________________ प्रत्यक्षलक्षणम् ] न्यायभाष्यम्। प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति, सा चेयं प्रमितिः प्रत्यक्षपरा- जिज्ञासितमर्थ'माप्तोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते. लिङ्गदर्शनानुमितं च प्रत्यक्षतो दिदृक्षते. प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते. पूर्वोक्तमुदाहरणम् / अग्निरिति प्रमातुः प्रमातव्येऽर्थे प्रमाणानां संकरोऽभिसंप्लवः, असंकरो व्यवस्थेति // 3 // // इति त्रिसूत्रीभाष्यम् // अथ विभक्तनां लक्षणमितिइन्द्रियार्थसंनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् // 4 // इत्यादिशब्दमात्रबोध्यत्वं स्वर्गेऽस्तीति शब्दप्रमाणव्यवस्था / स्तनयित्नोः= शब्दकरस्य मेघादेः शब्दे श्रूयमाणे= श्रुते सति गृहाभ्यन्तःस्थितस्य शब्दहेतोः= शब्दलक्षणहेतुना मेघादेरनुमानमेव भवति न तत्र प्रत्यक्षं वाऽऽगमो वा प्रवर्तते- असंभवादित्यनुमानव्यवस्था, किं वा शब्देन शब्दहेतोर्मेघादेरनुमानमित्यन्वयः / पाणौ= हस्ते प्रत्यक्षेणोपलभ्यमाने बदरे प्रत्यक्षमेव प्रवर्तते नानुमानं नाप्यागम इति प्रत्यक्षव्यवस्था / उपसंहरति-सा चेयमिति, प्रत्यक्षपरा प्रत्यक्षावसाना प्रत्यक्षानन्तरं तत्र प्रमाणापेक्षा न भवतीत्यर्थः / प्रमितेः प्रत्यक्षावसानत्वे हेतुमाह-जिज्ञासितमिति, प्रतिपद्यमानः= जानानः, तदनेन शब्दानन्तरमनुमानप्रवृत्तिः प्रदर्शिता, अनुमितमपि पदार्थ प्रत्यक्षेण द्रष्टुमिच्छति. प्रत्यक्षेण दृष्टस्य चार्थस्य जिज्ञासा निवर्तते= प्रत्यक्षानन्तरं तत्र प्रमाणापेक्षा न भवतीति हेतोः प्रमितिः प्रत्यक्षावसाना विज्ञेयेत्यर्थः / अस्योदाहरणं तु पूर्वोक्तं यथा- " अग्निराप्तोपदेशात् प्रतीयते” इत्यादि तत्र प्रत्यासन्नेन प्रत्यक्षोपलब्धेऽनौ जिज्ञासा निवर्तते इति प्रमितिः प्रत्यक्षावसानेत्याह- पूर्वोक्तमिति / एवमुक्तोदाहरणेषु प्रमाणानां संकरस्य विषयमाह- अग्निरितीति, अग्निरिति प्रमातुः= अग्निप्रमातुः किं वात्राग्निरस्ति न वेति प्रमातुः प्रमातव्येर्थे = अग्नौ प्रमाणानाम् उक्तरीत्या शब्दानुमानप्रत्यक्षाणां यः संकरः सोऽभिसंप्लवः, यश्च स्वर्गादावसंकरः प्रदर्शितः सा प्रमाणानां व्यवस्था विज्ञेयेत्यन्वयः / स्पष्टमन्यत् / / 3 / / // इति त्रिसूत्रीप्रसन्नपदा // प्रमाणानां लक्षणमवतारयति- अथेति, विभक्तानाम्= तृतीयसूत्रेण चतुर्धा विभक्तानां प्रमाणानां लक्षणमुच्यते / इन्द्रियार्थेति- इन्द्रियार्थयोः संनिकर्षण- संयोगेनोत्पन्नम् अव्यपदेश्यम्= शाब्दबोधातिरिक्तम् अव्यभिचारि= भ्रमातिरिक्तम् व्यवसायात्मकम्= निश्चयात्मकम्= संशयातिरिक्तम् यत् ज्ञानं तत् प्रत्यक्षमित्यन्वयः / इन्द्रियार्थसंनिकर्षे सत्यपि संनिकृष्टविषयकं शब्देनापि ज्ञानं संभवतीति तद्व्यवच्छेदार्थम्- अव्यपदेश्यमिति विशेषणम्, व्यपदिश्यते= शब्देन जायते इति व्यपदेश्यमिति शाब्दबोधनामधेयम् / भ्रमात्मकं ज्ञानं व्यभिचारि भवति- अतस्मिन् तबुद्धिरूपत्वात् यथाऽरजतस्य रजतत्वरूपेण ग्रहणम् तदपि इन्द्रियार्थसंनिकर्षोत्पन्नमव्यपदेश्यं च भवतीति तद्व्यवच्छेदार्थम्- अव्यभिचारीति विशेषणम् / अथापि 'स्थाणुर्वा पुरुषो वा,' इतिसंशयात्मकज्ञानेऽतिव्याप्तिः स्यादिति तद्व्यवच्छेदार्थम्- व्यवसायात्मकमिति विशेषणम् , संशयस्तु निश्चयात्मको न भवति / अनुमानस्थले प्रमेयेणेन्द्रियसंयोगाभावात् शाब्दबोधस्याऽव्यपदेश्यत्वाभावादुपमानकरणस्य सादृश्यज्ञानस्य चात्र प्रवेशाभावान्नास्य प्रत्यक्षलक्षणस्यानुमानादावतिव्याप्तिरिति सूत्रार्थः / /