________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेइति। अस्त्यन्यदपि- द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयं तद् भेदेन चाऽपरिसंख्येयम् / अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात् संसार इत्यत एतदुपदिष्टं विशेषेणेति // 9 // तत्रात्मा तावत् प्रत्यक्षतो न गृह्यते स किमाप्तोपदेशमात्रादेव प्रतिपद्यते इति ?, नेत्युच्यतेअनुमानाच्च प्रतिपत्तव्य इति / कथम् ? इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति // 10 // यज्जातीयस्यार्थस्य संनिकर्षात् सुखमाऽऽत्मा उपलब्धवान् तज्जातीयमेवार्थ पश्यन् उपादातुमिच्छति सेयमुपादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनपतिसंधानाद् भवन्ती लिङ्गमात्मनः-नियतविषये हि बुद्धिभेदमात्रे न संभवति देहान्तरवदिति / एवमेकस्याऽनेकार्थदर्शिनो थनेन सुखस्याऽसत्त्वं सूच्यते ? इत्याशङ्कयाह- दुःखमिति, दुःखमात्रं यदुक्तं सूत्रकृता तेनाऽनुकूलवेदनीयस्य सुखस्य या प्रतीतिस्तस्याः प्रत्याख्यानं न क्रियते / किं तर्हि दुःखमात्रवचनस्य तात्पर्यमिति जिज्ञासते- किमिति / उत्तरमाह- जन्मन इति, जन्मारभ्यैवेदम्= दुःखं बाहुल्येनोपलभ्यते इति हेतोर्दुःखमात्रमुक्तमित्यर्थस्तदुक्तम्- “दुःखमेव सर्व विवेकिनः" इति / स्वाभिप्रायमाह- ससुखेति, सुखसाधनविशिष्टस्यापि जीवस्य दुःखानुषङ्गात्= दुःखेनाऽविप्रयोगात्= दुःखस्यावश्यम्भावात्= विविधपीडायोगादिदं सर्व दुःखम्= दुःखस्वरूपं विज्ञेयमितिसमाधिभावनं संसारनिवृत्त्यर्थमुपदिश्यते यतः समाहितः= समाधिविशिष्टः= आत्मनिष्ठः सन् भावयति= संसारं दुःखरूपं निश्चिनोति. भावयन्= सर्व दुःखमयमितिनिश्चयविशिष्टः सन् निर्विद्यते= संसारात् पराङ्मुखो भवति. निर्विण्णस्य च वैराग्यं जायते विरक्तस्य तादृशवैराग्येण चापवर्गः संभवतीत्यपवर्गसाधनानुष्ठाने प्रवृत्तिसिध्यर्थमेव दुःखमात्रमुक्तमित्यर्थः / अपवर्गस्वरूपमाह- जन्मेति / द्रव्यादिकमन्यदपि प्रमेयमस्ति तच्च भेदेन= अवान्तरभेदैश्चाऽपरिसंख्येयमस्ति अथापि द्रव्यादिप्रमेयाणां ज्ञानेनापवर्गों न संभवतीति नात्र तदुक्तम्- अपवर्गसाधकज्ञानविषयाणामेव प्रमेयाणामत्र वक्तव्यत्वादित्याह- अस्त्यन्यदपीति / उक्तात्मादिप्रमेयाणामुपदेशस्य प्रयोजनमाह- अस्येति, अस्य= उक्तात्मादिप्रमेयजातस्य तत्त्वज्ञानात्= यथार्थज्ञानादपवर्गः संभवति मिथ्याज्ञानात् अयथार्थज्ञानाच्च संसारोऽनुवर्तते इत्यतः= इतिहेतोरेतत्= उक्तात्मादिप्रमेयजातं विशेषणोपदिष्टमित्यन्वयः // 9 // ननु त्वदभिमत आत्मा प्रत्यक्षेण ग्रहीतुं न शक्यते- इन्द्रियसंनिकर्षायोग्यत्वादिति सः= आत्मा किमाप्तोपदेशमात्रगम्य इत्याशङ्कते-तत्रेति / तत्र= उक्तप्रमेयेषु मध्ये / उत्तरमाह-नेति, नाप्तोपदेशमात्रगम्यः किं त्वनुमानगम्योप्यस्तीत्यर्थः / आत्मनोऽनुमानगम्यत्वप्रकारं जिज्ञासते- कथमिति / अनुमेयस्यात्मनोनुमितिलिङ्गान्याह- इच्छेति, सूत्रोक्ता इच्छादयः षट् पदार्था लिङ्गम्= आत्मानुमापकलिङ्गभूता इत्यन्वयः, यथा इच्छादयः शरीरादिषु नोपपद्यन्ते मृतेष्वनुपलम्भात्. न वा मनस्युपपद्यन्तेगुणभूतानामिच्छादीनामुत्पत्तौ मनसः करणत्वादिति पारिशेष्येण यत्रेच्छादयः समवायेनोत्पद्यन्ते स आत्मेति, आत्मा शरीराद्यतिरिक्तः इच्छादिमत्त्वाद् यन्नैवं तन्नैवमिति सूत्रार्थः / व्याचष्टे- यदिति, यजातीयस्य= यादृशमधुरादिपदार्थस्येन्द्रियसंनिकर्षादात्मा सुखमुपलब्धवान् तज्जातीयमेव मधुरादिपदार्थ पश्यन् तम् उपादातुम्= ग्रहीतुमिच्छति सेयमुपादानेच्छा अनेकार्थदर्शिनः= पूर्वापरमधुरादिपदार्थदर्शिन एकस्य दर्शनप्रतिसंधानात्= तत्पदार्थजन्यपूर्वसुखज्ञानस्य स्मरणात् संभवन्ती आत्मनः= आत्मानुमाने लिङ्गं भवति यद् येन हि दृश्यते तेनैव तत् कालान्तरे स्मर्तु शक्यते नान्येन तथा चात्मनो नित्यत्वे पूर्वजन्मनि स्तन्यपानेनात्मना सुखमुपलब्धमिति जन्मान्तरे तत्स्मरणात् स्तन्यपानादाविच्छा संभवति नाऽनित्यात्मपक्षे- एतच्छरीरादिना पूर्वजन्मनि स्तन्यपानजन्यसुखानुपलम्भेनैतजन्मनि तत्स्मरणासंभवात्. भवति च स्तन्यपानादाविच्छेति तदुपपत्त्यर्थ नित्य आत्माऽनेकशरीरग्राही स्वीकार्य इतीच्छा