________________ शब्दप्रमाणलक्षणम् ] न्यायभाष्यम् / इति, समाख्यासंबन्धप्रतिपत्तिरुपमानार्थ इत्याह / यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थम् इन्द्रियार्थसंनिक दुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसंबन्धं प्रतिपद्यते इति / यथा मुद्गस्तथा मुद्गपर्णी यथा माषस्तथा माषपर्णी इत्युपमाने प्रयुक्ते उपमानात् संज्ञासंज्ञिसंबन्धं प्रतिपद्यमानस्तामोषधीं भैषज्याऽऽहरति / एवमन्योपि उपमानस्य लोके विषयो बुभुत्सितव्य इति // 6 // __ अथ शब्द: आप्तोपदेशः शब्दः // 7 // आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा, साक्षावाचकभावसंबन्धस्य साधनम्= अवधारणम् उपमानम्= उपमानप्रमाणफलम्, 'गोसदृशो गवयः' इति श्रवणानन्तरं वनं गतः पुरुषो गोसदृशं जीवं दृष्ट्वा 'अयं गवयपदवाच्यः- गोसदृशत्वात्' इत्येवं गव. यगवयशब्दयोवाच्यवाच्यकभावसंबन्धमवधारयति- तदवधारणे चोक्तं प्रसिद्धसाधर्म्यमेव कारणम् . तदेतदुपमानं प्रमाणमित्युच्यते इतिसूत्रार्थः / व्याचष्टे-प्रज्ञातेनेति, प्रसिद्धेन= प्रज्ञातेन= दृष्टेन गवा सामान्यात सादृश्यात प्रज्ञापनीयस्य= गवयगवयशब्दयोर्वाच्यवाचकभावसंबन्धस्य प्रज्ञापनम= अवधारणम तद्विषयकं यत् प्रमाणं तदुपमानम् / प्रज्ञापनमित्यत्र णिजोंऽविवक्षित एव अन्यथा 'गोसदृशो गवयः / इतिवाक्यवक्तुरेव व्यापार उपमानं स्यात् / उदाहरति- यथेति, यथा गौरेवं गवयः= गोसदृशो गवयः= गोसदृशो गवयपदवाच्यो विज्ञेय इत्येवमनेन वाक्येन ज्ञायमानं यत् गोसादृश्यं तेन यदि गवयस्य गवयपदवाच्यत्वप्रज्ञापनं विवक्षितं तदा णिजों विवक्षित एव विज्ञेयः / उपमानफलं जिज्ञासते-किमिति, किं वोपमानवैयर्थ्यमाशङ्कते-किमिति / स्वाभिप्रायमाह- यदेति, यदावनं गतोयं पुरुषो गवा समानधर्मम्गोसदृशं जीवं प्रतिपद्यते= पश्यति तदा तमर्थम्= गवयं प्रत्यक्षत एव प्रतिपद्यते= जानाति तथा च गवयज्ञानं प्रत्यक्षेणैव संभवतीति व्यर्थमेवोपमानं प्रमाणम्- तत्फलानुपलम्भादित्यर्थः / उत्तरमाह- समाख्येति, न गवयव्यक्तिज्ञानमुपमानफलमुच्यते येनोपमानस्य वैययै स्यात् किंतु समाख्यासंबन्धप्रतिपत्तिः= गवयगवयशब्दयोर्वाच्यवाचकभावसंबन्धावधारणमेवोपमानार्थः= उपमानफलमस्ति तच्चोपमानातिरिक्तेन प्रत्यक्षादिना न सिध्यतीति नोपमानवैयर्थ्यमित्यर्थः / इत्याह= इत्यभिप्रायः सूत्रकारस्येत्यर्थः। किं वा यदेत्यारभ्योत्तरवाक्यं विज्ञेयं तथाचात्र गवयव्यक्तेः प्रत्यक्षत्वादेव समाख्याप्रतिपत्तिरेवोपमानफलमित्यर्थः / वाच्यवाचकभावावधारणं क्रमेणोपपादयति- यथेति, आरण्यकेन 'यथा गौरेवम्= तादृशो गवयः' इत्युपमाने उपमानवाक्ये= उपमाघटितवाक्ये प्रयुक्ते तच्छ्रवणानन्तरं वनं गतो वने गवासमानधर्मम् = गोसदृशम् अर्थम्= पशुम् इन्द्रियार्थसंनिकर्षाद् उपलभमानः= पश्यन् ‘गोसदृशो गवयः' इतिवाक्यं च स्मरन् अस्य- गोसदृशस्य पशोर्गवयशब्दःसंज्ञा-वाचक इत्येवं संज्ञासंज्ञिसंबन्धम्= वाच्यवाचकभावसंबन्धं प्रतिपद्यते= अवधारयति तथा चोपमानप्रमाणस्य वाच्यवाचकसंबन्धावधारणे एव पर्यवसानात् वाच्यवाचकसंबन्धावधारणमेवोपमानफलं तच्चोपमानातिरिक्तप्रमाणेन न सिध्यतीति उपमानसार्थक्यं न तु गवयव्यक्तिज्ञानमुपमानफलं येनोपमानस्य वैयर्थ्य स्यादित्यर्थः / उपमानस्योदाहरणान्तरमाह- यथेति उपमाने= सादृश्ये प्रयुक्ते= निर्दिष्टे सति उपमानात्= तादृशसादृश्यान मुद्गपर्णीमुद्गपर्णीशब्दयोर्वाच्यवाचकभावसंबन्धम् ' या मुद्गसदृशा सा मुद्गपर्णी' इत्येवं प्रतिपद्यमानः= जानानः= ज्ञात्वा तामोषधीम्= मुद्गपर्णी भैषज्याय= वैद्यार्थम् आहरति= आनयति / उपसंहरति- एवमिति / बुभुत्सितव्यः= बोद्धव्यः उदाहर्तव्यो बेत्यर्थः / इत्युपमानम् // 6 // __शब्दप्रमाणं लक्षयति- आप्त इति, आप्तस्य= यथार्थज्ञानेन साक्षात्कृतपदार्थस्य यस्तद्विषयक उपदेशः स शब्दः शब्दप्रमाणं किं वा प्रमाणभूतं वाक्यं यथा 'शङ्गसानाविशिष्टो गोपदार्थः' इत्या