________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेअथ तत्पूर्वकं त्रिविधमनुमानम्- पूर्ववत् शेषवत् सामान्यतोदृष्टं च // 5 // तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः संबन्धदर्शनं लिङ्गदर्शनं चाभिसंबध्यते, लिङ्गलिङ्गिनोःसंबद्धयोर्दर्शनेन लिङ्गिस्मृतिरभिसंबध्यते. स्मृत्या लिङ्गदर्शनेन चाऽप्रत्यक्षोऽर्थोऽनुमीयते। पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति दृष्टिरिति। शेषवत्तद् यत्र कार्येण कारणमनुमीयते- पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते- भूता दृष्टिरिति / सामान्यतो दृष्टम्- व्रज्यापूर्वकमन्यत्र दृष्टस्याऽन्यत्र दर्शनमिति तथा चादित्यस्य, तस्मादस्त्यप्रत्याक्षाप्यादित्यस्य व्रज्येति / प्रत्येतव्यम् / उक्त हेतुमाह- परमतेति, हि यतः अप्रतिषिद्धं परमतमनुमतमेव भवतीति तन्त्रयुक्तिः= शास्त्ररीतिस्तदन्त्र मनस इन्द्रियत्वं परशास्त्रोक्तं न प्रत्याख्यातमित्यनुमतमेव / तदनेन भाष्येण प्रत्यक्षं प्रमाणं व्याख्यातमित्युपसंहरति- व्याख्यातमिति // 4 // . अनुमानप्रमाणं निरूपयति- अथेति, अथ= प्रत्यक्षानन्तरं तत्पूर्वकम्= प्रत्यक्षपूर्वकं त्रिविधमनुमानं प्रमाणं निरूप्यते इत्यन्वयः, तत्पूर्वकभित्यनेन प्रत्यक्षस्यानुमानकारणत्वमुक्तं प्रत्यक्षं चात्र साध्यसाधनयोाप्यव्यापकभावसंबन्धविषयकं साधनविषयकं च विज्ञेयं यथा प्रथमं महानसे वह्निधूमयोः संबन्धप्रत्यक्षं भवति तदनन्तरं पर्वते धूमप्रत्यक्षं भवति तदनन्तरं पर्वते वह्नयनुमितिर्जायते इतिक्रमः / उक्तं त्रैविध्यमाह- पूर्ववदिति / अन्यत् सर्व भाष्ये स्पष्टमेवेति सूत्रान्वयः / व्याचष्टे- तदिति, सपक्षेषु लिङ्गलिझिनोः साहचर्यदर्शनेन संबन्धदर्शनम्= व्याप्यव्यापकभावसंबन्धग्रहो भवति, पक्षे च लिङ्गप्रत्यक्षम् / अभिसंबध्यते= गृह्यते / साध्यस्मृत्यपेक्षामाह- लिड्नेति, सपक्षे साध्यसाधनयोः संबद्धयोरेव प्रत्यक्षं भवतीति पक्षे साध्यसाधनयोरन्यतरस्य साधनस्य धूमादेर्दर्शनाद् " एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्" इतिन्यायेन साध्यस्मृतिर्जायते साप्यभिसंबध्यते= अनुमितिकारणत्वेन गृह्यते / पर्यवसितमाह- स्मृत्येति, तथा च सपक्षे साध्यसाधनयोर्व्याप्तिग्रहो भवति तदनन्तरं यदि कचित् साधनप्रत्यक्षं भवति तदा तेन प्रत्यक्षेणोक्तरीत्या साध्यस्मृतिर्भवति तदनन्तरं दृष्टेन साधनेनाऽप्रत्यक्षस्य साध्यस्य वह्नयादेः पक्षेऽनुमितिर्भवति- 'पर्वतो वह्निमान् धूमात्' इतिक्रम इत्यन्वयः / / ___ पूर्ववदनुमानं निरूपयति- पूर्ववदिति, पूर्ववत्= कारणवत्= कारणदर्शनेन कार्यविषयकमनुमानं पूर्ववदित्युच्यते यथा मेघोन्नत्या उन्नतेन= वृष्टयुन्मुखेन मेघेन भविष्यत्कालिका वृष्टिरनुमीयते अत्र मेघोन्नतिः कारणं वृष्टिश्च तत्कार्यमिति स्पष्टमेव / शेषवदनुमानं निरूपयति- शेषवदिति, शेषवत्= कार्यवत्= कार्यदर्शनेन कारणविषयकमनुमानं शेषवदित्युच्यते यथा धूमेन वह्नयनुमानम् , पूर्वभूतकारणापेक्षया कार्यमेव शेषः / उदाहरति- पूर्वेति, नद्याः पूर्वोदकविपरीतम= मलिनमुदकं दृष्ट्वा नदीपात्रस्य पूर्णत्वं च दृष्ट्रा स्रोतसः= प्रवाहस्य शीघ्रत्वम्= शीघ्रगामित्वं च दृष्टा तत्कारणभूता वृष्टिरनुमीयते'भूता वृष्टिः' इति, अत्रोदकदीनां मालिन्यादिकं कार्य वृष्टिश्च तत्कारणमिति कार्येण कारणानुमानं सिद्धम् , साध्यतावच्छेदकसंबन्धो भूतकालिकत्वं हेतुतावच्छेदकसंबन्धश्चानन्तरभावित्वम् / सामान्यतो दृष्टमनुमानं निरूपयति- सामान्यत इति, अन्यत्र दृष्टस्य यदन्यत्र दर्शनं तद् व्रज्यापूर्वकम्= गतिपूर्वकमेव भवति यथा मथुरायां दृष्टस्य चैत्रस्य यत् काश्यां दर्शनं तद् गतिपूर्वकमेव भवति गतिहीनस्य तथादर्शनाभावादिति सामान्यतो दर्शनेनाऽप्रत्यक्षमनुमीयते तथा चादित्यस्यापि पूर्वस्यां दृष्टस्य यत् पश्चिमायां दर्शनं तेन देशान्तरप्राप्तिदर्शनेनादित्यस्याऽप्रत्यक्षापि व्रज्या= गतिरनुमीयते-अस्तीति /