________________ न। 21 मूलान्वयः प्रत्यक्षलक्षणम् ]] न्यायभाष्यम्। शाब्दं मसज्यते अत आह- अव्यपदेश्यमिति, यदिदमनुपयुक्ते शब्दार्थसंबन्धेऽर्थज्ञानं तद् नामधेयशब्देन व्यपदिश्यते. गृहीतेपि च शब्दार्थसंबन्धे अस्यार्थस्यायं शब्दो नामधेयम्' इति...यदा तु सोऽर्थो गृह्यते तदा वन पूर्वस्मादर्थज्ञानान्न विशिष्यते तदर्थविज्ञानं ताडगेव भवति, न चाभतीयमानेन व्यवहारः तस्माद् ज्ञेयस्यार्थस्य संज्ञाशब्देन इतिकरणयुक्तेन निर्दिश्यते- रूपमिति ज्ञानं रस इति ज्ञानमिति तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते व्यवहारकाले तु व्याप्रियते, तस्मात्- 'अशाब्दमर्थज्ञानमिन्द्रियार्थसंनिकर्पोत्पन्नम्' इति / दिश्यते= निर्दिश्यते रसशब्देन च 'रस इति जानीते' इति रसज्ञानं व्यपदिश्यते तत्र रूपादिनामंधेयशब्देन व्यपदिश्यमानं सत् रूपादिप्रत्यक्षज्ञानं शाब्दम्= शाब्दयोधरूपं प्रसज्यते= भवतीति अतः तद्व्यवच्छेदार्थ सूत्रकार आह- अव्यपदेश्यमिति, "शाब्दं प्रसज्यते " इत्यत्र 'शाब्दमपि प्रत्यक्षं प्रसज्यते / इत्येवं वक्तव्यमासीत् / किं वा 'एतादृशं शाब्दं प्रत्यक्षं प्रसज्यते' इत्येवं प्रत्यक्षशब्दाध्याहारेण / उक्तं स्वाभिप्रायं विशदयति- यदिदमित्यादिना, शब्दार्थसंबन्धे वाच्यवाचकभावे अनुपयुक्ते अगृहीते= शक्तिग्रहात् पूर्वकाले यदिदं रूपाद्यर्थज्ञानं जायते तत् परेण गृहीतशक्तिकेन पुरुषेण रूपादिनामधेयशब्देन व्यपदिश्यते= निर्दिश्यते- अस्येदं रूपज्ञानं रसज्ञानमिति, 'अस्यार्थस्य= रूपादिपदार्थस्य अयं शब्दः= रूपादिशब्दो नामधेयम्= वाचकः' इत्येवं शब्दार्थसंबन्धे गृहीतेपि= शक्तिमहे जातेपि यदिदं रूपाद्यर्थप्रत्यक्षं जायते तदपि रूपादिनामधेयशब्देन व्यपदिश्यते- अस्येदं रूपज्ञानं रसज्ञानं वेति तादृशं शाब्दं प्रत्यक्षं प्रसज्यते इत्यर्थः / प्रत्यक्षशाब्दयोस्तुल्यतामाह- यदेति, यदा सोऽर्थः कादिरिन्द्रियेण गृह्यते तदा तत्= रूपेन्द्रियसंनिकर्षोत्पन्नं रूपप्रत्यक्षं पूर्वस्मात्= शाब्दात् अर्थज्ञानात रूपमितिज्ञानान्न विशिष्यते न विलक्षणो भवति किं तु तदर्थविज्ञानम्= रूपप्रत्यक्षं तागेव= शाब्दज्ञानसदृशमेव भवतीत्यन्वयः, किं वानेन ग्रन्थेन शक्तिमहात् पूर्वमनन्तरं च जायमानयोः प्रत्यक्षज्ञानयोः सादृश्यं प्रदर्शितं वेदितव्यम् तादृशसादृश्यात् शाब्दमपि प्रत्यक्षं स्यादिति तादृशशाब्दे लक्षणस्यातिव्याप्तिनिवृत्त्यर्थम् 'अव्यपदेश्यम्' इतिविशेषणमित्यर्थः, अत्र “यदा तु सोऽथों गृह्यते नामधेयरहितो नामधेयस्मरणात् पूर्वमविकल्पेन तदा पूर्वस्मादऽव्युत्पन्नावस्थायामर्थज्ञानान विशिष्यते यतो न विशिष्यते तस्मात्तदर्थज्ञानं ताहगेव भवति" इति तात्पर्यटीका / अज्ञातेन च पदार्थेन व्यवहारो न संभवतीति व्यवहारार्थ पदार्थज्ञानापेक्षा प्राप्तेत्याह-न चेति / पर्यवसितमाह- तस्मादिति, ज्ञेयस्य= ज्ञातस्यार्थस्य रूपादानम् इतिकरणयुक्तेन= इतिशब्दयुक्तेन संज्ञाशब्देन व्यपदिश्यते- 'रूपमितिज्ञानं रस इति ज्ञानम्। इति, तदेवम् = तत्र पदार्थप्रत्यक्षकाले स समाख्याशब्दोन व्याप्रियते न प्रयुज्यते किं वा न बोधं जनयति व्यवहारकाले तु व्याप्रियते-शब्दव्यापारं विना व्यवहारासंभवात्=प्रयोजकवृद्धेन 'घटमानय' इतिवाक्ये उक्ते सत्येव प्रयोज्येन घटानयनसंभवात् प्रत्यक्षादिना व्यवहारनिर्देशासंभवाच्च / उपसंहरति-तस्मादिति, तस्मात्= शाब्दप्रत्यक्षज्ञानयोरुक्तरीत्या सदृशत्वात् शाब्दज्ञानव्यवच्छेदार्थम् 'अव्यपदेश्यम्' इतिविशेषणे प्रक्षिप्ते- 'अशाब्दम् इन्द्रियार्थसंनिकर्षोत्पन्नमर्थज्ञानं प्रत्यक्षम् ' इति प्रत्यक्षलक्षणमिदानी सिद्धमित्यन्वयः / शाब्दज्ञानस्य प्रत्यक्षसदृशत्वात् तत्रोक्तप्रत्यक्षलक्षणस्यातिव्याप्तिः स्यादिति तद्व्यवच्छेदार्थम् 'अव्यपदेश्यम्' इतिविशेषणमिति भाष्यकृदाशयः प्रतीयते. तत्र शाब्दज्ञानस्य प्रत्यक्षसादृश्यप्रतिपादनार्थम्- " यावदर्थम् " इत्यादिग्रन्थः शब्दाडम्बरः / यत्र हि पदार्थेन्द्रियसंनिकर्षे सत्येव शाब्दज्ञानमुत्पद्यते तादृशशाब्दज्ञानेऽतिव्याप्तिन स्यादित्याशयेन 'अव्यपदेश्यम्' इतिविशेषणमित्यनुसंधेयम् / वस्तुतस्तु " अव्यपदेश्यम्" इतिविशेषणं व्यर्थमेव- शाब्दज्ञानादिष्विन्द्रियार्थसंनिकर्षोत्पन्नत्वस्याऽस्वीकारात् , सादृश्यमात्रेण तद्व्यवच्छेदार्थ विशेषणापेक्षायां चानुमितिव्यावृत्त्यर्थमपि विशेषणापेक्षा स्यादित्यलम् /