________________ 26 प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेविभागवचनादेव त्रिविधमितिसिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्याऽन्यस्मिन् वाक्यलाघवेऽनादरः, तथा चायमित्यम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्रे इति / सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् / कस्मात् ?, त्रैकाल्यग्रहणात्= त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते- भविष्यतीत्यनुमीयते. भवतीति च अभूदिति च / असच्च खल्वऽतीतमनागतं च // 5 // अथोपमानम् प्रसिद्धसाधात् साध्यसाधनमुपमानम् // 6 // प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति- यथा गौरेवं गवय इति / कि पुनरत्रोपमानेन क्रियते ?, यदा खल्वयं गवा समानधर्म प्रतिपद्यते तदा प्रत्यक्षतस्तमर्थं प्रतिपद्यते गम्यते तदेतत् सामन्यतोदृष्टमनुमानम् / स्वाभिप्राय विशदयति- इच्छादय इति, गुणातिरिक्तद्रव्यादिभ्यो बहिर्भूतत्वाद् इच्छादयो गुणा एव. गुणाश्च रूपादयो द्रव्यसंस्थानाः= द्रव्याश्रिता एव दृष्टा इति रूपादिसादृश्यादिच्छादीनामपि गुणत्वेन द्रव्याश्रितत्वं प्राप्तं तत्= तत्र एषामिच्छादीनां यत् स्थानम् = आश्रय स आत्मेति इच्छादिभिः सामान्यतोदृष्टेनात्मा सिध्यति / इच्छादयः कचिदाश्रिताः गुणत्वाद् रूपादिवत्. इच्छादयो न सामान्यादिष्वन्तर्भूताः अनित्यत्वात् नापि द्रव्यभूता गुणानाश्रयत्वात् द्रव्यस्य च गुणाश्रयत्वात्. नापि कर्मभूताः संयोगविभागाजनकत्वादिति पारिशेष्यादिच्छादीनां गुणत्वं सिद्धम् / इच्छादय आत्माश्रितास्ततोऽन्यत्रानुपपद्यमानत्वात् आत्मपरिमाणवदितीच्छादिभिरात्मसिद्धिः / भाष्योक्तोदाहरणे केनचिदर्थेन= रूपादिना लिङ्गस्येच्छादेर्द्रव्याश्रितत्वं सादृश्यं व्याख्येयम् / ___ विभागेति- “पूर्ववत् शेषवत् सामान्यतोदृष्टं च” इतिविभागवचनादेवानुमानस्य त्रैविध्यं सिद्धमेवाथापि आवश्यकपदार्थबोधके सूत्रे यत् "त्रिविधम्" इत्यनपेक्षितं वचनं तत् अन्यस्मिन् वाक्यलाघवेऽनादरादित्यन्वयः, उपपादयति- महत इति, स्वरूपेण महतो विषयेण च महत इति महाविषयस्य किं वा "महतः" इत्यस्यैव व्याख्या " महाविषयस्य " इति न्यायस्य- अनुमानस्य लघीयसाअल्पशब्दघटितेनैकेन सूत्रेणोपदेशात्= उपदेशः कृत इति परं वाक्यलाघवम्= वाक्याल्पत्वं जातमिति मन्यमानस्य सूत्रकारस्य उक्तलाघवादन्यस्मिन्= त्रिविधपदपरित्यागेन जायमाने वाक्यलाघवे आदरो नास्तीति हेतोरेव सूत्रे त्रिविधमिति वचनस्योक्तिर्विज्ञेया / उक्तमन्यत्रातिदिशति- तथा चेति, अस्मिन् शास्ने छलादिषु इत्थम्भूतेन= 'त्रिविधं द्विविधम् ' इत्यादिरूपेण वाक्यविकल्पेन वाक्यवैचित्र्येण= वाक्यप्रयोगेण बहुलम् = बहुत्र समाचार:= रीतिशब्दापरपर्यायः प्रकारः प्रवृत्त उपलभ्यते यथा शब्दे "स द्विविधो दृष्टादृष्टार्थत्वात् 1-1-8" इति. छले च " तत् त्रिविधम् 1-2-11" इति, सिद्धान्ते च भाष्यकारस्यैव वाक्यम् " स चतुर्विधः” इति / प्रत्यक्षानुमानयोर्व्यतिरेकमाह- सदिति, सद्विषयम् वर्तमानविषयकमेव प्रत्यक्षं भवति तदुक्तम्- “सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्” इति / सदसद्विषयकम्= वर्तमानावर्तमानविषयकमनुमानं भवति / अनुमानस्याऽवर्तमानविषयकत्वे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- त्रैकाल्येति, त्रैकाल्यानाम्= कालत्रयवर्तिनां पदार्थानामनुमानेन ग्रहणादनुमानस्याऽवर्तमानविषयकत्वमपि सिद्धम् / उक्तं व्याचष्टे- त्रिकालेति / उदाहरति- भविष्यतीति, वृष्टिर्भविष्यतीति अभूदिति च पूर्वमुक्तमेव. वृष्टिशब्देन च भवति वृष्टिरित्यनुमीयते / यदतीतं यच्चाऽनागतं तदेवाऽसदित्युच्यते अवर्तमानत्वादित्याह- असञ्चेति // 5 // . उपमानप्रमाणस्य लक्षणमाह- प्रसिद्धति, प्रसिद्धन= दृष्टेन गवा यत् साधर्म्यम्= सादृश्यं तस्मात् किं वा प्रसिद्धं दृष्टं यत् साधर्म्यम्= गवये गोसादृश्यं तस्मात् तेन साध्यस्य= गवयगवयंशब्दयोर्वाच्य