________________ न्यायभाष्यम् / प्रत्यक्षलक्षणम् ] आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम् ?- अनिन्द्रियार्थसंनिकर्षजं हि तदिति। इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात् . भौतिकानीन्द्रियाणि नियतविषयाणि सगुणानां चैषामिन्द्रियभाव इति. मनस्त्वभौतिकं सर्वविषयं च नास्य सगुणस्येन्द्रियभाव इति, सति चेन्द्रियार्थसंनिकर्षे संनिधिमसंनिधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्याम इति, मनसश्चेन्द्रियभावाद् न वाच्यं लक्षणान्तरमिति, तन्त्रान्तरसमाचाराच्चैतत् प्रत्येतव्यमितिपरमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः / व्याख्यातं प्रत्यक्षम् // 4 // 15 क्षम्= निश्चयापेक्षम्= निश्चयसाकाक्षं विमर्शमात्रम्= किमिदमिति सामान्यरूपग्राहक संशय एवेति पूर्वम्= प्रत्यक्षं न भवतीति तद्व्यवच्छेद आवश्यक एवेत्यर्थः / ननु यदि बाह्येन्द्रियेण व्यवसायः= अवधारणं स्यात्तदाऽनवधारणमपि बाह्येन्द्रियेण स्यात् न चैवमस्ति व्यवसायस्य बुद्धिधर्मत्वादित्याशयाह- सर्वत्रेति, प्रत्यक्षपदार्थविषयको व्यवसायो बाह्येन्द्रियेण प्रथमं भवति तदनन्तरं मनसेत्यनवधारणज्ञानमपि इन्द्रियसंनिकृष्टविषयकं बाह्येन्द्रियसंनिकर्षजन्यमेवेति सिद्धम् , उक्त हेतुमाह- उपहतेति, येषां बाह्येन्द्रियं नास्ति तेषां मनःसत्त्वेपि नष्टेन्द्रियविषयस्य अनुव्यवसायः= अवधारणं न भवति यथाऽन्धस्य रूपानवधारणं बधिरस्य च शब्दानवधारणमित्यन्वयव्यतिरेकाभ्यामवधारणस्य बाह्येन्द्रियजन्यत्वेनाऽनवधारणस्यापि बाह्यविषयकस्य बाह्येन्द्रियजन्यत्वे सिद्धे तद्व्यवच्छेदार्थ व्यवसायात्मकमितिविशेषणमावश्यकमेवेत्यर्थः। नन्विन्द्रियसंनिकर्षों हि बाह्येन संभवति न त्वान्तरेणात्मादिनेति आत्मादिविषयकप्रत्यक्षस्य लक्षणं वक्तव्यं यतस्तत्= आत्मादिप्रत्यक्षमिन्द्रियार्थसंनिकर्षजन्यं न संभवति येनोक्तप्रत्यक्षलक्षणेनात्मादिप्रत्यक्षस्यापि संग्रहः स्यादित्याशङ्कते-आत्मादिष्विति / आत्मादिप्रत्यक्षमपि मनोलक्षणेन्द्रियजन्यमेवेति तस्योक्तप्रत्यक्षलक्षणेन संग्रहः संभवत्येवेति न पृथक् तल्लक्षणनिर्वचनापेक्षास्तीत्याशयेन प्रथम मनस इन्द्रियत्वं साधयति, इन्द्रियेभ्यः पृथगुपदेशकारणं चाह- इन्द्रियस्येति, इन्द्रियस्य सत: इन्द्रियभूतस्यापि मनसो यः खल्विन्द्रियेभ्यः " आत्मशरीरेन्द्रियार्थबुद्धिमनः" इत्यग्रिमनवमसूत्रे पृथगुपदेशः स धर्मभेदात्= इन्द्रियेभ्यो विलक्षणत्वादेवास्ति न त्वनिन्द्रियत्वात् तथा च मनोपीन्द्रियमेवेति मन:संनिकर्षजन्यस्यात्मादिप्रत्यक्षस्योक्तप्रत्यक्षलक्षणेन संग्रहो जातः / इन्द्रियाणां मनसश्चोक्तं धर्मभेदमुपपादयति- भौतिकानीति भौतिकानि स्थूलभूतजन्यानि यथा तैजसं चक्षुरिति, तथा चक्षु रूपमेव गृह्णाति वाणं च गन्धमेवेति नियतविषयाणि तथैषामिन्द्रियाणां बाह्यानां सगुणानाम्= रूपादिविशिष्टानामेवेन्द्रियत्वमस्ति यथा चक्षुषो रूपविशिष्टत्वं ब्राणस्य गन्धविशिष्टत्वमिति, मनसस्तद्वैपरीत्यमाह- मन इति, मनो नित्यत्वादभौतिक रूपादिसर्वविषयग्राहकं च न च रूपादिविशिष्टं चेत्यर्थः / अस्य-मनसः / मनसः षोडशतमसूत्रेण वक्ष्यमाणं विशेषमाह- सतीति, अनेकेषामिन्द्रियाणां स्वस्वविषयै रूपरसादिभिः संनिकर्षे सत्यपि यद् युगपत् सर्वेषां ज्ञानं नोत्पद्यते तादृशयुगपज्ज्ञानानुत्पत्तौ अस्य= मनसः संनिधिमसंनिधिं च कारणं वक्ष्याम इत्यन्वयस्तथा च येनार्थसंसृष्टेनेन्द्रियेण सह मनःसंनिधिः= मनःसंनिकर्षों भवति तेन तद्विषयविषयकं ज्ञानं जायते येन चेन्द्रियेण मनोऽसंनिधिः= मनःसंनिकर्षों न भवति तेन च ज्ञानं न जायते इति इन्द्रियजन्यज्ञानोत्पत्तौ मनस इन्द्रियसंनिकर्षः कारणम् इन्द्रियार्थसंनिकर्षे सत्यपि तज्ज्ञानानुत्पत्तौ चेन्द्रियेण सह मनोऽसंनिधिः कारणम् / मनसश्वाणुत्वाद् युगपदनेकेन्द्रियसंनिकर्षों नोपपद्यते इत्यपि वक्ष्यति / उपसंहरति- मनसश्चेति, मनस इन्द्रियभावात्= इन्द्रियत्वात् आत्मादिप्रत्यक्षमपि मनोलक्षणेन्द्रियसंनिकर्षजन्यमेवेति पूर्वोक्तप्रत्यक्षलक्षणाक्रान्तमेवेति आत्मादिप्रत्यक्षस्य लक्षणान्तरं न वाच्यम्= नापेक्षितमस्तीत्यन्वयः / ननु सूत्रकारेण तु मनस इन्द्रियत्वं नोक्तमिति कथं तद् ग्राह्यमित्याशङ्कयाह- तन्त्रेति, तन्त्रान्तरसमाचारात्= शास्त्रान्तरसिद्धान्तात् एतत्= मनस इन्द्रियत्वं