________________ इन्द्रियनिरूपणम्] न्यायभाष्यम् / भोगसाधनानि पुनः घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः // 12 // जिघ्रत्यनेनेति घ्राणम्. गन्धं गृह्णातीति / रसयत्यनेनेति रसनम्. रसं गृह्णातीति / चष्टेऽननेति चक्षुः. रूपं पश्यतीति / त्वस्थानमिन्द्रियं त्वक् तदुपचारः स्थानादिति / शृणोत्यनेनेति श्रोत्रम्. शब्दं गृह्णातीति / एवं समाख्यानिर्वचनसामर्थ्याद् बोध्यम्- स्वविषयग्रहणलक्षणानीन्द्रियाणीति / भूतेभ्य इति- नानाप्रकृतीनामेषां सतां विषयनियमो नैकप्रकृतीनाम्. सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति // 12 // गन्धादीनां भोगाधिष्ठानत्वसंबन्धेन शरीरवृत्तित्वं विज्ञेयमिति सूत्रान्वयः / शरीरस्य चेष्टाश्रयत्वं जिज्ञासते- कथमिति / उत्तरमाह- ईप्सितमिति, पदार्थमधिकृत्य= उपलभ्य= ज्ञात्वा उद्दिश्य वा तादृशपदार्थस्येप्साजिहासाभ्यां प्रयुक्तस्य प्रेरितस्यात्मनः तदुपायानुष्ठानलक्षणा= पदार्थप्राप्तिपरित्यागोपायानुष्ठानस्वरूपा समीहाशब्दवाच्या चेष्टा प्रवृत्तिः सा चेष्टात्मनो यत्र वर्तते= प्रवर्तते तच्छरीरमिति चेष्टाश्रयः शरीरमिति सिद्धम्- शरीरे एव स्थितस्यात्मनो चेष्टासंभवात् / इन्द्रियाश्रयत्वं जिज्ञासते- कथमिति, इन्द्रियाणामाश्रयः स्थूलं शरीरं नेति सिद्धान्तेन जिज्ञासा / उत्तरमाह- यस्येति, यस्य= शरीरस्य, स्वविषयेषु= रूपादिपु. ज्ञेयानां साधुत्वं यथा भगवत्प्रतिमारूपस्य. अज्ञेयानामसाधुत्वं यथा ह्यगम्यास्तनादिरूपस्य, वर्तन्ते- प्रवर्तन्ते इन्द्रियाणि, एषामिन्द्रियाणाम् , शरीरोपकारादिनैवेन्द्रियाणामुपकारादिकं संभवतीति स्वोपकारादिनोपकारकत्वादिनैव शरीरस्येन्द्रियाश्रयत्वमित्याशयः, तथा च वार्तिकम्- " शरीरानुविधानमिन्द्रियाश्रयत्वं ब्रूमो न पुनराधाराधेयभावेनेन्द्रियाणि शरीरे वर्तन्ते इति" इति / शरीरस्यार्थाश्रयत्वं जिज्ञासते कथमर्थेति, भोग्या गन्धादयः पुष्पादिनिष्ठास्तजन्याः सुखादयश्चात्मनिष्ठा भवन्ति न शरीरस्था इत्याशङ्कया जिज्ञासा। उत्तरमाह- यस्मिन्निति, यस्मिन् आयतने= शरीरलक्षणस्थाने स्थितस्यात्मन इन्द्रियार्थसंनिकर्षादुत्पन्नयोरर्थपदवाच्ययोः 'सुखदुःखयोः प्रतिसंवेदनम्= प्रत्येकज्ञानेन स्मरणेन वा भोगेन वाऽयमात्मा प्रवर्तते इतिहेतोरेव तस्य शरीरस्यार्थाश्रयत्वं किं वा शरीरे स्थित्वैव सुखोद्यर्थभोगसंभवात् शरीरस्यार्थाश्रयत्वमुच्यते न त्वाधारत्वेनेत्यर्थः, अत्र वार्तिकम्- " न हि गन्धादयोऽर्थाः शरीरवृत्तयः यत्तु तेषां कार्य सुखदुःखोपलब्धिनिमित्तत्वं तन्नाऽसति शरीरे भवतीति शरीराश्रया उच्यन्ते " इति / तदत्रार्थशब्देन विषयो वा तज्जन्यभोगो वा ग्राह्यः, यः सः उक्तप्रवृत्त्याश्रयः, एषाम्= अर्थानाम् // 11 // इन्द्रियलक्षणमवतारयति- भोगेति, भोगसाधनानि=सुखादिभोगकरणानि यानि तानीन्द्रियाणीत्यर्थः। घाणेति-प्राणादीनि पञ्च इन्द्रियाणि= ज्ञानेन्द्रियाणि तानि च यथासंख्यं भूतेभ्यः पृथिव्यादिमहाभूतानां कार्याणीति सूत्रान्वयः / ब्राणशब्दव्युत्पत्तिमाह-जिघ्रतीति, अत्र जिघ्रत्यादिक्रियाणां कर्ता त्वात्मा विज्ञेयः / वाणग्राह्यमाह-गन्धमिति / रसनशब्दव्युत्पत्तिमाह-रसयतीति / रसनेन्द्रियग्राह्यमाहरसमिति / चक्षुःशब्दव्युत्पत्तिमाह- चष्टे इति, चष्टे= पश्यति / चक्षुह्यमाह- रूपमिति, रूपविशिष्टं द्रव्यमपि चक्षुह्यमेव / त्वक्शब्दव्युत्पत्तिमाह- त्वगिति, त्वक्स्थानम्= त्वचि स्थितम् , स्थानात्= स्थित्या. त्वचि स्थित्या त्वक्शब्दस्य त्वगिन्द्रिये उपचारः= लक्षणा यथा द्रविडे स्थितो द्रविड इत्युच्यते तथा त्वचि स्थित्या त्वगित्युच्यते इन्द्रियविशेषः. ग्राह्यं चास्य स्पर्शः स्पर्शविशिष्टं द्रव्यं च / श्रोत्रशब्दव्युत्पत्तिमाह- शृणोतीति / श्रोत्रग्राह्यमाह- शब्दमिति / उपसंहरति- एवमिति, एवम्= उक्तरीत्या घ्राणादिसमाख्यायाः ‘जिघ्रत्यनेनेति घ्राणम् ' इत्यादिनिर्वचनसामर्थ्यात्= व्युत्पत्तिसामर्थ्यादेव स्वविषयग्रहणलक्षणानि= स्वविषयग्रहणमेव लक्षणं स्वरूपं येषां तानि किं वा स्वविषयग्राहकाणि इन्द्रियाणीति बोध्यम्- जिव्रत्यनेनेतिव्युत्पत्तिः धातुश्चात्र 'घ्रा गन्धोपादाने ' इति तथाच व्युत्पत्तिसामर्थ्यादेव करण.