________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्रिकेकरणमयस्याऽऽप्तिस्तया प्रवर्तते इत्याप्तः ऋष्यार्यम्लेच्छानां समानं लक्षणं तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते इति / एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते नाऽतोऽन्यथेति // 7 // स द्विविधः- दृष्टाऽदृष्टार्थत्वात् // 8 // यस्येह दृश्यतेऽर्थः स दृष्टार्थः यस्याऽमुत्र प्रतीयते सोऽदृष्टार्थ एवमृषिलौकिकवाक्यानां विभाग इति / किमर्थं पुनरिदमुच्यते ?, स न मन्येत- दृष्टार्थ एवाप्तोपदेशः प्रमाणम्- अर्थस्यावधारणात् इति, अदृष्टार्थोपि प्रमाणम्- अर्थस्यानुमानादिति // 8 // // इति प्रमाणभाष्यम् // दीति सूत्रार्थः / व्याचष्टे-आप्त इति, यथार्थज्ञानेन साक्षात्कृतः= प्रत्यक्षीकृतः किं वा विज्ञातः पदार्थधर्मः= पदार्थस्वरूपं येन स साक्षात्कृतधर्मा. यथादृष्टस्येति- पदाथों येन वास्तविकखरूपेण ज्ञातस्तेनैव रूपेण परं प्रति तस्यार्थस्य चिख्यापयिषया= वक्तुमिच्छया प्रयुक्तः= प्रेरितो य उपदेष्टा= यथार्थपदाथोपदेष्टा स आप्तः / आप्तशब्दस्य व्युत्पत्तिमाह- साक्षात्करणमिति, पदार्थस्य यथार्थरूपेण यः साक्षास्कारः स आप्तिस्तयाऽऽत्या पदार्थसाक्षात्कारेण= पदार्थसाक्षात्कारपूर्वकम् उपदेष्टुं प्रवर्तते इत्याप्तः / इदं चाप्तलक्षणं ऋष्यार्यम्लेच्छानां सर्वेषां समानमेव तथा च कृषिष्वार्येषु म्लेच्छेषु च ते एव आप्ता ये पदार्थयथार्थस्वरूपं साक्षात्कृत्यैवोपदिशन्ति न भ्रान्त्येति तथाच आप्तोपदेशेन हि सर्वेषां जनानां व्यवहाराः प्रवर्तन्ते न तु भ्रान्तवञ्चकायुपदेशेन. भ्रान्तायुपदेशेन व्यवहारे कृतेपि फलोपलब्धिर्न संभवतीति विशेषः / उपसंहरति- एवमिति, एभिः= प्रत्यक्षानुमानोपमानशब्दैः प्रमाणैः सर्वेषां व्यवहाराः प्रकल्पन्ते= निष्पद्यन्ते= सफला भवन्ति, अत:= प्रमाणादन्यथा= प्रमाणाभावेन प्रमाणाभासेन च व्यवहारा न प्रकल्पन्ते। देवमनुष्येषु प्रमाणचतुष्टयेन प्रवृत्तिः स्पष्टैव / पक्ष्यादिषु हि प्रत्यक्षं त्विन्द्रियसत्त्वात् स्पष्टमेव. सजातीयसमुदायादौ गत्यादिकं चानुमानेनैव संभवति, सजातीयशब्दं श्रुत्वा चैकत्रीभावः शब्दप्रमाणपुरस्सर इति यथायथं विज्ञेयम् // 7 // - प्रमाणभूतशब्दस्य द्वैविध्यमाह- स इति, सः= शब्दः= आप्तोदशो द्विविधः- दृष्टार्थोऽदृष्टार्थश्च तत्र दृष्टार्थों यथा 'घटमानय ' इत्यादिस्तदर्थस्य घटादेदृश्यमानत्वात् अदृष्टार्थों यथा " ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यादिस्तदर्थस्य स्वर्गादेरदृश्यमानत्वादितिसूत्रार्थः / व्याचष्टे- यस्येति, यस्य वाक्यस्येह= लोकेऽर्थः= प्रतिपाद्यार्थो दृश्यते स दृष्टाथों यथा वैद्योपदेशादिः / यस्य च वाक्यस्य प्रतिपाद्योर्थः अमुत्र= परलोके प्रतीयते= ज्ञातुं शक्यते सोऽदृष्टार्थो यथा स्वर्गाद्युपदेशवाक्यम् आत्मज्ञानादिवाक्यं चेत्यर्थः / उपसंहरति- एवमिति, ऋष्यादिवाक्यानाम् एवम्= दृष्टादृष्टार्थत्वेन द्विधैव विभागः / वाक्यस्य द्वैविध्यकथनप्रयोजनं जिज्ञासते- किमर्थमिति, इदम्= द्वैविध्यम् / उत्तरमाहस नेति, सः= उपदेष्टव्यो जनः अर्थस्य= दृष्टार्थस्य प्रत्यक्षादिनाऽवधारणात्= अवधारणसंभवात् दृष्टार्थ एवाप्तोपदेशः प्रमाणमस्ति नाऽदृष्टार्थोपदेशोपि- तत्प्रतिपाद्यार्थस्याऽवधारणासंभवादिति न मन्येत= भ्रान्त्या न प्रतिपद्येत, इतिहेतोद्वैविध्यमुक्तं तथा च यथा दृष्टार्थस्य प्रत्यक्षादिनाऽवधारणसंभवात् तत्प्रतिपादकं दृष्टार्थ वाक्यं प्रमाणं तथाऽदृष्टार्थस्यापि स्वर्गादेरनुमानप्रमाणेनावधारणसंभवात् तत्प्रतिपादकमदृष्टार्थमपि वाक्यं प्रमाणमेवेत्यन्वयः / प्रामाणिकानां दृष्टार्थप्रवृत्तेः साफल्यं दृष्ट्वा स्वर्गाद्यदृष्टार्थविषयकयागादिप्रवृत्तेरपि साफल्यमनुमीयते- यागप्रवृत्तिः सफला प्रामाणिकप्रवृत्तित्वादध्ययनादिप्रवृत्तिवत् इति / यागादिप्रवृत्तिसाफल्यं च स्वर्गाद्यधीनमित्यदृष्टस्य स्वर्गादेरप्यनुमानेनावधारणं संभवत्येवेति स्वादिस्वरूपस्पधनादिबोधकमपि वाक्यं प्रमाणमेवेत्यलम् // 8 // इतिप्रमाणप्रसन्नपदा-॥