________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेज्यते- यथाऽनात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसंधीयन्ते तथैकदेहविषया अपि न प्रतिसंधीयेरन्- अविशेषात् / सोयमेकसत्त्वस्य समाचार:- स्वयं दृष्टस्य स्मरणं नान्यदृष्टस्य नादृष्टस्येति, एवं खलु नानासत्त्वानां समाचार:- अन्यदृष्टमन्यो न स्मरतीति, तदेतदुभयमशक्यमऽनात्मवादिना व्यवस्थापयितुमिति / एवमुपमन्नम्- अस्त्यात्मेति // 10 // तस्य भोगाधिष्ठानम् चेष्टेन्द्रियार्थाश्रयः शरीरम् // 11 // कथं चेष्टाश्रयः 1, ईप्सितं जिहासितं वाऽर्थमधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा सा यत्र प्रवर्तते तच्छरीरम् / कथमिन्द्रियाश्रयः ?, यस्यानुग्रहेणानुगृहीतानि उपघाते चोपहतानि स्वविषयेषु साध्वऽसाधुषु वर्तन्ते स एषामाश्रयः तच्छरीरम् / कथमर्थाश्रयः ?, यस्मिन्नाऽऽयतने इन्द्रियार्थसंनिकर्षादुत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषामाश्रयस्तच्छरीरम् // 11 // नित्य आत्मा स्वीकार्य इति ज्ञानमपि नित्यस्यात्मनो लिङ्गं सिद्धम् / पूर्वोक्त एव दर्शनप्रतिसंधानादिति हेतुः अर्थात् दृश्यमानसजातीयजन्यपूर्वसुखाद्यनुभवस्य स्मरणादेव बुभुत्सा जायते तादृशस्मरणं च नित्यात्मानं विना नोपपद्यते इतिप्रणाड्या बुभुत्सानन्तरं जायमानं ज्ञानं नित्यात्मलिङ्गं संभवति नान्यथेत्यनुसंधेयम् / तत्रेति- तत्र= एवमुपपादिते सति देहान्तरवदिति दृष्टान्तभागो विभज्यते= पृथग् व्याख्यायते- यथेत्यादिना, अनात्मवादिनः- अनित्यात्मवादिनो बौद्धस्य मते= अनित्यात्मपक्षे यथा देहान्तरेषु= देहान्तरगता नियतविषया बुद्धिभेदाः बुद्धिव्यक्तयो देहान्तरगतबुद्धिव्यक्तिभिर्न प्रतिसंधीयन्ते= न स्मर्यन्ते चैत्रज्ञानस्य मैत्रस्य स्मरणादर्शनात् तत्कस्य हेतोः दर्शनस्मरणकोंभेदादित्येव वक्तव्यं तथैकदेहविषयाः= एकदेहगता अपि बुद्धिभेदा एकदेहगतैरपि बुद्धिभेदैः न प्रतिसंधीयेरन्= न स्मत योग्या:- बुद्धिव्यक्तीनां क्षणिकत्वेन परस्परं भेदात् , अविशेषात्= बौद्धमते यथा देहान्तरगतेभ्यो बुद्धिभेदेभ्यो देहान्तरगतबुद्धिभेदानां भेदस्तथा बुद्धिभेदानां क्षणिकत्वेनैकदेहगतानामपि बुद्धिभेदानां भेद एवेत्यर्थः / वस्तुतस्तु " प्रतिसंधीयन्ते " इति कर्मणि प्रत्ययो न युक्तः किं तु 'प्रतिसंदधति' इतिकर्तृप्रत्ययेन प्रयोक्तव्यं तथा च यथा देहभेदे सति बुद्धिभेदानां स्मरणकर्तृत्वं नोपपद्यते तथा देहभेदाभावेपि बुद्धिभेदानां स्मरणकर्तृत्वं नोपपद्यते क्षणिकत्वेन परस्परं भेदात् अन्यदृष्टस्य चान्येन स्मरणासंभवाद् अन्यथा चैत्रदृष्टस्य मैत्रेणापि स्मरणं स्याद् न चैवमस्तीत्याशयः / चैत्रादेः पूर्वदृष्टस्य स्मरणं प्रसिद्धमेव तेनोक्तरीत्याऽऽत्मनः स्थिरत्वं सिद्धम् / उपसंहरति- सोयमिति, सोयमेकसत्त्वस्य एकस्य जीवस्य समाचारः= वृत्तान्त उपपादितो यथा- स्वयं दृष्टस्यैव स्मरणं भवति नाऽदृष्टस्य नाप्यन्यदृष्टस्येति / उक्तं सर्वजीवेष्वतिदिशति- एवमिति, अदृष्टमन्यदृष्टं च न कोपि स्मर्तुं शक्नोतीत्यर्थः / अनित्यात्मवादे दोषमाह- तदेतदिति, एतदुभयम्= अदृष्टस्य स्मरणाभावोऽन्यदृष्टस्य च स्मरणाभावोऽनास्मवादिना= अनित्यात्मवादिना व्यवस्थापयितुम् उपपादयितुमशक्य एव- यतो बौद्धमते क्षणिकानां बुद्धीनामेवात्मत्वं तेन च स्मर्तृत्वं वक्तव्यं तथा चान्यबुद्धिव्यक्तिदृष्टमेवान्यबुद्धिव्यक्त्या स्मर्तव्यं स्वाहष्टमेव च स्मर्तव्यमिति स्वादृष्टस्यान्यदृष्टस्य च स्मरणाभावो नोपपद्यते, नित्यात्मपक्षे तु आत्मनो नित्यत्वेन स्थायित्वात् स्मर्तव्यस्य पूर्व दर्शनं दृष्टस्य चानन्तरं स्मरणमुपपद्यते इति स्वादृष्टान्यदृष्टयोः स्मरणाभाव उपपादयितुं शक्यते / पर्यवसितमाह- एवमिति, एवम्= उक्तरीत्या इच्छादिलिमौनित्य आत्मा देहादिव्यतिरिक्तोस्तीत्युपपन्नम् सिद्धम् // 10 // . .. आत्मनिरूपणानन्तरं शरीरलक्षणमवतारयति- तस्येति, तस्य= उक्तस्यात्मनो भोगाधिष्ठानम्= भोगस्थानं शरीरम्- शरीरे एव भोगसंभवादित्येवं सूत्रेणान्वयः / चेष्टेति- चेष्टायाः= प्रवृत्तेरिन्द्रियाणामर्थानाम-सुखदुःखादिभोगानां च य आश्रयस्तच्छरीरम् , अर्थपदेन गन्धादिग्रहणे तु भोग्यानां