायोश्च त्वग्ग्राह्यत्वमिति विज्ञेयम् / पृथिव्यादिगुणा इत्यत्र पृथिव्यादयश्च गुणाश्चेति द्वन्द्वसमासपक्षे पृथिव्यादीनामपि प्राणादिग्राह्यत्वं प्रसज्येति दोषोऽनुसंधेयः। विशेषस्तु वर्तिके द्रष्टव्यः / अत्र " इमे तु खलु " इतिभाष्यं सूत्रानन्तरमेव युक्तम् // 14 // अनिमसूत्रमबसारयति- अचेतनस्येति, बुद्धेनिश्चयक्रियायां करणत्वम् , अचेतमाया बुद्धर्वृत्तिः= व्यापारो ज्ञानमिति सांख्यैरुक्तम्-" अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम् " इत्यादिना, कर्तृ