________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निके-- ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा संनिकृष्यन्ते तत्रे, न्द्रियार्थसंनिकर्षात् उदकमिति ज्ञानमुत्पद्यते तच्च प्रत्यक्षं प्रसज्यते इत्यत आह- अव्यभिचारीति. यद् अतस्मिन् तदिति तद् व्यभिचारि. यत्तु,तस्मिन् तदिति तद् अव्यभिचारि प्रत्यक्षमिति / ___दूराच्चक्षुषा ह्ययमर्थं पश्यन् नावधारयति- धूम इति वा रेणुरिति वा तदेतद् इन्द्रियार्थसंनिकर्पोत्पन्नमऽनवधारणज्ञानं प्रत्यक्ष प्रसज्यते इत्यत आह- व्यवसायात्मकमिति / न चैतमन्तव्यम्- आत्ममनःसंनिकर्षजमेवाऽनवधारणज्ञानमिति, चक्षुषा ह्ययमर्थ पश्यन् नावधारयति,. यथा चेन्द्रियेणोपलब्धमर्थ मनसोपलभते एवमिन्द्रियेणाऽनवधारयन् मनसा नावधारयति, यच्चतद इन्द्रियानवधारणपूर्वकं मनसाऽनवधारणं तद् विशेषापेक्षं विमर्शमात्रं संशयो न पूर्वमिति / सर्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसाय:- उपहतेन्द्रियाणामनुव्यवसायाभावादिति / / अव्यभिचारित्वविशेषणस्य सार्थक्यमाह- ग्रीष्मे इत्यादिना, प्रीष्मे कृतौ मरीचयः= सूर्यकिरणा भौमेन= पृथिवीसंबन्धिना ऊष्मणा= तेजसा संसृष्टाः= संयुक्ताः स्पन्दमानाः= चाकचक्यव्यापारविशिष्टा दूरस्थपुरुषस्य चक्षुषा संयुज्यन्ते तत्र= एतादृशस्थले इन्द्रियार्थसंनिकर्षात्= मरुमरीचिकया चक्षुःसंनिकर्षाद् उदकमिदमिति ज्ञानं जायते तदपीन्द्रियार्थसंनिकर्षोत्पन्नमशाब्दं चेति तत् प्रत्यक्षं प्रसज्यते= तत्रोक्तप्रत्यक्षलक्षणस्यातिव्याप्तिः प्राप्ता इत्यतः= तव्यावृत्त्यर्थमाह- अव्यभिचारीति, यदुक्तलक्षणं ज्ञानमव्यभिचारि तत् प्रत्यक्षम् उक्तं मरुमरीचिकासूदकज्ञानं तु नाऽव्यभिचारि किं तु व्यभिचार्येवेति न तत्रैतादृशप्रत्यक्षलक्षणस्यातिव्याप्तिरित्यन्वयः / ज्ञानस्य व्यभिचारित्वमाह- यदिति, यज् ज्ञानम् अतस्मिन्= उदकादिभिन्ने तदिति- उदकादिरूपं तज्ज्ञानं व्यभिचारि-विषयानुपलब्ध्या विषयव्यभिचारेण ज्ञानस्य व्यभिचारित्वमुपचर्यते किं वा स्वविषयाभावेपि तज्ज्ञानोत्पत्त्या ज्ञानस्य व्यभिचारित्वं मुख्यमेव / ज्ञानस्याऽव्यभिचारित्वमाह- यत्त्विति, यज्ज्ञानं तस्मिन् = उदके तदितिउदकमिति तज् ज्ञानमव्यभिचारि तदेव प्रत्यक्षं व्यभिचारि च प्रत्यक्षाभासस्तथा च- ' अशाब्दमिन्द्रियार्थसंनिकर्षोत्पन्नमव्यभिचारि अर्थज्ञानं प्रत्यक्षम्' इतिप्रत्यक्षलक्षणं संपन्नम् / __ व्यवसायात्मकत्वविशेषणस्य सार्थक्यमाह- दूरादिति, अयं द्रष्टा दूराच्चक्षुषा= चक्षुःसंनिकृष्टमप्यथै पश्यन् नाऽवधारयति= न निश्चिनोति धूमो वायं रेणुर्वेति तदेतद् अनवधारणज्ञानम्= अनिश्चयास्मकम्= संशयात्मकमपि ज्ञानम् इन्द्रियार्थसंनिकर्पोत्पन्नत्वेनोक्तप्रत्यक्षलक्षणाक्रान्तत्वात् प्रत्यक्षं प्रसज्यते तद्व्यवच्छेदार्थमाह- व्यवसायात्मकमिति, यद् व्यवसायात्मकम्= निश्चयात्मकं ज्ञानं तत् प्रत्यक्षं भवति यथा घटे घटोयमिति, धूमो वा रेणुा. स्थाणुर्वा पुरुषो वेत्यादिकं तु ज्ञानं न व्यवसायात्मकमिति नात्र प्रत्यक्षलक्षणस्यातिव्याप्तिरित्यन्वयः / यद्यपि संशयात्मकज्ञाने एका कोटिविपरीतापि भवति तथाप्येका कोटिः सुपरीतापि भवत्येवेति नाव्यभिचारित्वविशेषणेन संशयव्यवच्छेदः संभवतीति व्यवसायात्मकमिति विशेषणस्य सार्थक्यम् / ननूक्तं संशयज्ञानमात्ममनःसंनिकर्षजन्यमेव भवति न त्विन्द्रियसंनिकर्षजन्यमिति इन्द्रियार्थसंनिकर्षोत्पन्नत्वविशेषणेनैव संशयव्यवच्छेदः संभवतीति व्यवसायात्मकमितिविशेषणं व्यर्थमेवेत्याशझ्याह- न चेति / परिहारहेतुमाह- चक्षुषेति, इन्द्रियार्थसंनिक सत्यपि संशयात्मकं ज्ञानं जायते इति तस्येन्द्रियार्थसंनिकर्षोत्पन्नत्वविशेषणेन व्यवच्छेदो न संभवतीति तदर्थ व्यवसायात्मकमिति विशेषणमावश्यकमेवेत्यर्थः / उक्ते दृष्टान्तमाह- यथेति, यथा इन्द्रियेणोपल. ब्धम् बाह्येन्द्रियसंनिकृष्टं मनसा उपलभते= अवधारयति तथा बाह्येन्द्रियेणानवधारणे सति मनसाप्यनवधारणं भवतीत्यनवधारणात्मकमपि ज्ञानमिन्द्रियार्थसंनिकषोत्पन्नमपि भवतीति तद्व्यवच्छेदार्थ व्यवसायात्मकमितिविशेषणमावश्यकमेवेत्यर्थः / तदेतत् संशयात्मकं ज्ञानं न प्रत्यक्षमित्याह- यच्चेति, इन्द्रियानवधारणपूर्वकम्= इन्द्रियेणानवधारणकारणकं यद् मानसमनवधारणात्मकं ज्ञानं तद् विशेषापे.