________________ आत्मानुमानम् ] न्यायभाष्यम्। दर्शनप्रतिसंधानाद् दुःखहेतौ द्वेषः / यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थं पश्यन् आदातुं प्रयतते सोयं प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसंधातारमन्तरेण न स्यात्-नियतविपये बुद्धिमात्रे न संभवति देहान्तरवदिति, एतेन दुःखहेतौ प्रयत्नो व्याख्यातः / सुखदुःखस्मृत्या चायं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते सुखदुःखे वेदयते पूर्वोक्त एव हेतुः / बुभुत्समानः खल्वयं विमृशति-किं स्विदिति. विमृशंश्च जानीते- इदमिति. तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मलिङ्गं पूर्वोक्त एव हेतुरिति / तत्र देहान्तरवदिति विभलक्षणलिनेन शरीराद्यतिरिक्त आत्मा सिद्ध इत्यर्थः / विपक्षे बाधकमाह-नियतेति, बौद्धमते अहमालयज्ञानलक्षणो बुद्धिभेदः= बुद्धिविशेष एवात्मेति बुद्धिभेदमात्रे= बुद्धिविशेषमात्रमात्मेतिपक्षे उत्तेच्छा न संभवति यतो बुद्धिर्हि नियतविषया भवति यथा या बुद्धिर्घटविषया भवति सा पटविषया न भवति तथा च बुद्धेरनेकार्थग्राहकत्वाभावात् क्षणिकत्वाच्च अन्यबुद्धिव्यक्तिदृष्टस्याऽन्यबुद्धिव्यक्त्या स्मर्तुमशक्यत्वाच्च पूर्वदृष्टस्मरणं विनेच्छाया असंभवादनित्यात्ममते इच्छा नोपपद्यते, देहान्तरवदिति- यथा देहान्तरेण चैत्रेण दृष्टं मैत्रेण स्मर्तुं न शक्यते. तत्कस्य हेतोः ? द्रष्टुभेदादित्येव वक्तव्यं तथा चाऽनित्याया बुद्धेरात्मत्वपक्षेप्यन्यया बुद्धया दृष्टस्यान्यया बुद्धया स्मरणं नोपपद्यते स्मरणं विना चेच्छापि नोपपद्यते, नित्यात्मपक्षे विच्छोपपत्तिः प्रदर्शितैवेत्यर्थः / एवमग्रेपि व्याख्येयम् / आत्मनो द्वेषलक्षणलिङ्गमाह- एवमिति, एवम् = पूर्ववदेव एकस्याऽनेकार्थदर्शिनो नित्यस्यात्मनो यज्जातीयेन शवादिनेन्द्रियसंनिकर्षाद् दुःखं प्राप्तं तज्जातीयं पश्यतो दर्शनप्रतिसंधानात्= तत्पदार्थजन्यपूर्वदुःखानुभवस्य स्मरणात् तादृशदुःखहेतौ द्वेषो जायते स च द्वेषोऽनित्यात्मपक्षे न संगच्छते- अन्येन दृष्टस्यानेन स्मरणासंभवाद् नित्यात्मपक्षे च संगच्छते नित्यस्य तस्यात्मनस्तदर्शनस्मरणयोः कर्तृत्वसंभवादिति द्वेषोपि नित्यात्मलिममिति सिद्धम् / नित्यात्मसाधकं प्रयत्नलक्षणलिङ्गमाह- यज्जातीय इति, अस्य= आत्मनो यज्जातीयोऽर्थः= धनादिपदार्थः सुखहेतुः प्रसिद्धस्तज्जातीयं धनादिपदार्थ पश्यन् अयमात्मा तमादातुं प्रयतते स चायं प्रयत्नः पूर्ववदेव एकमनेकार्थदर्शिनं नित्यात्मानं दर्शनप्रतिसंधातारम्= तज्जातीयपदार्थजन्यपूर्वसुखानुभवस्य स्मर्तारं विना नोपपद्यते तेनायं प्रयत्नोपि पूर्ववद् नित्यस्यात्मनो लिङ्गमिति सिद्धम् / विपक्षे बाधकमाह- नियतेति, यदि नियतविषया चानित्या बुद्धिरेवात्मा स्यात् तदाऽन्यबुद्धिव्यत्त्या दृष्टस्यान्यबुद्धिव्यक्त्या स्मर्तुमशक्यत्वात् सुखजनकपदार्थप्राप्तिविषयकः प्रयत्नो न संगच्छतेस्मरणं विना प्रयत्नस्याऽसंभवात्, देहान्तरवदिति- यथा देहान्तरदृष्टं देहान्तरेण स्मर्तु न शक्यते तथैवानित्यात्मपक्षेपि पूर्वदृष्टस्मरणानुपपत्तिर्विज्ञेयेत्यर्थः / उक्तमन्यत्रातिदिशति- एतेनेति, सुखजनकपदार्थादानविषयकप्रयत्नवद् दुःखजनकपदार्थहानविषयकोपि प्रयत्नो नित्यात्मनो लिङ्गं विज्ञेयं पूर्ववदेवानित्यात्मपक्षे तदसंभवादित्यर्थः / सुखदुःखयोनित्यात्मलिङ्गत्वमाह- सुखदुःखस्मृत्येति, पूर्व येन पदार्थेन सुखमनुभूतं तज्जातीयपदाथै पश्यन् तज्जातीयपदार्थेन पूर्वजातं सुखं स्मरन् तत्साधनम् तादृशसुखसाधनमाददानः= गृहीत्वा सुखमुपलभते दुःखसाधनमाददानश्च दुःखमुपलभते अर्थात् सुखदुःखे वेदयते= अनुभवति अत्र पूर्वोक्त एव दर्शनप्रतिसंधानादितिहेतुर्विज्ञेयः अर्थात् सुखादिजनकपदार्थस्य ग्रहणं परित्यागो वा तादृशपदार्थजन्यपूर्वसुखदुःखानुभवस्य स्मरणं विना नोपपद्यते तादृशस्मरणं च नित्यात्मपक्षे घटते नाऽनित्यात्मपक्षेपि- अन्यदृष्टस्यान्येन स्मर्तुमशक्यत्वादिति एवं प्रणाड्या सुखदुःखेअपि नित्यात्मनो लिङ्गे भवत इत्यर्थः / ज्ञानस्य नित्यात्मलिङ्गत्वमाह-बुभुत्समान इति, बुभुत्समानः= जिज्ञासमानोयमात्मा विमृशति= विचारयति- किमिदमिति, विमृशन्= विचारयन् तर्केण जानीते= निश्चिनोति- इदमिति / उपसंहरति- तदिदमिति, इदं निश्चयात्मकं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकम्= एककर्तृकं गृह्यमाणं नित्यात्मनो लिङ्गं भवति. अर्थात् यस्यैव बुभुत्सा जायते तस्यैव विमशस्तस्यैव च ज्ञानं तत्र बौद्धमते बुद्धेरनेकक्षणस्थायित्वाभावादेकाया बुद्धेर्बुभुत्सादित्रयं न संभवतीति