SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनुमानलक्षणम् ] न्यायभाष्यम्। अथ वा- पूर्ववदिति यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेनाऽन्यतरस्याप्रत्यक्षस्यानुमानं यथा धूमेनानिरिति / शेषवद् नाम परिशेषः स च प्रसक्तपतिषेधेऽन्यत्राप्रसङ्गात शिष्यमाणे संप्रत्ययः यथा-' सदनित्यम्' इत्येवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य तस्मिन् द्रव्यकर्मगुणसंशये न द्रव्यम्- एकद्रव्यत्वात् न. कर्म- शब्दान्तरहेतुत्वात . यस्तु शिष्यते सोयमिति शब्दस्य गुणत्वप्रतिपत्तिः / सामान्यतोदृष्टं नाम यत्रा प्रत्यक्ष लिङ्गलिगिनोः संबन्धे केनचिदर्थेन लिङ्गस्य सामान्याद् अप्रत्यक्षो लिङ्गी गम्यते यथेच्छादिभिरात्मा. इच्छादयो गुणा गुणाश्च द्रव्यसंस्थानाः तद् यदेषां स्थानं स आत्मेति / उक्तं प्रकारान्तरेण व्याचष्टे- अथ वेति, अत्र यत्रेति पदं व्यर्थमेव / " पूर्ववत्" इत्यस्य " यथापूर्वम्" इत्यर्थः, अत्र- "पूर्ववत्पदे वतिप्रत्ययो न तु मतुबिति भावः' इति श्रीगुरुचरणाः। पूर्ववत् = सपक्षे दृष्टवत् पक्षे हेतुना साध्यानुमानं पूर्ववदनुमानमित्यर्थः, सपक्षे प्रत्यक्षभूतयोर्वह्निधूमयोर्मध्ये पक्षेऽन्यतरस्य धूमस्य दर्शनेनाऽप्रत्यक्षस्यान्यतरस्य वडूर्यदनुमानं तत् पूर्ववद् तथाच धूमेनाग्निरनुमीयते / “अग्निः" इत्यत्र अग्नेरिति युक्तम्। द्वितीयं व्याचष्टे-शेषेति, परिशेषः= परिशिष्टे पर्यवसानमिति यावत्, सः= परिशेषः / यथा शब्दस्यानित्यस्य प्रसक्तेषु सामान्यादिषु नित्येषु प्रतिषेधे= अन्तर्भावासंभवे अन्यत्र= द्रव्य. कर्मणोरप्रसङ्गात्= अन्तर्भावासंभवात् शिष्यमाणे= परिशिष्टे गुणे संप्रत्ययः= अन्तर्भाव इति शब्दस्य शेषवदनुमानेन गुणत्वं सिद्धमित्यन्वयः / अत्र “शेषवद् नाम परिशेष: द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेनोपयुक्तत्वात् ताभ्यामन्यद् गुणत्वं शेषः स यस्यानुमानस्य प्रतिपाद्यतया (संमतः) तत् शेषवत्" इति तात्पर्यटीका / उदाहरति- यथेति, सदनित्यम्= सत्त्वे सत्यनित्यत्वम् इत्यादिना अर्थात् द्रव्यगुणकर्माणां सत्त्वे सत्यनित्यत्वमविशेषेण धर्मोस्ति शब्दस्याप्यस्ति- उपलभ्यमानत्वेन सत्त्वं विनाशित्वादनित्यत्वं च-सामान्यादिष्वनित्यत्वं नास्तीति सामान्यविशेषसमवायेभ्यो विभक्तस्य= पथककतस्य -शब्दस्य अर्थादनित्यस्य शब्दस्य नित्येषु सामान्यादिष्वन्तर्भावो न संभवतीति तस्मिन्= शब्दे सत्त्वानित्यत्वधर्माभ्यां द्रव्यगुणकर्मणामऽविशेषेण साम्येन द्रव्यकर्मगुणसंशये=द्रव्यत्वकर्मत्वगुणत्वसंशये अर्थात सामान्यादिबहिर्भूतस्य शब्दस्य किं द्रव्ये कर्मणि गुणे वान्तर्भाव इति संशये जाते. अनित्यभूतः शब्दो न द्रव्यम्-एकद्रव्यत्वात् अर्थादनित्यं हि द्रव्यं स्वकारणीभूतैरनेकैद्रव्यैरारब्धं भवति- सावयवत्वात् शब्दश्च न तथास्ति किं त्वेकद्रव्यमेव= एकपदार्थ एव= निरवयव एवेत्यर्थः. परमाण्वादिष नित्यदव्येष्वपि नान्तर्भवति-अनित्यत्वादिति शब्दो न द्रव्यम, नापि कर्म-शब्दान्तरहेतुत्वात् . कर्म हि प्रथममेव शब्दमुत्पादयति न तु द्वितीयादिशब्दमपि शब्दस्तु स्वसजातीयं शब्दान्तरमप्युत्पादयतीति व्यतिरेकात् न कर्म, यस्तु उक्तद्रव्यादिभ्यः शिष्यते= परिशिष्टो गुणः स गुण एवायं शब्द इति शब्दस्य गणेन्तीवस्तथाचोक्तशेषवदनुमानेन शब्दस्य गुणत्वं सिद्धम- शब्दो गुणः गणातिरिक्तद्रव्यादिभ्यो बहिर्भतत्वाद रूपादिवदित्यर्थः / वस्तुतस्तु कर्म न शब्दजनकं भवति किंतु शब्दजनकसंयोगादिजनकमिति शब्दस्य कर्मतो व्यावृत्तिः। किं वा शब्दान्तरहेतुत्वात शब्दान्तरहेतुकत्वात शब्दान्तरजन्यत्वादिसर्थः कर्म त न शब्दजन्यं भवतीति शब्दान्तरजन्यत्वाद् हेतोः शब्दस्य कर्मतो व्यावृत्तिरित्येवं व्याख्येयम। तृतीयं व्याचष्टे- सामान्यत इति / उदाहरति- यत्रेति, लिङ्गलिङ्गिनो: साध्यसाधनयोः संबन्धेऽप्रत्यक्षे सति लिङ्गस्य केनचिदर्थेन दृष्टेन सह सामान्यात्= सादृश्यात्= सादृश्ये सति तादृशसादृश्यवशाद् यत्र तेन लिङ्गेनाप्रत्यक्षं साध्यं साध्यते तत्र सामान्यतोदृष्टं तदनुमानमुच्यते यथा वास्यादिकरणकलापः कर्बधिष्ठित एव कार्यकरो दृश्यते इति चक्षुरादिकमपि करणत्वात् वास्यादिसादृश्येन कधिष्ठितमेव कार्यकरं संभवतीति चक्षुरादिनाऽप्रत्यक्षस्यात्मनः सिद्धिर्भवति, यथा चेच्छादिभिरात्मा
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy