________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेइन्द्रियस्यार्थेन संनिकर्षाद उत्पद्यते यज् ज्ञानं तत् प्रत्यक्षम्, न तहीदानीमिदं भवतिआत्मा मनसा युज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति ?, नेदं कारणावधारणम्- 'एतावत् प्रत्यक्षे कारणम्' इति किं तु विशिष्ट कारणवचनमिति= यत् प्रत्यक्षेज्ञानस्य विशिष्टकारणं तदुच्यते यत्तु समानमनुमानादिज्ञानस्य न तद् निवर्तते इति / मनसस्तीन्द्रियेण संयोगो वक्तव्यः?, भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यते इति समानत्वान्नोक्त इति // ____ यावदर्थं वै नामधेयशब्दास्तैरर्थसंप्रत्ययोऽर्थसंप्रत्ययाच व्यवहारः तत्रेदमिन्द्रियार्थसंनि'कर्षादुत्पन्नमर्थज्ञानं रूपमिति वा रस इत्ती वा भवति रूपरसशब्दाश्च विषयनामधेयं तेन व्यप-' दिश्यते ज्ञानम्- रूपमिति जानीते रस इति जानीते. नामधेयशब्देन व्यपदिश्यमानं सत् व्याचष्टे- इन्द्रियस्येति, इन्द्रियार्थसंयोगादुत्पन्नं ज्ञानं प्रत्यक्षमित्येव प्रथमं वक्तव्यम् अत्र दोषे प्राप्त तन्निवारणार्थ विशेषणं दास्याम इत्यर्थः / ननु इदानीम्= 'इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्। इत्येतावदुक्ते इदम्= 'आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षम्' इत्येषा न्यायशास्त्रसंमता प्रत्यक्षप्रक्रिया न भवतिन सिध्यतीत्याशङ्कते- न तहीति / उत्तरमाह- नेदमिति, यदिदं प्रत्यक्षलक्षणमुक्तं तत् 'एतावत्- इन्द्रियार्थसंनिकर्ष एव प्रत्यक्षे= प्रत्यक्षस्य कारणम्' इति / कारणावधारणम्= प्रत्यक्षकारणनियमः= इन्द्रियार्थसंनिकर्षातिरिक्ते आत्ममनःसंयोगादौ प्रत्यक्षकारणत्वव्यवच्छेदो नास्ति येनोक्ता प्रत्यक्षप्रक्रिया न सिध्येत् किं तु विशिष्टकारणवचनम्= प्रत्यक्षस्य यद् विशेषकारणं इन्द्रियार्थसंनिकर्षः स एवात्रोच्यते न तु ज्ञानमात्रसामान्यकारणम् आत्ममनःसंयोगादिकमपीत्यन्वयः / स्वोक्तमेव व्याचष्टे- यदिति / अनुमानादिस्थले चानुमेयादिना इन्द्रियसंयोगो न संभवति प्रत्यक्षे च भवतीति इन्द्रियार्थसंनिकर्षः प्रत्यक्षस्य विशिष्टं कारणम् / पर्यवसितमाह- यत्त्विति, यत्तु आत्ममनःसंयोगादिकमुक्तम् अनुमानादिज्ञानस्य समानम्= साधारणं कारणं तन्न निवर्तते किं तु तदपि साधारणं कारणं गृह्यते एवेति नोक्तप्रत्यक्षप्रक्रियया विरोध इत्यर्थः / ननु यद्यत्र प्रत्यक्षस्याऽसाधारणं कारणमु. च्यते तदात्र मनइंद्रियसंयोगोपि वक्तव्योस्ति तस्यापि प्रत्यक्षासाधारणकारणत्वात् न चात्रोक्त इत्याशऋते- मनस इति। उत्तरमाह-भिद्यमानस्येति,भाष्यमिदमसंगतमेव- हेत्वाभासतुल्यत्वादिति विभाव्यम् , भिद्यमानस्य= इन्द्रियभेदेन शब्दादिविषयभेदेन च बहुप्रकारस्य प्रत्यक्षज्ञानस्याऽयम्= मनइन्द्रियसंयोगो न भिद्यते किं त्वसाधारणत्वात् अनुवर्तते एवेति समानत्वात्= इन्द्रियार्थसंनिकर्षतुल्यत्वानोक्त इत्यन्वयः, उक्तेनेन्द्रियार्थसन्निकण मनइन्द्रियसंयोगोपि गृहीतो भवत्येव- मनइन्द्रियसंयोगं विना इन्द्रियार्थसंयोगस्यासंभवात् मनसा प्रेरितस्यैवेन्द्रियस्यार्थेन संयुज्यमानत्वादिति हेतोरेव मनइन्द्रियसंनिकर्षों न पृथगुक्त इत्यर्थः / तथा च वार्तिकम्- "इन्द्रियमनःसंयोगस्तीसाधारणत्वादुपसंख्येयः-न ह्ययमनुमानादिज्ञानानां कारणं भवति, न- अनेनैव तस्योक्तत्वात्= इन्द्रियार्थसंनिकर्षग्रहणेन इन्द्रियमनःसंयोग उक्तो वेदितव्यः / किं कारणम् ? उभयोरसाधारणत्वात्, न च यावदसाधारणं कारणं तावत् सर्वमभिधातव्यमित्यर्थः" इत्यादि / समानासमानजातीयेभ्यो व्यवच्छेदार्थमेव लक्षणं भवति स च व्यवच्छेदः प्रत्यक्षस्य इन्द्रियार्थसंनिकर्षमात्रग्रहणेनापि भवत्येवेति न मनइन्द्रियसंयोग उक्तः इत्याशयः / ___अव्यपदेश्यत्वविशेषणस्य सार्थक्यं प्रदर्शयितुमुपक्रमते- यावदर्थमिति, यावदर्थम्= प्रत्येकं घटपटादिपदार्थस्य घटपटादयो नामधेयशब्दाः= संज्ञाशब्दा वर्तन्ते तैस्तद्वाच्यार्थस्य घटपटादेः संप्रत्ययः= ज्ञानं जायते तेन चार्थज्ञानेनार्थस्याऽऽनयनादिव्यवहारो भवति तत्र= तादृशव्यवहारकाले रूपेन्द्रियसंनिकर्षादुत्पन्नमर्थज्ञानं रूपमिति रूपमित्याकारकम्= रूपविषयकं भवति रसेन्द्रियसंनिकर्षाच्चोत्पन्नमर्थज्ञानं रस इत्येवम् = रसविषयकं भवति रूपरसादिशब्दाश्च रूपादिविषयस्य नामधेयभूता एव तैश्च नामश्रेयशब्दैः रूपादिज्ञानं व्यपदिश्यते यथा- रूपशब्देन 'रूपमिति जानीते' इति रूपज्ञानं व्यप