________________ 2.9 प्रमेयविभागः] न्यायभाष्यम्। किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति ? तदुच्यते आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभाव फलदुःखापवर्गास्तु प्रमेयम् // 9 // तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः= सर्वानुभवी, तस्य भोगायतनं शरीरम्, भोगसाधनानि इन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, भोगो बुद्धिः / सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमऽन्तःकरणं मनः शरीरेन्द्रियार्थबुद्धिसुखवेदनानां निर्वृत्तिकारणं प्रवृत्तिदोषाश्च / नास्येदं शरीरमपूर्वमनुत्तरं च. पूर्वशरीराणामादिर्नास्ति उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः / ससाधनसुखदुःखोपभोगः फलम्, दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम् , कि तर्हि ?, जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात् दुःखेनाविप्रयोगात् विविधबाधनायोगाद् दुःखमिति समाधिभावनमुपदिश्यते. समाहितो भावयति भावयन् निर्विद्यते निर्विष्णस्य वैराग्यं विरक्तस्याऽपवर्ग इति, जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् अपवर्ग ___ उक्तप्रमाणानां साफल्यार्थ प्रमेयजातं प्रमातव्यं जिज्ञासते- किमिति / " मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात् " इत्युक्तदिशा मेयसिद्धेर्मानाधीनत्वात् प्रथमं प्रमाणजातं निरूप्य प्रमेयनिरूपणमारभते- तदिति, तत्= प्रमाणैः प्रमेयम् / आत्मेति- आत्माद्यपवर्गान्तं द्वादशपदार्थानां वृन्दमत्र प्रमेयम्- एतावन्मात्रप्रमेयज्ञानस्यैवापवर्गप्रयोजकत्वाद् एतदतिरिक्तप्रमेयाणां सत्त्वेपि तद्विज्ञानस्यापवर्गप्रयोजकत्वाभावान्न तदत्रोक्तमिति सूत्रार्थः / व्याचष्टे- तत्रेति, यः पर्यायेण यथासंभवं च सर्वस्य द्रष्टा भोक्तानुभवी च स आत्मा, इन्द्रियेषु मनसि चैतल्लक्षणं नोपपद्यते- तेषां रूपादिसुखादिज्ञानेषु यथायथं करणत्वात् क्रियाणां सकरणकत्वनियमात् करणानां च सकर्तृकत्वनियमात् ज्ञानादिक्रियाणां यः कर्ता स आत्मेति सिद्ध आत्मा / शरीरलक्षणमाह- तस्येति, तस्य= आत्मनो यद् भोगायतनम् = भोगस्थानं साक्षात् तत् शरीरं प्रसिद्धमेव / इन्द्रियलक्षणमाह- भोगेति, तस्यात्मनो यानि भोगसाधनानि= भोगक्रियाकरणानि तानीन्द्रियाणि चक्षुरादीनि पञ्च. कर्मेन्द्रियाणां बाह्यक्रियाकरणत्वम् / अर्थलक्षणमाह- भोक्तव्या इति, ये भोक्तव्यास्ते इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः / बुद्धिलक्षणमाहभोग इति, तस्यात्मनो यो भोगः= सुखादिज्ञानं सा बुद्धिः। मनोलक्षणमाह- सर्वेति, सर्वार्थोपलब्धौसर्वार्थविषयकज्ञानजनने इन्द्रियाणां सामर्थ्य नास्तीति यत् सर्वविषयम्= सुखादिसर्वविषयग्राहकम् अन्तःकरणं तदेव मन इत्युच्यते / प्रवृत्तिदोषयोर्लक्षणमाह- शरीरेति, प्रवृत्तिः= धर्माधर्मों / शरीरादीनां निर्वृत्तिकारणम्= संपत्तिकारणं यत् तदेव प्रवृत्तिशब्दवाच्यं दोषशब्दवाच्यं च, दोषाश्च रागद्वेपादयः “सुखवेदनानाम् " इत्पत्र 'सुखदुःखवेदनानाम्' इतिपाठो युक्तः। प्रेत्यभावस्वरूपमाह- नास्येति, अस्य= आत्मन इदम्= वर्तमानं शरीरम् अपूर्वम्= पूर्वशरीरापूर्वकम् पूर्वशरीररहितं न किं तु एतच्छरीरात् पूर्वमपि शरीरान्तरमासीदेवेति शरीरपरम्पराऽनादिः सिद्धा यद् यच्छरीरं तत्तत् पूर्वशरीरपूर्वकम् शरीरत्वादिति / इदं शरीरं प्रायः अनुत्तरम्= उत्तरशरीररहितमपि न किं तु एत्तच्छरीरादनन्तरमपि शरीरान्तरं भविष्यति आमोक्षप्राप्तेरित्यर्थः, पर्यवसितमाह- पूर्वेति, आदिर्नास्ति- शरीरपरम्पराया अनादित्वात् उत्तरेषां च शरीराणामपवर्गोन्तः= अपवर्गेणान्तस्तथा च भगवद्गीतम्- "मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते” इति, येयं जन्ममरणपरम्परा सैव प्रेत्यभाव इत्युच्यते / फलस्वरूपमाह- ससाधनेति, ससाधनयोः सुखदुःखयोरुपभोग एव फलपदार्थः, सुखदुःखोपभोगश्च तत्साधनाभ्यामेव भवतीत्युक्तम्ससाधनेति / किं वा सुखदुःखतत्साधनानामेव बुद्धिविषयत्वात्तद्भोगस्य फलत्वमुक्तम् / दुःखस्वरूपं च प्रतिकूलवेदनीयत्वं विज्ञेयम् / ननु संसारे दुःखवत् सुखमप्यस्त्येवेति तत्कथं सूत्रे नोक्तं किं दुःखमात्रक